समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 92, कुल 726 में से
संदर्भ में पढ़ेंवर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २७
स्वाध्यायश्चाभिषेकश्च धर्मोऽयं ब्रह्मचारिणः ।
पूजाग्न्यतिथिदेवानां स्ववृत्त्या जीवनं दमः ॥ १९ ॥
असमानर्षिगोत्रेषु विवाह ऋतुगामिता ।
$^१$परस्थ स्त्रीषु वैमुख्यं परानुग्रहशीलता ॥ २० ॥
विनिवृत्तिकरार्य्येभ्यो धर्मोऽयं गृहिणां कृतः ।
देवतातिथिसत्कारो ब्रह्मचर्यं वने स्थितिः ॥ २१ ॥
वल्काजिनजटाचीरधारणं शयनं भुवि ।
उपोषणैर्व्रतैर्देहकर्शनं नियमैस्तथा ॥ २२ ॥
आहारोऽकृष्टपच्यैश्च धर्मोऽयं वनवासिषु ।
वैराग्यमिन्द्रियजयश्चिन्त्यात्यागः प्रशान्तता ॥ २३ ॥
आकिञ्चन्यमनारम्भो यतिधर्मः सदा स्मृतः ।
क्षमत्वं गुर्वधीनत्वं शौचं स्वाध्यायनित्यता ॥ २४ ॥
विशुद्धिर्व्यवहारेषु शिष्यधर्मोऽयमीरितः ।
शुचित्वं वाङ्मनःकायैः पतिशुश्रूषणं क्षमा ॥ २५ ॥
पूजनं पतिपूज्यानां स्त्रीधर्मः शौचमेव च ।
एवं वर्णाश्रमान् सम्यक् कृत्वा वर्णांस्तदुद्भवान् ॥ २६ ॥
विभज्य तेषां बैन्येन ते ते धर्माः प्रकीर्तिताः ।
वृत्तिं कर्माणि चैतेषां पृथगुद्दिश्य सोऽभ्यधात् ॥ २७ ॥
स्वधर्मावस्थितानां वो भावि लोकद्वये सुखम् ।
य एतां स्थितिमुल्लङ्घ्य मोहादन्यद् विधास्यति ॥ २८ ॥
तस्याहं यमवत् क्रुद्धः करिष्याम्यनुशासनम् ।
युक्तानां कर्मसु स्वेषु $^२$वृत्त्यर्थं भवनामहम् ॥ २९ ॥
खेटकग्रामवेश्मानि विधास्यामि पुराणि च ।
इत्युक्त्वा तानथो कोट्या कार्मुकस्य पृथुर्नृपः ॥ ३० ॥
विषमां साधयामास पृथिवीं पृथुविक्रमः ।
तत्सङ्क्लेशेन गौर्भूत्वा नश्यन्ती तेन मेदिनी ॥ ३१ ॥
१ द. परस्वं । २ द. ख. ग. भूत्यर्थं ।