सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

४१४ समराङ्गणसूत्रधारे
अन्योऽपि कश्चिद् यः कुर्याद् (वेर्णाच्छतं ?) भक्तिमानिमम् ।
सोऽपि सौख्यमवाप्नोति पश्चादन्ते परं पदम् ॥
पृथिवीजयः ॥
अतः परं प्रवक्ष्यामि प्रासादं क्षितिभूषणम् ।
अमरैर्वन्दितं सर्वैस्तथा चाप्सरसां गणैः ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
भद्रे पञ्च पदानि स्युः कोणे कार्यं पदत्रयम् ॥
गर्भं षोडशभिर्भागैस्तस्य कुर्याद् विचक्षणः ।
कर्तव्या पदविंशत्याँ कन्दभित्तिः समन्ततः ॥
प्रासादस्यास्य कर्तव्या रमणी तु पदद्वयम् ।
पट्टि(दि)का बाह्यभित्तिः स्याद् द्विपदो भद्रनिर्गमः ॥
जलान्तरं तु भागस्तु ++++ गवाक्षकाः ।
भद्राणां मध्यतः पञ्च(स?) प्रकाशाः स(सु)मनोरमाः ॥
बाह्यालिन्दं प्रकुर्वीत वेदीजालविभूषितम् ।
तस्योपरिष्टात् कुर्वीत माल्युच्छ्रायं सुशोभनम् ॥
ऊर्ध्वमानमथ ब्रूमः प्रासादे क्षितिभूषणे' ।
क्षुरकं तस्य कुर्वीत त्रिपदं पीठसंयुतम् ॥
अस्योच्छ्रायतस्तः सार्धं°(पदाः स्यात् ?) पञ्चविंशतिः ।
एतन्मध्ये तु दशभिः पदैः कार्यस्तुलोदयः ॥
रेखा पञ्चदशांशा स्यात् स्कन्धशीर्षं पदार्धकम् ।
वेदीबन्धस्तु कर्तव्यः सार्धभागद्वयं बुधैः ॥
जङ्घा षड्भागिकोच्छ्राया भागार्धे(षेचराः ?) शुभाः ।
मेखलान्तरपत्रं च पदेनैकेन कारयेत् ॥
कार्या चतुष्किका पञ्चविस्तारा त्रिपदोच्छ्रिता ।
तदूर्ध्वतः क्रमः कार्यों द्विपदोऽन्योऽधिकं पदम् ॥
१ द. दथः । २ मुद्रित पुस्तके 'वर्णानाम्' इति स्यात् । ३ द. तः । ४ द. मां । ५ द. च
प्रवक्ष्यामः । ६ द. त्यां । ७ द. तु भागार्द्धं द्विभागस्तु ग° । ८. द. तां । ९ द. णे । १० द. द्वे ।
११ द. र्द्वि°।

मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९
भूमयः पञ्च कर्तव्या १न्यूना(+च ?) यथोत्तरम् ।
प्रथमा भूमिका (का)र्या सार्ध२ (द्विभागास्तु गवाक्ष ?) भागत्रयं बुधैः ॥
सपादास्तु त्रयो भागा द्वितीयाया ( स ) मुदाहृता३ ।
४तृतीया त्रिपदा ++++++++ परा ॥
५++++++++ पञ्चमी भूमिरिष्यते ।
पादहीनपदं ग्रीवा सपादपदमण्डकम् ॥
चन्द्रिका भागमेकं स्यात् पद्मपत्रनिभा शुभा ।
त्रिपदं कलशं ६विद्यान्मातुलिङ्गसमन्वितम् ॥
द्राविडं नागरं वापि वाराटं वास्तु शोभनम् ।
( यदेकं तेवते कर्तु ? ) तद्रूपं तं प्रकल्पयेत् ॥
नानाप्रकारैः स्तम्भैश्च नानाभूषणभूषितैः ।
कलशैः पद्मपत्रैश्च हीरकैश्चोपशोभितम् ॥
कृत्रिमग्रासयुक्ताभिश्चन्द्रशालाभिरन्वितम् ।
मकरग्राससंयुक्तैस्तोरणैर्लक्षणान्वितैः७ ॥
(कोणोत्कण्ठै ?)र्विचित्रैश्च रूपैश्चित्रैश्च शोभितम् ।
कर्म रम्यं प्रकुर्वीत यथावद् वित्तैविस्तृतम् ॥
गुणवान् नृपतिर्यद्वद् भूषयत्यखिलां महीम् ।
क्षितिं विभूषयत्येवं प्रासादः क्षितिभूषणः ॥
द्रव्येषु रेणुसंख्या या सुधायामपि यावती ।
तावद्युगसहस्राणि कर्ता शिवपदे वसेत् ॥
क्षितिभूषणः ॥
संस्थानं सर्वतोभद्रस्याधुना परिकीर्त्यते ।
चतुरश्रीकृतं क्षेत्रं१० विभजेद् दशभिः पदैः ॥
१ मुद्रित पुस्तके ‘न्यूनास्ताश्च’ इति स्यात् । २ द. सार्ध द्विभागास्तु । ३ द. ताः । ४-५ मुद्रित
पुस्तके ‘तृतीया त्रिपदा कार्या पादोनत्रिपदा परां ।’ इति पाठ्यं स्यात् । ‘अर्धहानित्रिभागा तु पञ्चमी
भूमिरिष्यते’ इति पाठ्यं स्यात् । द. पुस्तकेऽपि ‘तृतीया त्रिपदा परा’, ‘पंचमी भूमिरिष्यते’ इत्येव
पाठः । ६ द. विं । ७ द. ताः । ८ द. कोणे कूटैर्विचित्रैश्च । ९ द. त । १० द. याः । ११ द. त्रे ।

