समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 478, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९
भूमयः पञ्च कर्तव्या १न्यूना(+च ?) यथोत्तरम् ।
प्रथमा भूमिका (का)र्या सार्ध२ (द्विभागास्तु गवाक्ष ?) भागत्रयं बुधैः ॥
सपादास्तु त्रयो भागा द्वितीयाया ( स ) मुदाहृता३ ।
४तृतीया त्रिपदा ++++++++ परा ॥
५++++++++ पञ्चमी भूमिरिष्यते ।
पादहीनपदं ग्रीवा सपादपदमण्डकम् ॥
चन्द्रिका भागमेकं स्यात् पद्मपत्रनिभा शुभा ।
त्रिपदं कलशं ६विद्यान्मातुलिङ्गसमन्वितम् ॥
द्राविडं नागरं वापि वाराटं वास्तु शोभनम् ।
( यदेकं तेवते कर्तु ? ) तद्रूपं तं प्रकल्पयेत् ॥
नानाप्रकारैः स्तम्भैश्च नानाभूषणभूषितैः ।
कलशैः पद्मपत्रैश्च हीरकैश्चोपशोभितम् ॥
कृत्रिमग्रासयुक्ताभिश्चन्द्रशालाभिरन्वितम् ।
मकरग्राससंयुक्तैस्तोरणैर्लक्षणान्वितैः७ ॥
(कोणोत्कण्ठै ?)र्विचित्रैश्च रूपैश्चित्रैश्च शोभितम् ।
कर्म रम्यं प्रकुर्वीत यथावद् वित्तैविस्तृतम् ॥
गुणवान् नृपतिर्यद्वद् भूषयत्यखिलां महीम् ।
क्षितिं विभूषयत्येवं प्रासादः क्षितिभूषणः ॥
द्रव्येषु रेणुसंख्या या सुधायामपि यावती ।
तावद्युगसहस्राणि कर्ता शिवपदे वसेत् ॥
क्षितिभूषणः ॥
संस्थानं सर्वतोभद्रस्याधुना परिकीर्त्यते ।
चतुरश्रीकृतं क्षेत्रं१० विभजेद् दशभिः पदैः ॥
१ मुद्रित पुस्तके ‘न्यूनास्ताश्च’ इति स्यात् । २ द. सार्ध द्विभागास्तु । ३ द. ताः । ४-५ मुद्रित
पुस्तके ‘तृतीया त्रिपदा कार्या पादोनत्रिपदा परां ।’ इति पाठ्यं स्यात् । ‘अर्धहानित्रिभागा तु पञ्चमी
भूमिरिष्यते’ इति पाठ्यं स्यात् । द. पुस्तकेऽपि ‘तृतीया त्रिपदा परा’, ‘पंचमी भूमिरिष्यते’ इत्येव
पाठः । ६ द. विं । ७ द. ताः । ८ द. कोणे कूटैर्विचित्रैश्च । ९ द. त । १० द. याः । ११ द. त्रे ।