समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 90, कुल 726 में से
संदर्भ में पढ़ेंवर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २५
इत्थं दुःखलयार्त्तास्ते व्यवायाद्यभिगुप्तये ।
हिमनीहारशीताम्बुवाताद्यापच्छिदेऽपि च ॥ ३५ ॥
अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि (ते ? च) ।
व्यधुश्छित्त्वाश्मभिर्वृक्षानन्यान् दुःखार्तचेतसः ॥ ३६ ॥
स्मृत्वा कल्पद्रुमाकारास्तद्रूपाणि गृहाणि ते ।
एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥ ३७ ॥
श(ब्दा ? ष्प)प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः ।
हृष्टास्तेष्वनयन् 'कालमाप्तेषु गृहमेधिनः ॥ ३८ ॥
इत्यमीषु गृहिणो गृहेषु ते शीतवातजलतापनाशिषु ।
हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥ ३९ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
सहदेवाधिकारो नाम षष्ठोऽध्यायः ॥
अथ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः ।
अथामरगणैः सार्धमाजगाम पितामहः ।
दुःखच्छेदाय मर्त्यानामादाय नृपतिं पृथुम् ॥ १ ॥
स तानूचे प्रभुर्वोऽसौ मरुतामिव वासवः ।
दण्डधारी च दुष्टानां प्रभावे लोकपालवत् ॥ २ ॥
प्रतापतापितारांतिसिंहः सिंहपराक्रमः ।
युष्माकमाधिपत्येऽसावभिषिक्तो मया पृथुः ॥ ३ ॥
रक्षाकृत् सर्वशिष्टानामुच्छेत्ता दुष्टचेतसाम् ।
³वृत्तितो भीतिहृत् च भविष्यत्येष वो नृपः ॥ ४ ॥
भवद्भिरेतदायत्तैर्भवितव्यं ममाज्ञया ।
करिष्यत्येष वो ⁴नीत्या चातुर्वर्ण्याश्रमस्थितीः ॥ ५ ॥
१ द. क्रामास्तेषु; ख. ग. कामाप्तास्ते । २ क. ॰रातिः शश्वन् सिंह॰ । ३ द. वृत्तिदो । ४ द.
नित्याचारवर्णाश्रमस्थितीः ।
वा. ४