४१६ समराङ्गणसूत्रधारे
तत्र गर्भो भवेत् तावान् यावत् स्याद् ब्रह्मणः पदम् ।
१++++++++भित्तिश्चेति पदं पदम् ॥
भागषट्केन भद्रं स्यात् सार्धभागैविनिर्गतम् ।
३कैर्णं द्विभागिकं कुर्यात् ४+लमाग्रसमन्वितम् ॥
पदपादस्य पादेन विस्तारो जलवर्त्मनः ।
यत्रैकमेव भद्रं स्याच्चारुस्तम्भैरलङ्कृतम् ॥
स(सं)मोददं स्यात् तद् वस्तु धनधान्यसुखावहम् ।
चतुर्भिर्विस्तृतं भागैः सार्धभागविनिर्गतम् ॥
भद्रस्यैवाग्रतो भद्रं तच्छौ(च्च) बाह्योदरं विदुः ।
विस्ताराद् द्विगुणश्चास्य समुच्छ्रायः प्रकीर्तितः ॥
कुम्भकं भागिकं कुर्याद् भागार्धेन मसूरकम् ।
भागपादेन कुर्वीत ततश्चान्तरपत्रकम् ॥
मेखलायाः समुच्छ्रायमर्धभागेन कारयेत् ।
चतुर्भागोन्नता जङ्घा प्रासकिङ्किणिकान्विता५ ॥
पदं पादविहीनं स्यात् (कृप्तं६ ?)स्थानेषु हीरकम् ।
मेखलान्तरपत्रं च पदार्धेन समुद्यं(च्छ्रि)तम् ॥
त्रिभागविनतं कुर्याद् भागे चन्द्रावलोकनम् ।
ऊर्ध्वमासनपट्टस्य स्तम्भं कुर्यात् पदद्वयम् ॥
हीरग्रहणशीर्षं च पदेनैकेन कारयेत् ।
भागेनैकेन कुर्वीत पट्टपिण्डं१० विचक्षणः ॥
द्विपदं छाद्यविस्तारं तदर्धेन(तुलस्वनमः ?) ।
जठरं बाह्यसीमा च भित्तयश्चान्धकारिका ॥
जङ्घोत्सेधश्च कर्णश्च+++यथा ११भवेत् ।
कोणेषु रथिकाः कार्याः कलशान्ताः पदत्रयम् ॥
१ द. भित्तिम्र्मंतिकां बाह्यभिं । २ द. ॰गेननिर्गतं । ३ द. प्रतौ इतः पूर्वं ‘समोददं स्यात्तद्वस्तु
धनधान्यसुखावहम्’ । अयं अधिकः पाठः । ४ द. ॰जलमार्गासं । ५ द. तु । ६ द. कां । ७ द. र्तां ।
८ द. ष्ठं । ९ द. दृतं । १० द. ण्ड विं । ११ द. मेरो तथा ।

मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१७
द्वितीया द्विपदोच्छ्रा¹यां रथिकां² परिकीर्त्तिताँ³ ।
उच्छ्रायः सिंहकर्णस्य प्रथमस्य पदत्रयम् ॥
पदद्वयं द्वितीयस्य न⁴न एव समुन्नतिः ।
शृङ्गाणां स्यान्मिथः क्षेपो भागं ( प⁶+?)यथोत्तरम् ॥
भागान् सप्तोच्छ्रितं कुर्याच्छिखरं विस्तृतं +⁷षट् ।
अर्धभागोच्छ्रिता ग्रीवा स्यादेकं भागमण्डकम् ॥
चन्द्रिकाऽर्धपदेन स्यात् सार्धं तु कलशः पदम् ।
मञ्जरीः⁸ पद्मपत्राग्रे तुल्याः सर्वत्र कारयेत् ॥
अधस्ताद् भद्रपीठं तु वास्तुवां⁹(पा)देन शोभनम् ।
यः कुर्यात् सर्वतोभद्रं सर्वलक्षणसंयुतम् ॥
जयश्रीर्जायते तस्य १०++++++++।
सर्वतोभद्रः ॥
ब्रूमो (¹¹विमानं दस्या सादस्याथ ?) लक्षणम् ॥
ग¹²र्गेगन्धर्वजुष्टस्य वल्लभस्य दिवस्पतेः ।
चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते ॥
विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् ।
भद्रैश्चतुर्भिस्तं कुर्यात् कर्णप्राग्ग्रीवकै¹³स्तैथा ॥
विस्ताराधं भवेद् गर्भो यच्छेषं तेन भित्तयः ।
(¹⁴त्रिंशद्वा) मतो ज्येष्ठो मध्यमः ¹⁵ पञ्चविंशतिः ॥
कनीयांस्तु विधातव्यः ¹⁶ षोडशाप्येकविंशतिः ।
जातिशुद्धो भवेदेको मञ्जरीभिस्तथापरः ॥
मिश्रकस्य¹⁷ विमानस्य त्रैविध्यमिति कीर्तितम् ।
(ज्येष्ठो मिश्रको निर्मार्गेः ¹⁸ सर्वः कैलास द्रवान् ?) ॥
१ द. याः । २ द. काः । ३ द. ताः । ४ द. घ । ५ द. रा । ६ द. भाग । ७ द. च
(तु) । ८ द. री । ९ द. देवेन । १० द. सर्वकामफलैर्युताः । ११ द. विमानं छंऽस्य प्रासादस्याथल° ।
मुद्रितपुस्तकानुसारेण 'विमानसंज्ञस्य प्रासादस्याथ' इति पाठ्यं स्यात् । १२ द. र्ण । १३ द. ॅस्तया ।
१४ द. विंशस्तांम°; मुद्रित पुस्तके 'त्रिंशत्पदो' इति स्यात् । १५ द. मा । १६ द. व्याः । १७ द.
श्व । १८ द. °णः स च कैलासद्रवान् ॥
वा. ५३

मध्यमो जातिशुद्धस्तु मञ्जरीभिर्विवर्जितः ।
कनीयांश्च विधातव्यो मञ्जरीभिरलङ्कृतः ॥
कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसम्मितः ।
भागार्धं क्षोभणा कार्या यच्छेषं तच्च कर्णवत् ॥
भागस्यार्धेन कुर्वीत तस्माद् भद्रस्य निर्गमम् ।
मिश्रकस्य चतुर्भागः प्राग्ग्रीवो विस्तरेण तु ॥
मूलसूत्रानुसारेण पार्श्वयोः पदिकौ रथौ ।
ऊर्ध्वमानं विमानस्य यथावदथ कथ्यते ॥
द्विपदं पीठमाख्यातं किन्नरैरुपशोभितम् ।
स्कन्धं यावच्च भागानां द्वाविंशतिरुदाहृता ॥
(वेदीबन्धो तु +++ सार्धभागद्व + १भवेत् ? ) ।
(चतुर्भागो२ऽत्र + छाद्या भागार्धेन + किन्नरा ? ) ॥
मेखलान्तरपत्रं च पदमेकं समुन्नतम् ।
रूपाणि जङ्घागात्रे स्युर्वा (चारिणां रथके३ ? ) ॥
५(सैनरसेका ?)तस्य मध्ये स्यान्मकरग्रासभूषिता ।
मल्लिकानोरणैश्चारुघण्टाचमरकिन्नरैः ॥
ऊर्ध्वं तुलाप्रमाणस्य चतुर्भोमं तु प्रथमं६ (?) ।
++++ भूमिकायां चतुर्भागसमुन्नता ॥
(७सोर्धभागा त्वपरा विस्तारा ?) सार्धभागिकी ।
संक्षेपः प्रथमोऽस्याः कलशान्ते पदं भवेत् (?) ॥
तृतीया त्रिपदा कार्या सपादपदविस्तृता ।
८पदार्धेन तु संक्षेपस्तस्याः कार्यों विचक्षणैः ॥
चतुर्थी त्रिपदा कार्या भूमिर्मेखलया सह ।
ललिता९ मञ्जरीमिश्च नीलोत्पलदलाकृतिः ॥


