सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

भुवनकोशः पञ्चमोऽध्यायः । १३
अरण्यगोचरा जीवाः सप्तैते वत्स ! निर्मिताः ।
धर्माधर्मविवेक्तिंत्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥ ३२ ॥
अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः ।
सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥ ३३ ॥
चतुर्धैत्यण्डजन्मानो जन्मनस्ते प्रकीर्त्तिताः ।
२क्लेद (केप ? केश) समुद्भूताः कृमियूकादिजन्तवः ॥ ३४ ॥
सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः ।
उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते३ ॥ ३५ ॥
द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः ।
छन्नान्तःकरणत्वं च स्वस्थानात्यागितापि च ॥ ३६ ॥
छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् ।
गायत्री भूतसंज्ञे(षां ? षा) चतुर्विंशतिपर्विका ॥ ३७ ॥
ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् ।
भुवन'भूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः ।
वसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स ! मे ॥३८॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
महदादिस(ङ्गा ? र्गा )ध्यायश्चतुर्थः ॥
अथ भुवनकोशः पञ्चमोऽध्यायः ।
अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते ।
विष्कम्भपरिधी वत्स ! बाहुल्यमपि च स्फुटम् ॥ १ ॥
विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः ।
लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः ।
विष्कम्भत्रिगुणो यावद् विष्कम्भांशश्च पञ्चमः ॥ २ ॥
१ द. विवेक्तित्वा । २ द. केशकोषेषु (?) । ३ ख. ग. द. ये ।

१४ समराङ्गणसूत्रधारे
मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः ।
द्वात्रिंशत्कोटयः षष्टिलक्षाणि परिधिः क्षितेः ॥ ३ ॥
अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः ।
योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥ ४ ॥
इति बाहुल्यमेतस्याः क्षितेर्वत्स ! तवोदितम् ।
चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥ ५ ॥
उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः ।
तोयादिषु स्थितेयं भूश्चक्रवद् वृत्तशालिनी ॥ ६ ॥
पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् ।
प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥ ७ ॥
द्वीपादीनां तु पाथोघिनिवेशः पुनरुच्यते ।
द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥ ८ ॥
जम्बूद्वीपो भवेद् वृत्त:^३ सहस्रशतविस्तृतः ।
हिमाद्रिर्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥ ९ ॥
श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः ।
एतस्मादुत्तरेणाद्रेस्तुषाराङ्कितमेखलात् ॥ १० ॥
पूर्वापरायताः सर्वेऽप्यद्रयो यावदम्बुधि ।
अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥ ११ ॥
वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः ।
उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥ १२ ॥
सेवितः सिद्धनारीभिरानीलनिषधायतः ।
सुमेरोः पश्चिमेनाद्रिर्गन्धर्वकुलसङ्कुलः ॥ १३ ॥
माल्यवत्सदृशायामो महीभृद् गन्धमादनः ।
पर्वतावुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥ १४ ॥
१ द. पात्रस्थापर; शास्त्रिभिः 'वर' पाठः टिप्पण्यां दत्तः । २ द. ख. ग. दीपावनीषु पाथोघेः ।
३ क. सम ।

भुवनकोशः पञ्चमोऽध्यायः १९
योजनानां सहस्रे द्वे १सार्धे स्यादुच्छ्रयस्तयोः ।
श्वेतश्च हेमकूटश्चैत्यन्तयोः पृथिवीधरौ ॥ १५ ॥
योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः ।
निषधाचलनीलाद्रिमाल्यवद्गन्धमादनाः ॥ १६ ॥
सहस्रयोजनोच्छायाश्चत्वारोऽमी पृथक्पृथक् ।
एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥ १७ ॥
उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा ।
मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता२ ॥ १८ ॥
षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः३ ।
जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥ १९ ॥
द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः ।
शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥ २० ॥
महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः ।
कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥ २१ ॥
यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः ।
तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥ २२ ॥
निवसन्ति सुखं तत्र शेषवासुकितक्षकाः ।
हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥ २३ ॥
अत्रामराः साप्सरसस्त्रयस्त्रिंशद् वसन्ति ते ।
वैदूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥ २४ ॥
कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् ।
श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥ २५ ॥
दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम् ।
महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥ २६ ॥
१ द. ख. ग द्वेद्वे सार्धे उच्छ्रं । २ द. चतुर्युताः । ३ द. विस्तृतः ।

१६ समराङ्गणसूत्रधारे।
पितॄणामालयः शृङ्गैरूच्छ्रितैः शृङ्गवान् गिरिः।
हिमाचलस्य याम्येन क्षारान्धिवृतमैन्यतः ॥ २७ ॥
वर्षं स्याद् भारतं नाम प्रथमं कार्मुकाकृति।
तुषारनिलयस्याद्रेर्हेमकूटाचलस्य च ॥ २८ ॥
मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम्।
अन्तरे हेमकूटस्य निषधस्य च भूभृतः ॥ २९ ॥
हरिवर्षमिति प्रोक्तं तृतीयं वर्षमुत्तमम्।
निषधाचलनीलाद्रिमाल्यवद्गन्धभूभृताम् ॥ ३० ॥
चतुर्णां मध्यगं वर्षं तुर्यमस्मिन्निलावृतम्।
उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥ ३१ ॥
पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम्।
श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ॥ ३२ ॥
मध्ये षष्ठं हिरण्यांशुरम्यं हैरण्यकाह्वयम्।
अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥ ३३ ॥
कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते।
अन्तरा नीलनिषधौ प्राग्भागे माल्यवद्गिरेः ॥ ३४ ॥
भद्राश्वमष्टमं वर्षं प्राक्समुद्रान्तमीरितम्।
गन्धमादनशैलस्य प्रत्यक् प्राक् चापाम्बुधेः ॥ ३५ ॥
नवमं वर्षमाचार्याः केतुमालं प्रचक्षते।
इति प्रोक्तानि वर्षाणि नवामूनि मया तव ॥ ३६ ॥
साम्प्रतं पुनरेतेषां प्रमाणमवधारय।
प्रमाणेन सहस्राणि चतुस्त्रिंशच्चतुर्दिशम् ॥ ३७ ॥
योजनानामिहेच्छन्ति चतुरश्रमिलावृतम्।
प्राक्प्रत्यग्भागगे वर्षे तस्योदग्याम्यतः समे ॥ ३८ ॥
१. द. ख. ग. मध्यतः।

