सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 482, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 482

मेर्वादि१स्त्रिंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९
सीम्नः पञ्चगुणं सूत्रं रेखान्तं तत्र वर्तयेत् ।
(व्यासहर्वसममान्ना२ ? ) प्रवेशः प्रथमो भुवः ॥
ततोऽर्धवृद्धिर्वृद्धौ३ द्वावन्यस्तुर्यस्तु तत्समः ।
पदार्थं४ वेदिकोत्सेध(धाटू) विस्तारात् पञ्चभागिकी ॥
ग्रीवा पादोनभागं स्यात् सपा५दं भागमण्डकम् ।
कङ्कतीफलरूपं च मन्दारकुसुमाकृति ॥
चन्द्रिका ग्रीवया तुल्या कलशो द्विपदोन्नतः ।
विमानं छन्दकं कुर्यात् सर्वलक्षणसंयुतम् ॥
अश्वमेधप्रधानैर्यदिष्टैः (क्र) तुशतैर्भवेत् ।
तदेकेन विमानेन फलमाप्नोति मानवः ॥
विमानम् ॥
नन्दनस्याथ वक्ष्यामः प्रासादस्येह लक्षणम् ।
द्वाविंशतिकरं क्षेत्रमष्टधा प्रविभाजयेत् ॥
चतुर्भागप्रविस्तारं तस्य भद्रं प्रकल्पयेत् ।
भागेनैकेन निष्क्रान्तं७ प्राग्ग्रीवं चास्य शोभनम् ॥
मूलकर्णस्य पदिकौ कर्तव्यौ पार्श्वगौ रथौ ।
षडङ्गुलं त्र्यङ्गुलं वा८ चतुरङ्गुलमेव९ चं१० ॥
जलान्तरं प्रकुर्वीत दीयते तत्र मञ्जरी ।
गर्भश्चतुर्भिर्भागैः स्याच्छेषं भित्त्यन्धकारिका ॥
द्विपदं कन्दभद्रं स्यात् पदपादेन निर्गतम् ।
पुरतो मण्डपं चास्य सुग्रीवं नाम कारयेत् ॥
द्वैगुण्यं मूर्धविस्तारार्धे भै११ +++वेदिका ।
रेखामस्य तथा कुर्यात् कैलासस्य यथोदिता ॥
भूमयः षड् विधातव्या द्वादशाण्डाः पृथक् पृथक् ।
नन्दयत्येष कर्तारमिह लोके परे च यत् ॥
१ द. स्र । २ द. न्नाः । ३ द. द्वा द्वावन्यो तुर्यंस्तु । ४ द. थं । ५ द. सपादभागमंजकं ।
६ द. णे । ७ द. न्त । ८ द. द्यं । ९ द. षि । १० द. वा । ११ द. द्विरतारद्वैनवेदिका ।