१ द. द्वं । २ द. गोट्टताद्या भागार्डेन किंनरेः । ३ द. पुस्तके नास्ति । ४ द. इतः पूर्वं
रथके सूरसेनं स्यादुच्छ्रयेण चतुष्पदम् । पंचभागं प्रविस्तारं ग्रासैर्वा राहुतुंडेः ॥ इति अधिकः पाठः ।
५ द. रथिका तस्य । ६ द. मा । ७ द. सा । ८ द. पा । ९ द. ललितो मंजरीमिश्च ।

मेर्वादि१स्त्रिंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९
सीम्नः पञ्चगुणं सूत्रं रेखान्तं तत्र वर्तयेत् ।
(व्यासहर्वसममान्ना२ ? ) प्रवेशः प्रथमो भुवः ॥
ततोऽर्धवृद्धिर्वृद्धौ३ द्वावन्यस्तुर्यस्तु तत्समः ।
पदार्थं४ वेदिकोत्सेध(धाटू) विस्तारात् पञ्चभागिकी ॥
ग्रीवा पादोनभागं स्यात् सपा५दं भागमण्डकम् ।
कङ्कतीफलरूपं च मन्दारकुसुमाकृति ॥
चन्द्रिका ग्रीवया तुल्या कलशो द्विपदोन्नतः ।
विमानं छन्दकं कुर्यात् सर्वलक्षणसंयुतम् ॥
अश्वमेधप्रधानैर्यदिष्टैः (क्र) तुशतैर्भवेत् ।
तदेकेन विमानेन फलमाप्नोति मानवः ॥
विमानम् ॥
नन्दनस्याथ वक्ष्यामः प्रासादस्येह लक्षणम् ।
द्वाविंशतिकरं क्षेत्रमष्टधा प्रविभाजयेत् ॥
चतुर्भागप्रविस्तारं तस्य भद्रं प्रकल्पयेत् ।
भागेनैकेन निष्क्रान्तं७ प्राग्ग्रीवं चास्य शोभनम् ॥
मूलकर्णस्य पदिकौ कर्तव्यौ पार्श्वगौ रथौ ।
षडङ्गुलं त्र्यङ्गुलं वा८ चतुरङ्गुलमेव९ चं१० ॥
जलान्तरं प्रकुर्वीत दीयते तत्र मञ्जरी ।
गर्भश्चतुर्भिर्भागैः स्याच्छेषं भित्त्यन्धकारिका ॥
द्विपदं कन्दभद्रं स्यात् पदपादेन निर्गतम् ।
पुरतो मण्डपं चास्य सुग्रीवं नाम कारयेत् ॥
द्वैगुण्यं मूर्धविस्तारार्धे भै११ +++वेदिका ।
रेखामस्य तथा कुर्यात् कैलासस्य यथोदिता ॥
भूमयः षड् विधातव्या द्वादशाण्डाः पृथक् पृथक् ।
नन्दयत्येष कर्तारमिह लोके परे च यत् ॥
१ द. स्र । २ द. न्नाः । ३ द. द्वा द्वावन्यो तुर्यंस्तु । ४ द. थं । ५ द. सपादभागमंजकं ।
६ द. णे । ७ द. न्त । ८ द. द्यं । ९ द. षि । १० द. वा । ११ द. द्विरतारद्वैनवेदिका ।

४२० समराङ्गणसूत्रधारे
नन्दनो नाम तेनोक्तः प्राज्ञैः प्रासादसत्तमः ।
नन्दनः ॥
अ(था)भिदध्मः प्रासादं स्वस्तिकं स्वस्तिदायकम् ॥
देवासुरगणैर्वन्द्यं¹ यक्षसिद्धमहोरगैः ।
ज्येष्ठमध्यकनिष्ठस्य तलच्छन्दोऽस्य यद्देशः² (यादृशः) ॥
यादृगूर्ध्वप्रमाणं च तत् सम्यगिह³ कथ्यते ।
चतुरश्रे समे क्षेत्रे पञ्चविंशतिहस्तके ॥
सूत्रपातं प्रकुर्वीत कर्णतिर्यङ्मुखायतम् ।
ततः सीमार्थसूत्रेण वृत्तमालिख्य निश्चितम् ॥
द्वात्रिंशता समन्ता(त्त)रेखामिर्विभजेत् ततः ।
वृत्तं (तैथोमुघाताक्षि⁴र्दिर्विदे ?)स्थाभिरङ्कयेत् ॥
दिक्कर्णसूत्रयोर्मध्यं (र्ततो सेव ?)⁶त्रयं बुधः ।
कुर्याद् द्वात्रिंशदेवं⁵ स्युर्भागास्तुल्यप्रमाणकाः⁷ ॥
ऐन्द्र्यादिष्वीशपर्यन्तास्वष्टौ शालाः प्रकल्पयेत् ।
शालान्तरेषु कुर्वीत कोणानष्टौ⁸ यथाक्रमम् ॥
कोणात् कोणं नयेत् सूत्रं त्यक्त्वा शालाद्वयं मुहुः ।
विदिक्ष्वष्टसु सूत्राग्रं⁹ पद्मपत्रवदानयेत् ॥
कोणाश्च रथिकांश्चैव¹⁰ भवन्त्येवं सुलक्षणाः ।
चतुरश्रा भवन्त्यष्टौ शाला भागद्वयायताः¹¹ ॥
द्व्यंशानि कर्णभद्राणि पद्मपत्रनिभानि च ।
ऊर्ध्वमानं भवत्यस्य द्विगुणं (ह्यूर्ध्वमा+नैात्¹² ?) ॥
विंशत्या विभजेदूर्ध्वं तत्राष्टै¹³ष्टांशस्तुलोदयः ।
शेषां तु मञ्जरीं कुर्यादास्कन्धावेधि¹⁴ बुद्धिमान् ॥
१ द. ॰गणो वद्यं यं॰ । २ द. र्वि । ३ द. म । ४ मुद्रित पुस्तके ‘दिग्विदिक्रम्थाभिः’ इति
स्यात् । ५ द. प्रतौ तु दे । ६ द. ततो सेवात्रयं । ७ द. कः । ८ द. ष्टो । ९ द. य । १० द. थ ।
११ द. तः । १२ द. नत । १३ द. पुस्तके नास्ति । १४ द. ॰विधि॰ ।

मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२१
विस्तारेपञ्चमांशेन पीठोच्छ्रायं प्रकल्पयेत् ।
^१त्रिपदं वेदिकाबन्धं (सुैकेण ? )समन्वितम् ॥
जङ्घांशालं(ब)नां कुर्याच्चतुर्भागसमुच्छ्रिताम् ।
मेखलान्तरपत्रं च भागेनैकेन कारयेत् ॥
द्वादशांशोच्छ्रिता रेखा कार्या सप्त च भूमयः ।
अर्धभागोच्छ्रिता ग्रीवा विस्तारेण चतुष्पदा ॥
स्कन्धः षड्भागविस्तारः कार्यो वृत्त: सुशोभनः ।
समालिखेदेषु कोशं विस्तारात् त्रिगुणात्मना ॥
सूत्रेण येन वा स्कन्धो भवेत् षड्भागविस्तृतः ।
हस्तैः स्यात् पञ्चविंशत्या ज्येष्ठः षोडशभिः परः ॥
कनीयान् स्वस्तिको ज्ञेयः करैर्द्वादशभिः पुनः ।
भागषट्कसमुच्छाया जङ्घा ज्येष्ठस्य कीर्तिता ॥
मध्यमाधमयोः पञ्चचतुर्भागोच्छ्रिता क्रमात् ।
स्वस्तिके कारिते खस्ति सर्वलोकस्य जायते ॥
विशेषतश्च भूपानां कर्तुश्च स्यात् समीहितम् ।
स्वस्तिकम् ॥
मुक्तकोणमथ ब्रूमः प्रासादं स्यात् स च त्रिधा ॥
हस्तैः क्रमेण ज्येष्ठादिः षोडशद्वादशाष्टभिः ।
ज्येष्ठो(ऽष्टा)दश भागान् स्यानमध्यमस्तु चतुर्दश ॥
कनीयान् दश भागा(न्) य(स्या)त् सदस्तस्याभिधीयते ।
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ॥
कोष्ठकानां विधातव्यं चतुर्विशं शतत्रयम् ।
भागषट्त्रिंशता कुर्यान्मध्ये गर्भगृहं शुभम् ॥
बाह्य भित्तिस्तथान्धारी मध्यभित्तिरिति त्रयम् ।
पृथक् पृथक् स्याद् द्विपदविस्तारं परिमाणतः ॥
१ द. रं । २ द. द्वि° । ३ द. स्तु । ४ द. तं । ५ द. 'द्वेषु । ६ द. ताः । ७ द. कः ।
८ द. सकनीयांश्च भागां यं छंदस्त° । ९ द. रैः ।

चतुर्भागायता शाला भागेनैकेन निर्गता ।
शालाया भूषणं भद्रं विधायैतत् पदद्वयम् ॥
तत्पार्श्वद्वितये कुर्यात् त्वधिके भागिके बुधः ।
वार्यन्तराणि कुर्वीत दिक्ष्वष्टचतसृष्वपि ॥
वार्यन्तरानन्तरं तु भागद्वितयसंमितान् ।
अष्टौ कुर्वीत रथिकांश्चतुर्दिशमनुत्तमान् ॥
कोणे द्विभागिकैः कुर्याद् रथानामांससंमिनाँ (?) ।
कोणे रथान् परित्यज्य शेषं कुर्याद् यथोदितम् ॥
मध्यमोऽयं समाख्यातः कनीयान् कथ्यतेऽधुना ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥
चतुर्भागा भवेच्छाला भागेनैकेन निर्गता ।
एकभागप्रमाणानि पार्श्वे वार्यन्तराणि च ॥
तेषां मध्ये प्रकुर्वीत सरोजदलसंनिभम् ।
रथकर्णोन्य (र्णे य) थावच्च सलिलान्तरभूषणम् ॥
भागार्ध क्षोभणा कार्या चतुष्कोणे व्यवस्थित ।
सार्धभागोन्मितान् कुर्यात् कर्णप्राग्ग्रीवकांन् शुभान् ॥
वार्यन्तराणां (+प्रोक्ता भूषश्रोभि ?) कनीयसि ।
प्रासादे मध्यमेऽप्येषा ज्यायस्यपि च कल्प्यवै (ते) ॥
त्रिविधोऽयं समाख्यातो मुक्तकोणः समासतः ।
ऊर्ध्वमानं भवेदस्य विस्ताराद् द्विगुणोच्छ्रयम् ॥
(असिस्तु ?) पञ्चदशाभिस्तन्मध्यं स्यात् तुलोदयः ।
चतुष्पदो वेदिबन्धो जङ्घा सार्धैश्च सप्तभिः ॥
मेखलान्तरपत्रं (चार्ध सार्ध ?) हीरकं पदम् ।
त्रिपदों कर्णशृङ्गस्य कलशान्तैसमुच्छ्रयान् (?) ॥
१ द. विधीयेत प° । २ द. वी (?) । ३ द. दिक्षाष्टा । ४ द. वी । ५ द. का । ६ द. ताः ।
७ द. वी । ८ द. भां । ९ द. °णव्यवस्थितः । १० द. °विका शुभान् । ११ मु. पुस्तके 'या प्रोक्ता
:भूषणश्रीः' इति स्यात् । द. पुस्तके °णां या प्रोक्ता भूश्रोभिः । १२ द. द । १३ द. च द्वे सार्धं हीं ।
१४ द. दाः । १५ द. न्ता ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२३
सिंहकर्णश्च कर्तव्यः स्व+¹ भागे समुन्नतः ।
ऊर्ध्वतः कर्णशृङ्गे²(स्य) विधेया मूलमञ्जरी ॥
(³सावषो विस्तरो++)पदान्यष्टादशोच्छ्रिनाः (?) ।
चतुर्दिशं समायामः स्कन्धः स्यान्नवभागिकैः⁴ ॥
मञ्जर्यार्द्धांशपुरेमनः(?) शुकनाससमुच्छ्रितिः ।
ग्रीवा+मेन भागेन कुर्याद् द्विपदमण्डकम् ॥
चण्डिकां सार्धभागेन त्रिपदं कलशोच्छ्रयम् ।
⁶+++ यन्नरः कश्चिन्मुक्तकोणं महायशाः ॥
(सं)प्राप्नो ते मं⁷हासौख्यं विमुक्तः सर्वपातकैः ।
सर्वद्वन्द्वविनिर्मुक्तः सर्वकिल्बिषवर्जितैः ॥
सर्वपापविनिर्मुक्तो भोगं मोक्षं च विन्दति ।
मुक्तकोणः ॥
श्रीवत्समथ वक्ष्यामः प्रासादं सुरपूजितम् ॥
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
षड्भिर्भागैर्भवेद् ग र्भो भित्तिः कार्या द्विभागिकी ॥
रथकं त्रिपदं कुर्यात् प्रत्यङ्गात् सार्धभागिकात् ।
द्विपदं कर्णमस्याहुर्विदिक्षु चतसृष्व.⁵पे ॥
भागार्धं क्षोभणा क्षेपात् तदर्थार्धं जलान्तरम् ।
प्रक्षेपः स्यात् पदार्धेन पदमानस्य बाह्यतः ॥
९द्वे पदे निर्गतं चास्य शुकनासं नि(वे )शयेत् ।
वास्तुविस्तारपादेन कर्तव्या द्वारविस्तृतिः ॥
द्वारोच्छ्राय(स्तुं)विस्तारात् कर्तव्यो द्विगुणो बुधैः ।
ऊर्ध्वमानमथ ब्रूमः श्रीवत्सस्य यथोदितम् ॥
१ द. स्व । २ द. ङ्गैं । ३ द. सा च थो पदान्यष्टा द । ४ दं. षिकः । ५ द. न्द्रि ।
६ द. प्रतौ नास्ति परन्तु मुद्रितपुस्तके 'निर्माण्यन् नरः' इति स्यात् । ७ द. महत् । ८ द. सद्वन्द्व ।
९ द. ताः । १० द. स्य ।