भुवनकोशः पञ्चमोऽध्यायः । १७
एकत्रिशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते ।
यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥ ३९ ॥
तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता ।
वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥ ४० ॥
जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः ।
हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥ ४१ ॥
१सायुतं च सहस्रं ते जीवन्ति रजतत्विषः ।
इलावृते नराः पद्मरागभासोद्गतास्तथा ॥ ४२ ॥
जम्बूफलरसाहाराः सपादायुतजीविनः ।
नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥ ४३ ॥
स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी ।
कैरवोदरसच्छाया भद्राश्वे साङ्गना नराः ॥ ४४ ॥
नीलाभ्रकफलाहारा भवन्त्यत्रायुतायुषः ।
दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥ ४५ ॥
शरदमयुतं तेषामायुः पनसभोजिनाम् ।
श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग् जनः ॥ ४६ ॥
हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः ।
श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्मये ॥ ४७ ॥
जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः ।
कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥ ४८ ॥
सपादमयुतं देवगर्भाभा गौरकान्तयः ।
पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥ ४९ ॥
शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी ।
वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥ ५० ॥
उद्भिन्नाद्रिनदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः ।
उदश्वद्वीचिमालेन लावणेनाम्बुधिना बहिः ॥ ५१ ॥
१ द. अयुतं सहस्रान्ते ।
वा. ३

परिक्षिप्तोऽयमुक्तस्ते जम्बूद्वीपो मयाखिलः ।
द्वादशाम्बुनिधावत्र पृथग् भूमिभृतः स्थिताः ॥ ५२ ॥
त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः ।
मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥ ५३ ॥
नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे ।
उदग्भागेऽपि च द्रोणकङ्कचन्द्रा इति त्रयः ॥ ५४ ॥
धूम्रको दुन्दुभिश्चैव सार्द्रकश्चेति पूर्वतः ।
सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥ ५५ ॥
मग्नास्तदर्धमम्भोद्यौ विस्तुताश्च धराधराः ।
जुष्टाः सर्वै सुरैः शृङ्गौढिलीढविहायसः ॥ ५६ ॥
ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः ।
द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥ ५७ ॥
गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः ।
क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥ ५८ ॥
द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात् ।
खद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥ ५९ ॥
अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः ।
यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥ ६० ॥
शाके सप्ताद्रयस्तेषूदद्यो जलधरस्तथा ।
नारको रैवतः श्यामो राजतोऽर्थाम्बिकेयकः ॥ ६१ ॥
चतुःसाहस्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः ।
तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥ ६२ ॥
वृत्तानां द्वीपवत् तेषां बाह्यतोऽमूननुक्रमात् ।
वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥ ६३ ॥
जलदाख्यं कुमारं च सुकुमारं मणीचकम् ।
कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥ ६४ ॥


१ द. यांबिको जयः । ख. जांबिको॑ । जयः ग. पाठः ।

भुवनकोशः पञ्चमोऽध्यायः । १९
कुशे विद्रुमहेमारुणौ द्युतिमानथ पुष्पवान् ।
कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥ ६५ ॥
विष्कम्भोऽष्टसहस्राणि तेषां प्रत्येकमीरितः ।
तदर्धमुच्छ्रयस्तद्वदुच्छ्रयार्धमधोगमः ॥ ६६ ॥
उद्भिदं वेणुवत्संज्ञं सरालम्प्रथ लम्बनम् ।
वर्षं श्रीमत् प्रभाकृच्च कपिलं १पन्नगाभिधम् ॥ ६७ ॥
क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ ।
द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त २कुलाद्रयः ॥ ६८ ॥
विष्कम्भोऽयुतमेतेषां विष्कम्भार्धं समुच्छ्रयः ।
अधोगतिस्तदर्धं च वर्षाण्येषां तु बाह्यतः ॥ ६९ ॥
३कुसलाख्याष्टवर्षाख्ये ४परापतमनोनुगे ।
मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥ ७० ॥
गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा ।
वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥ ७१ ॥
वैपुल्यार्धं समुच्छ्रायस्तदर्धमवनौ गतिः ।
वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥ ७२ ॥
गोमेदे तु सुरश्चेति कुमुदश्चेति भूधरौ ।
योजनानां चतुःषष्टिसौ सहस्राणि विस्तृतौ ॥ ७३ ॥
उच्छ्रायो विस्तरस्यार्धं तदर्धं चाप्यधोगतिः ।
धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥ ७४ ॥
अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः ।
बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ॥ ७५ ॥
विस्तृतोऽष्टौ सहस्राणि शैलोऽयं द्वे तथायुते ।
सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ॥ ७६ ॥
व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः ।
सुरेशानां नगर्योऽस्मिन् मया वत्स ! निवेशिताः ॥ ७७ ॥
१ द. न्यूनगाभिधम् । २ द. ख. ग. कुलाचलाः । ३ द. कुशला° । ४ द. पारापत° ।

