समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 488, कुल 726 में से
संदर्भ में पढ़ेंमेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२५
शुकनासोच्छ्रितिः शेषं सिंहेनाधिष्ठिता भवेत् ।
पादोनभागा ग्रीवाण्डं सपादं पदमुच्छ्रितम् ॥
रेखा १++ विधा( त )व्यं ++ न्यूनाधिकमण्डकम् ।
सपादभागमानेन कर्तव्यं चन्द्रिकाद्वयम् ॥
पद्मपत्राकृतिं कुर्यान्मध्ये चामलसारि(काम् ) ।
द्विपदं कलशं कुर्याद् बीजपूरकवर्जितम् ॥
श्रीवत्सं कारयेद् यस्तु प्रासादमतिसुन्दरम् ।
कुलानां शतमुद्धृत्य स व्रजत्यमरावतीम् ॥
श्रीवत्सः ॥
अथ हंसस्य वक्ष्यामः प्रासादस्येह लक्षणम् ।
चतुरश्रीकृते क्षेत्रे चतुर्भिर्विभजेत् पदैः ॥
भागैश्चतुर्भिर्गर्भः स्याद् २भित्तिर्द्वादशभागिकी ।
भागद्वयेन भद्राणि ततश्च परिकल्पयेत् ॥
चतुर्भागेन निष्क्रामस्तेषां गर्भस्य शस्यते ।
भागस्य षोडशांशेन कुर्याद् नीरै३(रा)न्तराणि च ॥
४पीठिका वेदिकाबन्धो जङ्घा मेखलया सह ।
ऊर्ध्वमानं च कर्तव्यं स्वस्तिकस्य यथोदितम् ॥
मध्ये किन्नररूपाणि पद्मपत्राणि चाप्यधः ।
उपरि व्यालहारांश्च पीठमेवं विभूषयेत् ॥
त्रिभौमं पञ्चभौमं वा कुर्यादेनं विचक्षणः ।
नागरं द्रावि(डे५ ?)श्चेति कर्णे कर्णे निवेशयेत् ॥
भूमिकाभाञ्जि कूटानि कुर्यादेकान्तराणि च ।
रथिके रथिका (?) कुर्याद् ( विन्य ? ) नागरकर्मणा ॥
विस्ताराधेन वेदी स्याद् ग्रीवा७ चास्य पदार्धिका ।
अण्डकं पदिकं कार्यं कङ्कतीफलसन्निभम् ॥
१ द. विवे। २ द. र्भृं । ३ द. रत। ४ द. पीठकं वेँ। ५ द. इतः परं 'वराटं द्राविडं
चापि नागरं वा विशेषतः । जङ्घामध्ये विश्रान्तव्यं कर्मलोकेक्षणोत्सवम् ॥ इत्यधिकः पाठः । ६ द. डश्चेति ।
७ द. ग्रवो ।
वा. ५४