४२४ समराङ्गणसूत्रधारे
पीठं प्रासादपादेन खुरकश्च पदार्धकैः ।
विस्ताराद् द्विगुणं१ ( चार्ध ?) कर्तव्यं कुम्भकादितः ॥
अंशैर्द्वादशभिस्तेषु कुर्याच्छिखरमायनम् ।
अष्टभागं तुलोच्छ्रायं वेदी सार्धद्विभागिकी ॥
कुम्भकं पदिकं कुर्यात् पादोनांशं३ मसूरकम् ।
( पादोनं पादेन स्यात् ? ) मेखलान्तरपत्रकम् ॥
चतुर्भागोच्छ्रिता जङ्घा भागार्ध हीरकं भवेत् ।
मेखलान्तरपत्रं तु भागेनैकेन कारयेत् ॥
षड्भागविस्तृतं स्कन्धं भाजयेद् दशभिः पदैः ।
यथा मूले तथा स्कन्धेऽप्यङ्गप्रत्यङ्गकल्पना ॥
स्कन्धपार्श्वे तु या रेखा व्यक्ताश्च स्कन्धबाह्यतः ।
भजेत् ता दशभिर्भागै( रूढ ? )मेवं विभा/जयेत् ॥
( ऊर्ध्वाधः प्रतिभागस्तन्त्रास्यात् ? ) पत्रसंहतिः ।
तदाकृतिं बाह्यरेखां गात्रे गात्रे प्रकल्पयेत् ॥
अनुमात्रगुणं सूत्रं त्रिभागेन समन्वितम् ।
भ्रमयेत् ( कोणरेखा स्यात् प्रत्यङ्गेऽस्नत्रपञ्चकान् ? ) ॥
षड्गुणेन तु सूत्रेण रथरेखां समालिखेत् ।
अत्र स्युर्भूमयः सप्त प्रथमांशद्वयोच्छ्रिता ॥
द्वितीया पदपादार्धहीना भूमितस्ततो भवेत् ।
पादद्वयं भागहीनं तृतीयायां भवेद् भुवि ॥
सार्धभागविहीनं च चतुर्थी स्यात् पदद्वयम् ।
पञ्चमा सार्धभागेन पदं स्यात् स्कन्धशीर्षकम् ॥
एवं परस्परं भागं पादार्धेन( जिता ? ) भुवः ।
त्रिभागीकृत्य शिखरं तत्रैकं भागमुत्सृजेत् ॥
१ द. द्वि। २ द. 'णं चोद्ध्र्वं कं०। ३ द. 'स' इति अधिकः पाठः। ४ द. स्थ।
५ द. ॰मन्त्रि०। ६ द. सूत्रं।

मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२५
शुकनासोच्छ्रितिः शेषं सिंहेनाधिष्ठिता भवेत् ।
पादोनभागा ग्रीवाण्डं सपादं पदमुच्छ्रितम् ॥
रेखा १++ विधा( त )व्यं ++ न्यूनाधिकमण्डकम् ।
सपादभागमानेन कर्तव्यं चन्द्रिकाद्वयम् ॥
पद्मपत्राकृतिं कुर्यान्मध्ये चामलसारि(काम् ) ।
द्विपदं कलशं कुर्याद् बीजपूरकवर्जितम् ॥
श्रीवत्सं कारयेद् यस्तु प्रासादमतिसुन्दरम् ।
कुलानां शतमुद्धृत्य स व्रजत्यमरावतीम् ॥
श्रीवत्सः ॥
अथ हंसस्य वक्ष्यामः प्रासादस्येह लक्षणम् ।
चतुरश्रीकृते क्षेत्रे चतुर्भिर्विभजेत् पदैः ॥
भागैश्चतुर्भिर्गर्भः स्याद् २भित्तिर्द्वादशभागिकी ।
भागद्वयेन भद्राणि ततश्च परिकल्पयेत् ॥
चतुर्भागेन निष्क्रामस्तेषां गर्भस्य शस्यते ।
भागस्य षोडशांशेन कुर्याद् नीरै३(रा)न्तराणि च ॥
४पीठिका वेदिकाबन्धो जङ्घा मेखलया सह ।
ऊर्ध्वमानं च कर्तव्यं स्वस्तिकस्य यथोदितम् ॥
मध्ये किन्नररूपाणि पद्मपत्राणि चाप्यधः ।
उपरि व्यालहारांश्च पीठमेवं विभूषयेत् ॥
त्रिभौमं पञ्चभौमं वा कुर्यादेनं विचक्षणः ।
नागरं द्रावि(डे५ ?)श्चेति कर्णे कर्णे निवेशयेत् ॥
भूमिकाभाञ्जि कूटानि कुर्यादेकान्तराणि च ।
रथिके रथिका (?) कुर्याद् ( विन्य ? ) नागरकर्मणा ॥
विस्ताराधेन वेदी स्याद् ग्रीवा७ चास्य पदार्धिका ।
अण्डकं पदिकं कार्यं कङ्कतीफलसन्निभम् ॥
१ द. विवे। २ द. र्भृं । ३ द. रत। ४ द. पीठकं वेँ। ५ द. इतः परं 'वराटं द्राविडं
चापि नागरं वा विशेषतः । जङ्घामध्ये विश्रान्तव्यं कर्मलोकेक्षणोत्सवम् ॥ इत्यधिकः पाठः । ६ द. डश्चेति ।
७ द. ग्रवो ।
वा. ५४