ऐन्द्री १वस्वोकसारा प्राग् याम्या संयमनी ततः ।
प्राचेतसी सुखा पश्चात् तथा सौम्योत्तरे विभा ॥ ७८ ॥
धर्मरक्षार्थमेतासु चत्वारश्चतसृष्वपि ।
तथा लोकव्यवस्थार्थं पृथग् लोकभृतः स्थिताः ॥ ७९ ॥
लोकालोकाचलः स्वादुसलिलाद् द्विगुणो बहिः ।
स्वादूदधिप्रमाणात् स विस्ताराद् द्विगुणोऽपि च ॥ ८० ॥
समुच्छ्रितोऽसौ नियुतं नियुतार्धमधो गतः ।
पञ्च क्रोशाः प्रतिदिशं नियुतानि तथा नव ॥ ८१ ॥
तदूध्वं नियुतस्यार्धं मेरुमध्यात् तदन्तरम् ।
समुद्रासितदेहार्धस्तिग्मांशोः किरणैरयम् ॥ ८२ ॥
तत्समेन च भूम्यर्धेनावृतः परतः पुनः ।
भौतान्यावरणाण्युर्व्या यस्यैतानि स्थितान्यधः ॥ ८३ ॥
बाह्यतोऽपि च भूम्यूर्ध्वं निविष्टानि तथानघ ! ।
इति वत्स ! २तव प्रोक्तः सन्निवेशोऽखिलः क्षितेः ॥ ८४ ॥
स्थितिं गतिं च कथयाम्यर्कादीनामतःपरम् ।
सूर्येन्दुधिष्ण्यज्ञसितभौमार्किंत्रिदशार्चिताः ॥ ८५ ॥
सप्तर्षयो ध्रुवश्चेति भूमेरूर्ध्वं क्रमात् स्थिताः ।
चत्वारि द्वे तथा भूमेरूर्ध्वमा सूर्यनन्दनात् ॥ ८६ ॥
षडेवमन्तराणि स्युः सहस्राणां शतं शतम् ।
३ग्रहान्तराणि यान्यन्यान्यवशिष्टान्यनुक्रमात् ॥ ८७ ॥
तानि चत्वार्यपि द्वे द्वे लक्षे प्रोक्तानि मानतः ।
धरित्रीध्रुवयोर्मध्ये योजनानां चतुर्दश ॥ ८८ ॥
नियुतानि समुत्सेधस्त्रैलोक्यस्य प्रकीर्तितः ।
एकाथ द्वे चतस्रोऽष्टावन्तरं कोटयः क्रमात् ॥ ८९ ॥
महोजनस्तपःसत्यलोकानामुपरि ध्रुवात् ।
ये स्थिताः सत्यलोकोर्ध्वमधस्तादण्डकर्परात् ॥ ९० ॥


१ द. वस्वौकसारा । २ द. यथोक्त...खिलक्षितेः । ३ द. सूक्ष्मांतराणि ।

भुवनकोशः पञ्चमोऽध्यायः । २१
एका कोटिर्भवेत् तेषां पञ्चाशन्नियुतान्विता ।
अथावरणयोगोऽस्य विहितः (स ? प )ङ्कजन्मना ॥ ९१ ॥
यथैवाधस्तथा तिर्यक् तथैवोर्ध्वमपि क्रमात् ।
वहेऽब्दाः प्रवहे सूर्यः स्थितः शीतांशुुरुद्वहे ॥ ९२ ॥
संवहस्थानि नक्षत्राण्यावहस्थाः पुनर्गहाः ।
सप्तर्षयः परिवहे ध्रुवश्चापि परावहे ॥ ९३ ॥
प्रदक्षिणममी सप्त मरुतो भ्रमयन्त्यमून ।
मेधीभूतः स्थितो मध्ये सुमेरुक्ष्माभृति ध्रुवः ॥ ९४ ॥
समस्तमपि तद्बद्धं ज्योतिश्चक्रं भ्रमत्यदः ।
सप्ताश्वेनैकचक्रेण रथेन रथिनां वरः ॥ ९५ ॥
१तेजोमयेन २सततं भ्राम्यति ज्योतिषां पतिः ।
केतुमाले (रजन्यर्धं ? व्रजन्नूर्ध्वं) करोत्यस्तं कुरुष्वपि ॥ ९६ ॥
मध्यन्दिनं च भद्राश्वे (दृष्ट् ? स्तंग)च्छन् भारते रविः ।
रसाब्धिपक्षसङ्ख्यानि योजनानि निमेषतः ॥ ९७ ॥
सप्तविंशतिकां चाष्टौ भागान् सर्पत्यहर्पतिः ।
३योजनान्य(धिवनन्दनुं ? च्धिनन्दतुं) गुणसङ्ख्यानि काष्ठया ॥ ९८ ॥
नवांशकचतुष्कं च क्रामत्यहिमदीधितिः ।
वह्न्यग्निवसुखेन्द्रक्ष्मासङ्ख्यातान्यब्जिनीपतिः ॥ ९९ ॥
योजनस्य त्रिभागं च प्रयाति कलयाैकया ।
वियत्खव्योमभूताश्विगुणपावकसङ्ख्यया ॥ १०० ॥
योजनान्युष्णकिरणो मुहूर्तेन प्रसर्पति ।
रात्र्यहेण सहस्राणि पञ्चाशन्नवकोटयः ॥ १०१ ॥
लक्षाणि सप्तनवतिर्गतिः स्यात् तिग्मरोचिषः ।
मध्येन पुष्करद्वीपस्यार्को गत्यानया व्रजन् ॥ १०२ ॥
नभस्तलेन पुनरप्युदयादुदयं श्रयेत् ।
इत्थं गतिरियं सम्यक् तिग्मभानोर्निरूपिता ॥ १०३ ॥
१ एतदादिश्लोकद्वयं ख. ग. मातृकयोर्नास्ति । २ दृ. पतितं । ३ योजनान्यं नाश्विनंदत्तु (?)

