सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 244, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 244

214
यदिमण्डी मधिष्ठाय प्रसृतौ भ्रमतः करौ ।
तदा तं नटशार्दूलाः पक्षिशार्दूलमूचिरे ॥ १७५ ॥
इति पक्षिशार्दूलः । इति ध्रुवाड लागनृत्तम् ।
(Sl. 162-175) Dhruvāḍalāga Nritya and its vari-
eties.
(சு. 162-175) த்ருவாடலாக நிருத்தியத்தின் வகைகள்.
अथ शब्दनृत्तं प्रारभ्यते ।
अङ्गैर्द्रुतादिमानं स्यात् तत्तत्कारं च पादयोः ।
वाद्याक्षरं रसैर्युक्तं शब्दनृत्तं तदा भवेत् ॥ १७६ ॥
गावेनटः स्वरानङ्गैर्भावान् लोचनचेष्टितैः ।
पादाभ्यां दर्शयेत्तालं लयान् शब्दाक्षराण्यपि ॥१७७॥
ताळधारिण्यमिव्यक्त तादिकं वर्णसञ्चयम् ।
समुच्चरति षड्जादीन् मगणादिगणान्वितम् ॥ १७८ ॥
चतुरश्रं समाधाय विधाय शिखरंकरम् ।
नाभावेकमुरोदेशेष्यपरं पुरतःकरम् ॥ १७९ ॥
पताकहस्तकाद्यन्यतमं कुर्यात्प्रयत्नतः ।
आद्यशब्दाक्षरोत्पत्तिहेतुकं सुभगं ततः ॥ १८० ॥
एकपादं पुरस्सूची परं चरणमञ्चितम् ।
पश्चान्न्यासयतं हस्तं तत्तत्कारसमं यदा ॥ १८१ ॥
व्यावर्तयेत्तमेवाङ्घ्रिं नयेत्पश्चात्तथापरम् ।
नाभौ तदूर्ध्वकुचयोः स्कन्धयोः शिखरौकरौ ॥ १८२ ॥