४२६ समराङ्गणसूत्रधारे
¹+ चण्डिका(चोर्धेन ?)कलशः स्यात् पदोच्छ्रितः ।
यथा विराजते हंसो(हंसोमाशिरसि ? )स्थितः ॥
प्रासादोऽपि तथा हंसः पुरमध्ये विराजते ।
हंसारूयमेनं प्रासादं कारयेद् यो(नँरोत्तमा ? ) ॥
तावत् स्वर्गे वसेच्छ्रीमान् यावदिन्द्राश्चतुर्दश ।
हंसः ॥
रुचकाख्यँमथ ब्रूमः प्रासादं पुरभूषणम् ॥
आदौ समस्तवस्तूनां कल्पितं पद्मजन्मना ।
चतुरश्रीकृते क्षेत्रे⁶ चतुर्भिर्भाजिते पदैः ॥
भागमेकं भवेद् भित्तिस्तस्य गर्भः पदद्वयम् ।
⁷वेदीबन्धं तथा जङ्घां मेखलामूर्ध्वमेखलाम् ॥
मानमूर्ध्वमधश्चास्य श्रीवत्सस्येर्व कारयेत् ।
कोणेषु स्तम्भकाः कार्या(हाँइ हीइसार्ष ? )समन्विता ॥
मध्ये तु रथिका कार्या चारुकर्मविभूषिता ।
चतुर्भौममिदं कार्य(स्तैवैवसट ? )कर्मणा ॥
युक्तं मध्ये तु रथिका प्रतिभूमि विधीयते ।
रुचकैः¹² कारितो येन प्रासादः शुभँ¹³वास्तुनि ॥
कुलानां तारितं¹⁴ तेन शतमात्मा तथोद्धृतः ।
रुचकः ॥ •
वर्धमानमथ ब्रूमो धर्मारोग्ययशस्करम् ॥
तस्याष्टगुणमैश्वर्यँ¹⁵ भवेद् यः कारयेद् यदि ।
चतुरश्रं समं क्षेत्रं भाजयेद् दशभिः पदैः ॥
१ द. चन्द्रिका चार्धेनक°। २ मुद्रित पुस्तके 'च पदार्थेन' इति स्यात् । ३ द. ह्वामेन प्रा° ।
४ द. °तरोत्तमः । मुद्रित पाठस्तु 'नरोत्तमः' इति स्यात् । ५ द. ख्या° । ६ द. प्रतौ 'क्षेत्रे' पाठः
नास्ति । ७ द. वेदबंधे । ८ द. °स्यै । ९ द. °हीरसर्पे स°; मुद्रित प्रतौ 'हीरशीर्ष' इति स्यात् ।
१० द. °रु । ११ द. स्तस्यैवं सटकर्मणा । १२ द. रुचका कारितौ । १३ द. द्ध । १४ द. तां ।
१५ द. मैल्यर्थ ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२७
ततो भागचतुष्केण कर्तव्यो मध्यमो रथः ।
एकैकेन विभागेन द्वौ रथौ वामदक्षिणौ ॥
(१कर्णांस्तु पदा कार्या वर्जं चारिधर्माभिः ? ) ।
भद्रस्य निर्गमं तत्र भागेनैकेन कारयेत् ॥
भागस्यार्धेन पार्श्वस्थरथकानां विनिर्गतम्२ ।
विस्तारार्धेन गर्भः स्याद्३ यच्छेषं तेन भित्तयः ॥
ऊर्ध्वमानं भवेदस्य स्वस्तिकस्य यथोदितम् ।
४वर्धमानोऽयमाख्यातो यशोलक्ष्मीविवर्धनः ॥
वर्धमानः ॥
गरुडस्याधुना ब्रूमः प्रासादस्येह लक्षणम् ।
प्रासादः सर्वदैवायं गरुडध्वजवल्लभः ॥
द्वाविंशतिपदं क्षेत्रं ( ५भैक्त्वाल्या समायतम् ? ) ।
पूर्वापरेण दशभिर्भागैर्भूयो विभाजितम् ॥
कुर्वीत मध्ये प्रासादं तस्मिञ् शतपदं बुधः ।
द्विपदं भित्तिविस्तारं कर्णांश्चापि द्विभागिकान् ॥
उत्सृष्टमूलप्रासादमुभयोरपि पक्षयोः ।
अग्रतः पृष्ठतश्चापि द्वौ द्वौ भागौ परित्यजेत् ॥
शेषेण षट्पदौ ++ सहसायामविस्तृतौ (?) ।
गर्भः षोडशभिर्भागैर्भित्तिः स्यात् पदमेतयोः ॥
श्रीवत्सउंस६रुचकवर्धमानेषु कोऽपि यः ।
रोचते गरुडं कुर्यात् तमेकं स्वेच्छया बुधः ॥
तस्य पक्षौ विधातव्यौ निर्गतौ वामदक्षिणम् ।
एवमेते त्रयो गर्भा गरुडे७ परिकीर्तिताः ॥
गरुडः ॥
१ द. कर्णास्तु द्विपदाः कार्या वर्जिता चारिध० । २ द. मम् । ३ द. प्रतौ ' द् ' नास्ति ।
४ द. उर्द्ध । ५ द. पक्षाभ्या समायातं । ६ द. सं । ७ द. डं ।

४२८ समराङ्गणसूत्रधारे
प्रासादस्य गजस्याथ लक्षणं सम्प्रचक्ष्महे ।
चतुःषष्टिपदं क्षेत्रं विधाय विभजेद् गजम् ॥
ततः सीमार्थसूत्रेण पृष्ठतो वृत्तमालिखेत् ।
गर्भं कुर्यात् तदर्धेन ++ रेखाकृतिं त ²+ ॥
ऊर्ध्वप्रमाणमधुना गजस्य स्पष्टमुच्यते ।
स्तम्भाश्चतुष्पदोच्छ्रायाः कार्याः कोणचतुष्टये ॥
जङ्घेयमस्य निर्दिष्टा (खल्लैस्तम्भान्तरं ?) भवेत् ।
पट्टिकान्तरपत्राभ्यां समैर्भागेन मेखला ॥
अग्रतः शूरसेनं स्यात् पृष्ठतस्तु गजाकृतिः ।
गजः ॥
⁶प्रासादस्या( धुना ) लक्ष्म सिंहसंज्ञस्य कथ्यते ॥
चतुरश्रं समं क्षेत्रं विभजेन्नन्दने यथा ।
गर्भो ⁸भागैश्चतुर्भिः स्यात् कञ्च( न्द )भित्तिस्तु भागिकी ॥
भागेनान्धारिका कार्या बाह्यभित्तिश्च भागिकी ।
भद्रं भागैश्चतुर्भिः स्याद् भागेनैकेन निर्गतम् ॥
कर्णस्तु द्विपदः कार्यों जलमार्गसमन्वितः ।
द्विपदं पीठमुत्सेधात् सिंहै९रूपैरधिष्ठितं¹⁰म् ॥
¹¹खुरकं च पदार्धेन कुर्यात् पीठस्य मध्यै¹²तः ।
¹³कुर्यादूर्ध्वं + विस्ताराद् द्विगुणं कलयाधिकम् ॥
द्विपदं वेदिकाबन्धं जङ्घा चास्य चतुष्पदम् ।
मेखलान्तरपत्रं च विदध्याद् भागिकोदयम् ॥
त्र्यंशानि¹⁴ कर्णशृङ्गाणि ग्रीवाण्डकलशैः सह ।
सिंहकर्णस्तु कर्तव्यः समुच्छ्रायाच्चतुष्पदः ॥
सिंहरूपसमाक्रान्ते¹५ प्रासादे सिंहसंज्ञिते¹⁶ ।
ऊर्ध्वतः कर्णशृङ्गस्य षट्पदा मूलमञ्जरी ॥