२२ समराङ्गणसूत्रधारे
गतिं चन्द्रग्रहर्क्षाणां भोगं चार्काद् विभावयेत् ।
प्रोक्तं तवेत्यहोरात्रप्रमाणमधुनानघ ! ।
पक्षमासर्तुवर्षादीन् व्यवहाराय कल्पयेत् ॥ १०४ ॥
इति निगदित एष द्वीपशैलाम्बुधीना-
मवनिवलयवर्त्ती कात्स्न्यर्तः सन्निवेशः ।
गतिरपि दिनभर्त्तुः कीर्त्तिता विश्वमानं
पुनरिह युगधर्मं कीर्त्त्यमानं निबोध ॥ १०५ ॥
²इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
भुवनकोशाध्यायः पञ्चमः ॥
अथ सहदेवाधिकारः षष्ठोऽध्यायः ।
अथ प्राक्थितादस्माद् भूतसर्गादनन्तरम् ।
प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ॥ १ ॥
शोकव्याधिजरातङ्कविमुक्तास्त्रिदशा इव ।
पुराभवन् कृतयुगे पुमांसः स्थिरयौवनाः ॥ २ ॥
ते निकुञ्जेषु शैलानां नदीषु च सरस्सु च ।
वनेषु च विचित्रेषु चिक्रीडुर्दैवतैः सह ॥ ३ ॥
हेलया ते समुत्पत्य कदाचिदमरैः सह ।
निरर्गलाः समासाद्य खर्विचेरुः सुरा इव ॥ ४ ॥
चित्राम्बरावृताः सर्वे नानाभरणशालिनः ।
विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥ ५ ॥
मनोज्ञाभिः सह स्त्रीभिर्विचित्राभर(णास्त्रि ? णश्रि)यः ।
कल्पद्रुमेष्वकार्षुस्ते वासं क्रीडां च तेष्वथ ॥ ६ ॥
क्षुत्तृड्दुःखोज्झिताः सर्वे बभूवुरयुतायुषः ।
रक्तावदातदेहास्ते कदाचिद् भूरसाशिनः ॥ ७ ॥
रतिप्रायास्तदासन्स्ते स्वेच्छाहारविहारिणः ।
स्वीकारविग्रहच्छेदविशदीकृतचेतसः ॥ ८ ॥


१ द. ममुनानघ । २ द. इतः परं ६/२९ पर्यन्तं त्रुटितं ।

सहदेवाधिकारः षष्ठोऽध्यायः । २३
नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः ।
नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥ ९ ॥
भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्रनिस्वनाः ।
अचण्डाशनयश्चासन् कबरीकान्तयो घनाः ॥ १० ॥
माद्यत्पिकवधूदष्टमाकन्दमुकुराङ्कुराः ।
आसन् सदापुष्पफलाभोगा येषां वनालयाः ॥ ११ ॥
एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च ।
ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥ १२ ॥
रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि ।
समत्वान्नाभवत् तेषामुत्तमाधममध्यता ॥ १३ ॥
न खेटनगरग्रामपुरक्षेत्रखलादिकम् ।
न दंशमशकक्रव्याद्वयं वा न ग्रहादि च ॥ १४ ॥
कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत् ।
पुरास्मिन् भारते वर्षे तेषां निवसत़ामिति ॥ १५ ॥
जगाम सुबहुः कालः सुरैः सार्ध सुर(स्त्रि ? श्रि)याम् ।
अज्ञाततत्प्रभावानां सहसंवाससंभवा ॥ १६ ॥
अथैषामभवद् दैवादवज्ञा त्रिदशान् प्रति ।
अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥ १७ ॥
आदाय तत्कल्पतरुं निपेतुर्द्यां दिवौकसः ।
दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥ १८ ॥
सरसः परमो भूमौ भूरसश्च न्यवर्तत ।
स्मृत्वा कल्पद्रुमांस्तांस्तान् क्रीडास्ताश्च सुरैः सह ॥ १९ ॥
व्यलपन् बहुधात्यर्थमनैर्थकृतचेतसः ।
ततो विलपतां भूरि स्वैरमाहारहेतवे ॥ २० ॥
प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि ।
भूरसेनेव तेनैते कुर्वाणाः प्राणरक्षणम् ॥ २१ ॥
१ 'नर्थीकृ' ख. पाठः ।

