सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 481, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 481

मध्यमो जातिशुद्धस्तु मञ्जरीभिर्विवर्जितः ।
कनीयांश्च विधातव्यो मञ्जरीभिरलङ्कृतः ॥
कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसम्मितः ।
भागार्धं क्षोभणा कार्या यच्छेषं तच्च कर्णवत् ॥
भागस्यार्धेन कुर्वीत तस्माद् भद्रस्य निर्गमम् ।
मिश्रकस्य चतुर्भागः प्राग्ग्रीवो विस्तरेण तु ॥
मूलसूत्रानुसारेण पार्श्वयोः पदिकौ रथौ ।
ऊर्ध्वमानं विमानस्य यथावदथ कथ्यते ॥
द्विपदं पीठमाख्यातं किन्नरैरुपशोभितम् ।
स्कन्धं यावच्च भागानां द्वाविंशतिरुदाहृता ॥
(वेदीबन्धो तु +++ सार्धभागद्व + १भवेत् ? ) ।
(चतुर्भागो२ऽत्र + छाद्या भागार्धेन + किन्नरा ? ) ॥
मेखलान्तरपत्रं च पदमेकं समुन्नतम् ।
रूपाणि जङ्घागात्रे स्युर्वा (चारिणां रथके३ ? ) ॥
५(सैनरसेका ?)तस्य मध्ये स्यान्मकरग्रासभूषिता ।
मल्लिकानोरणैश्चारुघण्टाचमरकिन्नरैः ॥
ऊर्ध्वं तुलाप्रमाणस्य चतुर्भोमं तु प्रथमं६ (?) ।
++++ भूमिकायां चतुर्भागसमुन्नता ॥
(७सोर्धभागा त्वपरा विस्तारा ?) सार्धभागिकी ।
संक्षेपः प्रथमोऽस्याः कलशान्ते पदं भवेत् (?) ॥
तृतीया त्रिपदा कार्या सपादपदविस्तृता ।
८पदार्धेन तु संक्षेपस्तस्याः कार्यों विचक्षणैः ॥
चतुर्थी त्रिपदा कार्या भूमिर्मेखलया सह ।
ललिता९ मञ्जरीमिश्च नीलोत्पलदलाकृतिः ॥


१ द. द्वं । २ द. गोट्टताद्या भागार्डेन किंनरेः । ३ द. पुस्तके नास्ति । ४ द. इतः पूर्वं
रथके सूरसेनं स्यादुच्छ्रयेण चतुष्पदम् । पंचभागं प्रविस्तारं ग्रासैर्वा राहुतुंडेः ॥ इति अधिकः पाठः ।
५ द. रथिका तस्य । ६ द. मा । ७ द. सा । ८ द. पा । ९ द. ललितो मंजरीमिश्च ।