समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 88, कुल 726 में से
संदर्भ में पढ़ेंसहदेवाधिकारः षष्ठोऽध्यायः । २३
नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः ।
नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥ ९ ॥
भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्रनिस्वनाः ।
अचण्डाशनयश्चासन् कबरीकान्तयो घनाः ॥ १० ॥
माद्यत्पिकवधूदष्टमाकन्दमुकुराङ्कुराः ।
आसन् सदापुष्पफलाभोगा येषां वनालयाः ॥ ११ ॥
एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च ।
ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥ १२ ॥
रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि ।
समत्वान्नाभवत् तेषामुत्तमाधममध्यता ॥ १३ ॥
न खेटनगरग्रामपुरक्षेत्रखलादिकम् ।
न दंशमशकक्रव्याद्वयं वा न ग्रहादि च ॥ १४ ॥
कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत् ।
पुरास्मिन् भारते वर्षे तेषां निवसत़ामिति ॥ १५ ॥
जगाम सुबहुः कालः सुरैः सार्ध सुर(स्त्रि ? श्रि)याम् ।
अज्ञाततत्प्रभावानां सहसंवाससंभवा ॥ १६ ॥
अथैषामभवद् दैवादवज्ञा त्रिदशान् प्रति ।
अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥ १७ ॥
आदाय तत्कल्पतरुं निपेतुर्द्यां दिवौकसः ।
दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥ १८ ॥
सरसः परमो भूमौ भूरसश्च न्यवर्तत ।
स्मृत्वा कल्पद्रुमांस्तांस्तान् क्रीडास्ताश्च सुरैः सह ॥ १९ ॥
व्यलपन् बहुधात्यर्थमनैर्थकृतचेतसः ।
ततो विलपतां भूरि स्वैरमाहारहेतवे ॥ २० ॥
प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि ।
भूरसेनेव तेनैते कुर्वाणाः प्राणरक्षणम् ॥ २१ ॥
१ 'नर्थीकृ' ख. पाठः ।