२४ समराङ्गणसूत्रधारे
विना कल्पद्रुमैर्वासमन्यवृक्षेषु चक्रिरे ।
अथैषां पश्यतामेव कदाचिद् भाग्यसंक्षयात् ॥ २२ ॥
विपर्ययाच्च कालस्य भूमेः पर्पटकोऽप्यगात् ।
ततः पर्पटके नष्टे तुषशूककणोज्झिताः ॥ २३ ॥
अकृष्टपच्या मेदिन्यामभवञ् शालितण्डुलाः ।
शाल्योदनेन तेनाथ स्वादुव्यञ्जनेन ते ॥ २४ ॥
परमां तृप्तिमासेदुः परितोषात्तचेतसः ।
तन्नाशशङ्कया शालितण्डुलानां द्रुमेष्वधः ॥ २५ ॥
ते व्यधुर्महतो राशींस्तंत्क्षेत्राणि च चक्रिरे ।
अजायत ततो लोभो मात्सर्यैर्ष्यापुरस्सरः ॥ २६ ॥
तत्र तत्र शनैश्चक्रे पदन्यासं च मन्मथः ।
द्वन्द्वप्राप्त्या ततस्तेषां बिभ्रतामुत्तमां गतिम् ॥ २७ ॥
धैर्यध्वंसादभूत् स्त्रीषु भृशं रागतुरङ्गमः ।
दारक्षेत्रनिमित्तानि भूयांस्येषामनन्तरम् ॥ २८ ॥
परिक्लेशैकमूलानि द्वन्द्वान्यसन् पृथक्पृथक् ।
ततः स्वक्लृप्तमर्यादोच्छेदिष्वेष्वजितात्मसु ॥ २९ ॥
अविनीतेष्वभाग्येषु स शालिस्तुषतामगात् ।
प्रवृद्धरजसां तेषां सा पुण्यश्लोकता गता ॥ ३० ॥
मलप्रवृत्तिरभवत् तुषधान्योपसेवया ।
तुषधान्ये ततो नष्टे परिभुक्ते च सञ्चये ॥ ३१ ॥
चीरवल्कलवस्त्राणां कन्दमूलफलाशिनाम् ।
ऋतवः कालपर्यासात् षड् वसन्तादयोऽभवन् ॥ ३२ ॥
ततस्तेषामभूद् दोषरोगशोकाकुलं वपुः ।
मनश्च कामक्रोधेष्र्यादैन्यास्रूयादिदूषितम् ॥ ३३ ॥
आधिदैवकमुष्णाम्बुशीतादिजनितं महत् ।
आधिभौतिकमप्यासीद् दुःखं व्यालमृगादिजम् ॥ ३४ ॥
१ 'स्ततः क्षेत्राणि चक्रि' ख. ग. पाठः । २ 'र्यादास्वनिष्ठेष्व' क. पाठः ।

वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २५
इत्थं दुःखलयार्त्तास्ते व्यवायाद्यभिगुप्तये ।
हिमनीहारशीताम्बुवाताद्यापच्छिदेऽपि च ॥ ३५ ॥
अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि (ते ? च) ।
व्यधुश्छित्त्वाश्मभिर्वृक्षानन्यान् दुःखार्तचेतसः ॥ ३६ ॥
स्मृत्वा कल्पद्रुमाकारास्तद्रूपाणि गृहाणि ते ।
एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥ ३७ ॥
श(ब्दा ? ष्प)प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः ।
हृष्टास्तेष्वनयन् 'कालमाप्तेषु गृहमेधिनः ॥ ३८ ॥
इत्यमीषु गृहिणो गृहेषु ते शीतवातजलतापनाशिषु ।
हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥ ३९ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
सहदेवाधिकारो नाम षष्ठोऽध्यायः ॥

अथ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः ।
अथामरगणैः सार्धमाजगाम पितामहः ।
दुःखच्छेदाय मर्त्यानामादाय नृपतिं पृथुम् ॥ १ ॥
स तानूचे प्रभुर्वोऽसौ मरुतामिव वासवः ।
दण्डधारी च दुष्टानां प्रभावे लोकपालवत् ॥ २ ॥
प्रतापतापितारांतिसिंहः सिंहपराक्रमः ।
युष्माकमाधिपत्येऽसावभिषिक्तो मया पृथुः ॥ ३ ॥
रक्षाकृत् सर्वशिष्टानामुच्छेत्ता दुष्टचेतसाम् ।
³वृत्तितो भीतिहृत् च भविष्यत्येष वो नृपः ॥ ४ ॥
भवद्भिरेतदायत्तैर्भवितव्यं ममाज्ञया ।
करिष्यत्येष वो ⁴नीत्या चातुर्वर्ण्याश्रमस्थितीः ॥ ५ ॥
१ द. क्रामास्तेषु; ख. ग. कामाप्तास्ते । २ क. ॰रातिः शश्वन् सिंह॰ । ३ द. वृत्तिदो । ४ द.
नित्याचारवर्णाश्रमस्थितीः ।
वा. ४

उक्त्वेति ब्रह्मणि गते नाथमासाद्य तेऽथ तम् ।
अवोचन् दुःखिता दुःखादस्मात् त्रायस्व नः प्रभो ! ॥ ६॥
कल्पद्रुमामर्त्यक्तान् द्वन्द्वार्तिक्रान्तचेतसः ।
व्यसनार्णवनिर्मग्नान् पाहि नः पृथिवीपते ! ॥ ७॥
अथो पृथुरुवाचैतान् मा भैष्ट सुखमास्यताम् ।
दुःखान्यपहरिष्यामि करिष्ये च सुखानि वः ॥ ८ ॥
ततः स चतुरो वर्णानाश्रमांश्च व्यभाजयत् ।
तेषु ये वेदणिरताः स्वाचाराः संयतेन्द्रियाः ॥ ९ ॥
¹सूरयश्चावदाताश्च ब्राह्मणास्तेऽभवंस्तदा ।
यजनाध्ययने दानं याजनाध्यापनार्थिताः ॥ १० ॥
धर्मास्तेषां विमुच्यान्यांस्त्रींस्तुल्याः क्षत्रवैश्ययोः ।
ये तु शूरा महोत्साहाः शरण्या रक्षणक्षमाः ॥ ११ ॥
दृढव्यायतदेहाश्च क्षत्रियास्त इहाभवन् ।
विक्रमो लोकसंरक्षाविभागो व्यवसायिता ॥ १२ ॥
एतेषामयमप्युक्तो धर्मः शुभफलोदयः ।
निसर्गनैपुणं येषां रतिर्वित्त call: र्जनं प्रति ॥ १३ ॥
श्रद्धादाक्ष्य²दयावन्तो वैश्यांस्तानकरोदसौ ।
चिकित्सा कृषिवाणिज्ये स्थापत्यं पशुपोषणम् ॥ १४ ॥
वैश्यस्य कथितो धर्मस्तद्वत् कर्म च तैजसम् ।
नातिमानभृतो नातिशुचयः पिशुनाश्च ये ॥ १५ ॥
ते शूद्रजातयो जाता नातिधर्मरताश्च ये ।
कलारम्भोपजीवित्वं शिल्पिता पशुपोषणम् ॥ १६ ॥
वर्णत्रितयशुश्रूषा धर्मस्तेषामुदाहृतः ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थस्तथा यतिः ॥ १७ ॥
इत्याश्रमाः ³पृथक् तेन चत्वारः प्रविभाजिताः ।
गुरुशुश्रूषणं भैक्षं व्रतचर्याग्निकर्म च ॥ १८ ॥
१ द. ख. ग. शुचयश्चां । २ द. ˚दयावन्तो । ३ द. पृथक्त्वेन ।

वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २७
स्वाध्यायश्चाभिषेकश्च धर्मोऽयं ब्रह्मचारिणः ।
पूजाग्न्यतिथिदेवानां स्ववृत्त्या जीवनं दमः ॥ १९ ॥
असमानर्षिगोत्रेषु विवाह ऋतुगामिता ।
$^१$परस्थ स्त्रीषु वैमुख्यं परानुग्रहशीलता ॥ २० ॥
विनिवृत्तिकरार्य्येभ्यो धर्मोऽयं गृहिणां कृतः ।
देवतातिथिसत्कारो ब्रह्मचर्यं वने स्थितिः ॥ २१ ॥
वल्काजिनजटाचीरधारणं शयनं भुवि ।
उपोषणैर्व्रतैर्देहकर्शनं नियमैस्तथा ॥ २२ ॥
आहारोऽकृष्टपच्यैश्च धर्मोऽयं वनवासिषु ।
वैराग्यमिन्द्रियजयश्चिन्त्यात्यागः प्रशान्तता ॥ २३ ॥
आकिञ्चन्यमनारम्भो यतिधर्मः सदा स्मृतः ।
क्षमत्वं गुर्वधीनत्वं शौचं स्वाध्यायनित्यता ॥ २४ ॥
विशुद्धिर्व्यवहारेषु शिष्यधर्मोऽयमीरितः ।
शुचित्वं वाङ्मनःकायैः पतिशुश्रूषणं क्षमा ॥ २५ ॥
पूजनं पतिपूज्यानां स्त्रीधर्मः शौचमेव च ।
एवं वर्णाश्रमान् सम्यक् कृत्वा वर्णांस्तदुद्भवान् ॥ २६ ॥
विभज्य तेषां बैन्येन ते ते धर्माः प्रकीर्तिताः ।
वृत्तिं कर्माणि चैतेषां पृथगुद्दिश्य सोऽभ्यधात् ॥ २७ ॥
स्वधर्मावस्थितानां वो भावि लोकद्वये सुखम् ।
य एतां स्थितिमुल्लङ्घ्य मोहादन्यद् विधास्यति ॥ २८ ॥
तस्याहं यमवत् क्रुद्धः करिष्याम्यनुशासनम् ।
युक्तानां कर्मसु स्वेषु $^२$वृत्त्यर्थं भवनामहम् ॥ २९ ॥
खेटकग्रामवेश्मानि विधास्यामि पुराणि च ।
इत्युक्त्वा तानथो कोट्या कार्मुकस्य पृथुर्नृपः ॥ ३० ॥
विषमां साधयामास पृथिवीं पृथुविक्रमः ।
तत्सङ्क्लेशेन गौर्भूत्वा नश्यन्ती तेन मेदिनी ॥ ३१ ॥
१ द. परस्वं । २ द. ख. ग. भूत्यर्थं ।

२८ समराङ्गणसूत्रधारे
विधेर्नियोगाद् दुदुहे साधु सस्यानि भूतये ।
कल्पितास्तेन शैलानां सरितामन्तरेषु च ॥ ३२ ॥
समेषु चावकाशेषु पुरादीनां विभक्तयः ।
तेन सीराग्रकृष्टेयं धान्यैरुत्तैर्यथाविधि ॥ ३३ ॥
ससस्या क्रियते क्षोणी भगवत्यम्बुदागमे ।
इत्युद्भवो निगदितः प्रथमो नृपस्य
धर्मेण सार्धमपि चाश्रमवर्णभेदाः ।
प्रोक्ताः कृषिव्यतिकरोऽपि च दर्शितस्ते
कार्त्स्न्येन वत्स ! शृणु देशविभागभूमिम् ॥ ३४ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः ॥
अथ भूमिपरीक्षा नामाष्टमोऽध्यायः ।
देशाश्च देशभूम्यश्च समासात् तव सम्प्रति ।
तत्सङ्ख्या तद्विभागाश्च प्रोच्यन्तेऽवहितः शृणु ॥ १ ॥
देशः स्याज्जाङ्गलानूपसाधारणतया त्रिधा ।
त्रिविधस्याप्यथैतस्य यथावल्लक्ष्म कथ्यते ॥ २ ॥
दूराम्बुरिरिणप्रायो ह्रस्वकण्टकिपादपः ।
रूक्षोष्णचण्डपवनः कृष्णमृत् तेषु जाङ्गलः ॥ ३ ॥
निम्नो भूरिजलः स्निग्धो बहुमत्स्यामिषो हिमः ।
स्यादानूपः सरित्प्रायः स्निग्धोच्छ्रितबहुद्रुमः ॥ ४ ॥
यः पुनर्नातिशीतोष्णः स्याद् देशद्वयलक्षणः ।
स साधारण इत्युक्तो देशो देशविशारदैः ॥ ५ ॥
जाङ्गलादिषु देशेषु त्रि(पुण्ये ? ष्वप्ये)षु स्वलक्षणैः
युक्ताः षोडश विज्ञेया भूमयः प्रविभागतः ॥ ६ ॥