१ द. संप्रवक्षसे । २ द. ततः । ३ द. लँ । ४ द. ०म्व । ५ द. मं । ६ द. प्र । ७ द. प्रतौ
नास्ति । ८ द. र्भा । ९ द. हे । १० द. ०तैः । ११ द. सुं० । १२ द. मव्ययः । १३ द. कुर्यादूर्ध्वं
वि । १४ द. न्वि । १५ द. न्तः । १६ द. के ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२९
सप्तभागसमुत्सेधा लताभिः पञ्चभिर्युता ।
ग्रीवोच्छ्रायस्तु कर्तव्यः पदं पादेन वर्जितम् ॥
अण्डकं तु पदोत्सेधं रेखायां च द्विनिस्सृतम् ।
पादोनभागमुच्छ्रायश्चन्द्रिकायाः प्रकीर्तितः^२ ॥
द्विपदं कलशं कुर्याद् बीजपूरकसंयुतम् ।
(^३यद्दामं ?) कारयेत् स स्यादजेयः पुरुषो ध्रुवम् ॥
व्यवहारे नृपकुले सङ्ग्रामे शक्रसंसदि ।
सिंहः ॥
इदानीं पद्मकं ब्रूमः प्रासादं पद्मसंनिभम्^४ ॥
यः (^५कंसान् ?) कारयत्येनं स कामाँल्लभतेऽखिलान् ।
चतुरश्रीकृते क्षेत्रे ++ दिक्षु विदिक्षु वा ॥
न्यस्येत् पृथक् पृथक् सूत्राण्यथ वृत्तं प्रसाधयेत् ।
(^७दिधिसूत्रयोर्मध्ये चतुरश्रं तु रोमकम् ॥
^९तुल्यप्रामाण्यविन्यस्येत् स्यूर्द्वांत्रिंशदमीरीतः ? ) ।
विस्तृतान्यथ भागौ द्वौ कर्णपत्राणि षोडश ॥
पद्मपत्रसमानानि वारिमार्गान्वितानि च ।
गर्भः स्याद् बाह्य(^१०संमोहाँ ?)सीमार्थं यच्छेषं तेन भित्तयः ॥
षडष्टादशकरः पद्मो ज्येष्ठादिकः क्रमात् ।
द्वात्रिंशत् षोडशाष्टौ च तस्य स्यू रथकाः क्रमात् ॥
जलान्तराणि चैतस्य श्रीवत्सस्येव कारयेत् ।
पीठकं वेदिकाबन्धं जङ्घाशेखरचन्द्रिकाः ॥
अण्डकं कलशं ग्रीवामेतस्योच्छ्रै^१२यमानतः ।
कुर्वीत स्वस्तिकस्येव खविस्तारानुसारतः ॥
पद्मः ॥

१ द. म । २ द. ताः । ३ मुद्रित पुस्तके 'य इमम्' इति वा 'यः सिंहम्' इति वा स्यात् ।
४ द. प । ५ द. भां । ६ मुद्रित पुस्तके 'पुमान्' इति स्यात् । ७ द. दिग्वि । ८ द. चतुरोमृत्तुरोंसकं ।
९ द. तुल्यप्रमाणान्विन्यस्ये˚ । १० द. ह्य । ११ द. स्यैव । १२ द. च्छा ।

४३० समराङ्गणसूत्रधारे
अथाभिधीयते सम्यक् प्रासादो नन्दिवर्धनः ।
नन्दयत्येष कर्तारं पुत्रदारधनादिभिः ॥
चतुरश्रीकृते क्षेत्रे भजेत् षोडशभिः पदैः ।
शतद्वयं विभागाः स्युः षट्पञ्चाशत् तथा(परैः ? ) ॥
गर्भः शतपदः कार्यों भित्तिश्च त्रिपदायता ।
कर्णप्रमाणं त्रिपदं नवबन्धसमन्वितम् ॥
भागायतं भागपदं(पाद)विस्तीर्णं वारिवर्त्म च ।
विभजेत् पञ्चधा कर्णं तस्य भद्रं त्रिभिः पदैः२ ॥
भागं भागं भवेत् कर्णे३ भागार्धं भद्रनिर्गमः ।
प्रत्यङ्गं द्विपदं कुर्याद् वारिमार्गेण संयुतम् ॥
निर्गमाँ(मः) सार्धभागेन पार्श्वयोरुभयोरपि ।
शालाषट्पदविस्तारा प्रत्यङ्गा भौगनिर्गतम् ॥
भद्रं तदग्रतः कुर्याद् विस्तारेण चतुष्पदम् ।
भागार्धनिर्गमं६ सम्यग् (दिक्षु) सर्वास्वयं विधिः८ ॥
कर्णस्यार्धे नयेद् गर्भाद् वृत्तं तत् पूर्वमालिखेत् ।
अनुसारेण वितरेदङ्गप्रत्यङ्गनिर्गमम् ॥
सार्धभागं गजाधारं साब्जपत्रं समेखलम् ।
कुर्यात् पदं पादहीनं जङ्घाकुम्भसमुच्छ्रितम् ॥
भागपादेन कणकं पादोनान्तरपत्रकम् ।
तैन११धं ग्रासहारं च भागार्धं खुरकं तथा ॥
खुरकेण समं प्रोक्ता पीठस्यैषा समुच्छ्रितिः ।
विस्ताराद् द्विगुणश्चायं (स्यादूर्ध्वकल्पयाधकः ?)
तुलोदयो विधातव्यस्त्रयोदशभिरंशकैः ।
विंशत्यंशं तु शिखरं ++++ श्रतुष्पदम् ॥
१ द. तयापरे । २ द. पदं । ३ द. र्णो । ४ द. मा । ५ द. द्धा । ६ द. मम् । ७ द. ंतं ।
८ द. धेः । ९ द. ˚न यद्गं । १० द. ˚समुद्धृतिं । ११ द. य ।

मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ४३१
पादोनभागद्वितयं कुम्भकं तेषु कारयेत् ।
भागेनैकेन कलशमर्धेनान्तरपत्रकम् ॥
पादहीनपदं कार्या मेखलास्य सुशोभना ।
जङ्घा षड्भागिकोच्छ्राया भागार्धं ग्रासपट्टिका ॥
हीरकं चैकभागेन कर्णस्थं परिकीर्तितम् ।
मेखलान्तरपत्रं च सार्धभागसमुन्नतम् ॥
जङ्घामध्ये तु कर्तव्या रथका रथकास्तथा (?) ।
वृत्तस्तम्भैः समकरैरग्रैर्मुक्तारत्नैः (सैर्मुक्तावरालकैः) ॥
जङ्घा तु संवृता कार्या मल्लुच्छाद्यैर्विभूषिता ।
जलान्तरेषु रूपाणि कुर्यात् सङ्घाटकैः शुभैः ॥
कुर्यात् तुलोदयस्योर्ध्वमिमं(?)भूमिभिरष्टभिः ।
स्कन्धाष्टांशोऽस्य दूराद्या +++ सपद्त्रयम् ॥
द्वितीया त्रिपदा प्रोक्ता तृतीया पादवर्जिता ।
सार्धद्व्यंशा चतुर्थी च पादोना पञ्चमी ततः ॥
षष्ठी तु द्विपदा कार्या पादोना सप्तमी ततः ।
अष्टमी तु कृ(क्षि)तिः कार्या सार्धभागेन संमिता ॥
एकैकस्याः पदार्धेन प्रक्षेपः स्यात् परस्परम् ।
कोणे कूटानि कुर्वीत प्रत्यङ्गे तिका(ल)कानि च ॥
भद्रे कुर्वीत रथिका विविधाः कर्मसङ्कुलाः ।
रथस्य पार्श्वयोर्लेखाः कर्तव्याश्चोभयोरपि ॥
वेदिकाश्य विधातव्या भागमेकं समुन्नता ।
ग्रीवा तावँदू भागमेकमण्डकं द्विपदोदयम् ॥
कुर्यात् सामलसारिं च चन्द्रिकां सार्धभागिकाम् ।
कलशस्त्रिपदः कार्यो बीजपूरं बहिस्ततः ॥
पुरतः शूरसेनं स्यान्मध्ये रूपसमाकुलम् ।
मिश्रकस्य विमानस्य सदृशं कारयेदमुम् ॥
१ द. व । २ द. र्भ्या । ३ द. म । ४ द. स्कंधो दृष्टं । सो स्यदूराद्यासपदं स्यात् पदत्रयं ।
५ द. श । ६ द. तां । ७ द. भवेद् । ८ द. न्द । ९ द. री ।

