सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 248, कुल 258 में से
संदर्भ में पढ़ें218
अथ ऋषभाभिनयः ।
हंसास्याभिध हस्तेन दक्षिणे नेतरेणतु ।
कटिस्थेनार्धचन्द्रेण समेनशिरसा तथा ॥ २०६ ॥
ब्राह्मचारुख्यस्थानकेनापि धीमान् ऋषभमादिशेत् ।
अथ गान्धाराभिनयः ।
शुकतुण्डेन हस्तेन दृष्ट्या करुणया तथा ।
अधोमुखेन शिरसाऽश्वक्रान्तस्थानकेन च ॥ २०७ ॥
चार्याप्युचितया धीमान् गान्धारं स्वरमदिशेत् ।
अथमध्यमाभिनयः ।
शैवाख्यस्थानकेनापि कटिच्छिन्नेनवापुनः ॥ २०८ ॥
दृष्ट्याचहास्यया धीरोऽभिनयेन्मध्यमं स्वरम् ।
अथ पञ्चमाभिनयः ।
कृत्वाऽलपल्लवौ हस्तौ धुतेनशिरसा तथा ॥ २०९ ॥
वैष्णवस्थानकेनापि दृष्ट्या कान्ताख्यया तथा ।
एवं विनिर्दिशेद्धीमान् स्वरं पञ्चमसंज्ञकम् ॥ २१० ॥
धैवताभिनयः ।
काङ्गुल हस्तकौ कृत्वा दृष्ट्या बीभत्सया तथा ।
परावृत्ताख्य मूर्ध्ना च प्रत्यालीढाभिधेन च ॥ २११ ॥