भूमिपरीक्षा नामाष्टमोऽध्यायः । २१
बालिशस्वामिनी भोग्या सीता गोचररक्षिणी ।
अपाश्रयवती कान्ता खनिमत्यत्मधारिणी ॥ ७ ॥
वणिक्प्रसाधिना द्रव्यसम्पन्नामित्रघातिनी ।
आश्रेणीपुरुषा शक्यसामन्ता देवमातृका ॥ ८ ॥
धान्या हस्तिवनोपेता सुरक्षा चेति षोडश ।
भुवः संज्ञाभिरुद्दिष्टा लक्ष्मासामथ कथ्यते ॥ ९ ॥
भूभुजा बालिशेनापि शक्यते या प्रशासितुम् ।
या च भद्रजना सा स्याद् बालिशस्वामिनी क्षितिः ॥ १० ॥
वितरन्त्यधिकं यस्यां भागभोगादिकान् करान् ।
नरा भूरिश्रियः सात्र भोग्येति क्षितिरुच्यते ॥ ११ ॥
यस्यां नदाश्च नद्यश्च गिरिर्मध्येऽथवा बहिः¹ ।
विभक्तक्षेत्रसीमा सा सीता गोचररक्षिणी ॥ १२ ॥
सरिद्रिद्वनागेषु त्रासाद् यस्यां विशेज्जनः ।
जनापाश्रययोग्यत्वादपाश्रयवतीति सा ॥ १३ ॥
वनोपवनवल्यद्रिसरित्कुञ्जमनोहरा ।
देहिनो रमयत्युर्वी या सा कान्तेति कीर्तिता ॥ १४ ॥
यस्यां सदैव जायन्ते कलधौतादिधातवः ।
लवणानि च भूयांसि प्राहुः खनिमतीति ताम् ॥ १५ ॥
यात्यन्तं नानुगृह्येत दण्डकोशासनादिभिः ।
स्फीतलोकाश्रया या च सा स्याद् भूरात्मधारिणी ॥ १६ ॥
प्रसिध्यन्त्यसकृद् यत्र पण्योपक्रयविक्रयाः ।
वणिक्प्रसाधितेत्युक्ता सा भूर्वणिंगलङ्कृता ॥ १७ ॥
शाकाश्वकर्णखदिरश्रीपर्णीस्यन्दनासनैः ।
वेणुवेत्रशराद्यैश्च युक्ता द्रव्यवतीति भूः ॥ १८ ॥
यस्यां जनपदाः साधु विभक्तास्त्यक्तविक्रमाः ।
योगं यान्ति च मित्राणि स्याद् भूः सामित्रघातिनी ॥ १९ ॥
१ द. हितः ।

३० समराङ्गणसूत्रधारे
न क्षुद्रा 'वन्दिनो यस्यां दुर्गप्रत्यन्तसंश्रयाः ।
भूः साश्रेणीमनुष्येति विनीतैराश्रिता जनैः ॥ २० ॥
मन्त्रोत्साहादिवैमुख्यं यस्यां सामन्तभूभुजः ।
भजन्ते सा स्मृता शक्यसामन्ता भूः समन्ततः ॥ २१ ॥
जीवन्ति क्षेत्रिणो यस्यां न(दी ? द)नद्यादिवारिभिः ।
तां देवमातृकेत्याहुरनपेक्षितवारिदाम् ॥ २२ ॥
निष्पद्यन्तेऽधिकं यस्यां बीजान्युप्तान्ययत्नतः ।
कृष्टानुपहतक्षेत्रा धान्या सा धान्यशालिनी ॥ २३ ॥
पर्यन्तेष्वद्रयो यस्यां या च हस्तिवनाश्रिता ।
सा हस्तिवनवत्युर्वी भूभृतः सैन्यवर्धिनी ॥ २४ ॥
दुष्प्रधृष्यैव या नित्यं विषमत्वादरातिभिः ।
विषमाद्रिसरिद्गुप्ता सा सुरक्षेति भूः स्मृता ॥ २५ ॥
षोडशेत्युदिता भूम्यः प्रविभागाद् यथातथम् ।
अन्या जनपदादीनां ब्रूमः सम्मिश्रलक्षणाः ॥ २६ ॥
धातुस्यन्दोल्लसत्कुञ्जगुल्मद्रुमलतावृतैः ।
उत्सङ्गिताः पृथुशिलैः समन्तादवनीधरैः ॥ २७ ॥
तीर्थावतारकान्ताभिः स्वादुतोयाभिरावृताः ।
नदीभिः पुलिनप्रान्तैर्विचित्रद्रुमशालिभिः ॥ २८ ॥
कोकिलालापसुभगैर्मधुमत्तालिशालिभिः ।
विचित्रफलपुष्पाढ्यैः काननै रुपशोभिताः ॥ २९ ॥
दलत्कुवलयश्रेणीक्वणन्मधुपहारिभिः ।
सरसीदेवखाताद्यैर्भूषिताः प्राज्यवारिभिः ॥ ३० ॥
समैः सुगन्धिभिः स्वादुशीतैः कान्तैरभङ्गुरैः ।
क्षेत्रैरक्षतसीमान्तैः सस्यनिष्पादिभिर्वृताः ॥ ३१ ॥
निष्कण्टकाश्मवल्मीकैः प्रभूतयवसेन्धनैः ।
विभक्तक्षेत्रसीमान्तैर्गोचरैरुपशोभिताः ॥ ३२ ॥
१ क. द. वृन्दिनो । २ द. ग. ˚नान्विता ।