४३२ समराङ्गणसूत्रधारे
भूषणं भवनस्यास्य प्रासादं नन्दिवर्धनम् ।
प्रासादविंशतिरियं परिकीर्तितेह
मेर्वादिका सकलनाकसदामभीष्टा ।
तत्त्वेन वेत्ति य इमां स समग्रशिल्पि-
वर्गाग्रणीर्बहुमतश्च भवेन्नृपाणाम् ॥
इति महाराजाधिराजपरमेश्वरश्रीमद्भोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
मेर्वादिविंशिका नाम³ षट्(सप्त)पञ्चाशोऽध्यायः ॥
अथ प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः ।
प्रासादानां चतुःषष्टिरिदानीमभिधीयते ।
या पूर्वं ब्रह्मणा दत्ता प्रा(प्र)सादा ⁴विश्वकर्मणे ॥ १ ॥
मर्मवेधस्थिता वास्तुदेवाः पूज्याँ यथोचितम् ।
पूज्यता च स्मृता तेषां प्रासादे मण्डपे ध्वजे ॥ २ ॥
आसने वाहने तद्वत् सर्वोपकरणेष्वपि ।
प्रासादे यादृश(ईच्छन्दस्तादृक्षान्दपीठयोः ? ) ॥ ३ ॥
तथा वास्तुविरुद्धं स्यात् प्रासादाङ्गे हिते(?)विदुः ।
अष्टावष्टौ स्मृतास्तेषु त्रिदशानां पृथक् पृथक् ॥ ४ ॥
शम्भो(हरे)र्विरिञ्चस्य ग्रहाणाम(धिपस्य च) ।
चण्डिकाया गणेशस्य श्रियाः सर्वदिवौकसाम् ॥ ५ ॥
विमानः सर्वतोभद्रो गजपृष्ठोऽथ पद्मकः ।
वृषभो मुक्तकोणश्च नलिनो¹¹ द्राविडस्तथा ॥ ६ ॥
इत्येतेऽष्टौ¹² समुद्दिष्टाः प्रासादास्त्रिपुरद्रुहः ।
गरुडो वर्धमानश्च शङ्खावर्तोऽथ पुष्पकः ॥ ७ ॥
१ द. न्द । २ द. शतिका । ३ द. नामष्टपंचमोध्यायः समाप्तः । ४ द. ब्रा । ५ द. द्वि ।
६ द. ज्य । ७ द. मे । ८ द. च्छंदस्तादृक्षमंदपीठयोः । ९ द. शंभोर्विरिवेस्यग्रहाणामध्ये यस्य च ।
१० द. चेन्द्रिकाया । ११ द. नी । १२ द. ज्यौ । १३ द. स्त्रिखुरर्दहः ।

प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः । ४३३
गृहहर(राट्) स्वस्तिकश्चैव रुचकः पुण्ड्रवर्धनः ।
कार्या¹ जनार्दनस्याष्टौ प्रासादाः पुरभूषणाः ॥ ८ ॥
मेरुमन्दरकैलासा हंसाख्यो भद्र एव च ।
उत्तुङ्गो मिश्रकश्चैव तथा मालाधरोऽष्टमः ॥ ९ ॥
इत्यष्टौ ब्रह्मणः प्रोक्ताः प्रासादाः पुरमध्यगाः ।
गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः ॥ १० ॥
श्रीवत्सः पद्मनाभश्च वैराजो वृत्त एव च ।
एते कार्या रवेरष्टौ प्रासादाः शुभलक्षणाः ॥ ११ ॥
(नन्द्यावर्तश्चैव चलभश्रर्णदित्यः² ?) सिंह एव च ।
विचित्रो योगपीठश्च घण्टानादपताकिनौ³ ॥ १२ ॥
अष्टावेते विधातव्याश्चण्डिकायाः⁴ सुरालयाः ।
(गुहारसलोकश्च⁵ ?) वेणुभद्रोऽथ कुञ्जरः ॥ १३ ॥
तथा च हर्षविजयावुदकुम्भोऽथ मोदकः ।
एतान् विनायकस्याष्टौ प्रासादान् कारयेच्छुभान् ॥ १४ ॥
महापद्म(हर्म्यननल)मुज्जयन्तस्तथा परः ।
गन्धमादनसंज्ञं च(ज्ञश्व) शतशृङ्गानवष्ककौ (नवद्यकौ) ॥ १५ ॥
सु(म)विश्रान्तो (मनो°) हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः ।
वृत्तो वृत्तायतश्चैवः किङ्किणीलयनाभिधः ॥ १६ ॥
पट्टिशो⁹ विभवाख्यश्च ततश्चा(स्ता)रागणा(णोऽ)ष्टमः ।
कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् ॥ १७ ॥
‘प्रासादस्तवनं नाम ?


१ द. यों। २ द. °श्चैव लक्ष्मी स्वर्णादित्यः सिंह एव च । मुद्रित पुस्तके 'नन्द्यावर्त्तो वलभ्यश्च
सुपर्ण' इति पठनीयं भाति । ३ द. घंटापादपताकिनैः । ४ द. °न्द्रि° । ५ द. गुहरसलाक़श्व वे°; मुद्रित
पुस्तकानुसारेण 'गुहाधरश्च शालाक' इति पाठ्यं भाति । ६ द. महापद्मो हर्म्यंतलमु° । मुद्रित पुस्तका-
नुसारेण 'स्तथा हर्म्य' इति पाठ्यं स्यात् । ७ द. थमनो । ८ द. ष्याः । ९ द. को । १० मुद्रित
पुस्तके इहाध्यायस्य समाप्तिरिति भाति । अतः "इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गण-
सूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादस्तवनं नामाष्टपञ्चाशोऽध्यायः ॥" इति लेखनीयम् । द. प्रतौ
'प्रासादस्तवनं नाम' इत्येव पाठः ।
वा. ५५