भूमिपरीक्षा नामाष्टमोऽध्यायः । ३१
स्थले तृणसमुद्राणामन्तरेषु वसुन्धराः ।
प्रशस्यन्ते समासन्नस्वादुशीतलवारयः ॥ ३३ ॥
दुरात्मनामधृष्या यास्तथानेकाश्रयान्विताः ।
संरम्भत्रासनिर्मुक्तं मनश्च रमयन्ति याः ॥ ३४ ॥
तास्वेवंगुणयुक्तासु महीषु विनिवेशयेत् ।
यथास्थानं जनपदान् खेटग्रामपुरादि च ॥ ३५ ॥
युता महीध्रमूला(स्व ? म्वु)प्राकारैस्तु पृथक्पृथक् ।
चतस्रः कीर्तिता धन्या भूमयो दुर्गहेतवः ॥ ३६ ॥
दुरारोहतया दुर्गे टङ्कच्छिन्न इवान्ततः ।
२समपृष्ठेऽम्बुयुक्ताद्रौ गिरिदुर्गावनिर्भवेत् ॥ ३७॥
कण्टकिद्रुमनीरन्ध्रनद्धे ३साम्भसि कानने ।
गूढप्रवेशमार्गे भूर्भूलदुर्गेति कीर्तिता ॥ ३८ ॥
द्वीपेषु स्वादुतोयेषु बह्वागाधजला बहिः ।
रम्यावकाशदेशा स्याज्जलदुर्गा च मेदिनी ॥ ३९ ॥
स्निग्धाः सारभृतः शुद्धाः प्रदक्षिणजलाशयाः ।
बहूदकास्तरुच्छन्ना निबिडाः प्रागुदक्प्लवाः ॥ ४० ॥
४दूर्वास(स्त्वौ ? स्यौ)षधीमुञ्जकुरुन्दकुशवल्कलैः ।
परितः परिणद्धाश्च स्वादुस्वच्छस्थिरोदकाः ॥ ४१ ॥
वास्तुयज्ञामरस्थानाद्यारामोद्यानसम्भृताः ।
तटाकवापीस्थानैश्च याः समन्तादलङ्कृताः ॥ ४२ ॥
या वाहनानां सुखदा मिथुनानां रतिप्रदाः ।
पुरार्थं ताः प्रशस्यन्ते भूमयो जनितश्रियः ॥ ४३ ॥
कुङ्कुमागुरुकर्पूरस्पृक्कैलाचन्दनादिभिः ।
सुगन्धा मिश्रितैरेभिः पृथक्स्थैर्वा वसुन्धरा ॥ ४४ ॥
१ द. मूलास्व; क. मूलाम् । २ शा. समपृष्ठेन्दु( ?)युक्तेऽद्रौ; क. समपृष्ठेऽम्बुयुक्तादौ; द. समपृष्ठे
तु युक्तोदौ । ३ द. नद्धे साम्भसि; क. ॰तीराम्बुनद्धे॰ । ४ क. दुर्वाशखौषधी॰; द. पूर्वास्तस्तौषधी॰ ।

३२ समराङ्गणसूत्रधारे ।
कल्हारपाटलाम्भोजमालतीचम्पकोत्पलैः ।
स्थलाम्बुप्रभवैश्चान्यैः सुगन्धा कुसुमैस्तथा ॥ ४५ ॥
गोमूत्रगोमयक्षीरदधिमध्वाज्यगन्धभाक् ।
समानगन्धा मदिरामाध्वीकेभमदासवैः ॥ ४६ ॥
शालिपिष्टकगन्धैश्च धान्यगन्धैश्च या तथा ।
प्रशस्ताखिलवर्णानामीदृग्गन्धा वसुन्धरा ॥ ४७ ॥
सिता रक्ता च पीता च कृष्णा१ चैव क्रमान्मही ।
विप्रादीनां हि वर्णानां सर्वेषामथवा हिता ॥ ४८ ॥
स्वादुः कषाया तिक्ता च कटुका चेत्यनुक्रमात् ।
वर्णानां स्वादतः शस्ता सर्वेषां मधुराथवा ॥ ४९ ॥
घर्मागमे हिमस्पर्शा या स्यादुष्णा हिमागमे ।
प्रावृष्युष्णहिमस्पर्शा सा प्रशस्ता वसुन्धरा ॥ ५० ॥
मृदङ्गवल्लकीवेणुदुन्दुभीनां समा ध्वनौ ।
२द्विपाश्वाब्धिसमस्वाना चेति स्युर्भूमयः शुभाः ॥ ५१ ॥
इदानीमप्रशस्तानां भुवां लक्ष्माभिदध्महे ।
पुरादिसन्निवेशार्थं परित्याज्या भवन्ति याः ॥ ५२ ॥
भस्माङ्गारकपालास्थितुषकेशविषाश्मभिः ।
मूषकोत्करवल्मीकशर्कराभिश्च निर्भरा ॥ ५३ ॥
रूक्षा प्ररोहिणी निम्ना भङ्गुरा सुषिरोषरा ।
वामावर्तजलास्राविण्यसारा विषमोन्नता ॥ ५४ ॥
कटुकण्टकिनिःसारशुष्कनिष्फलपादपा ।
क्रव्यात्पक्षिसमाकीर्णा कृमिकीटवती च या ॥ ५५ ॥
सुकृतान्यपि भोज्यान्नभक्ष्यपानानि तत्क्षणात् ।
यस्यां विनाशमायान्ति सह तूर्यादिनिखनैः ॥ ५६ ॥
सरित् पूर्ववहा यस्यां पुरार्थं तामपि त्यजेत् ।
बहुनापि यतस्तत्र कालेनायाति सा पुनः ॥ ५७ ॥
१. द. कृष्टे चेति । २. क. द्विपांश्वाब्धिसम°; द. द्विपादौप्यसमस्थाना (?) ।