सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 479, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 479

४१६ समराङ्गणसूत्रधारे
तत्र गर्भो भवेत् तावान् यावत् स्याद् ब्रह्मणः पदम् ।
१++++++++भित्तिश्चेति पदं पदम् ॥
भागषट्केन भद्रं स्यात् सार्धभागैविनिर्गतम् ।
३कैर्णं द्विभागिकं कुर्यात् ४+लमाग्रसमन्वितम् ॥
पदपादस्य पादेन विस्तारो जलवर्त्मनः ।
यत्रैकमेव भद्रं स्याच्चारुस्तम्भैरलङ्कृतम् ॥
स(सं)मोददं स्यात् तद् वस्तु धनधान्यसुखावहम् ।
चतुर्भिर्विस्तृतं भागैः सार्धभागविनिर्गतम् ॥
भद्रस्यैवाग्रतो भद्रं तच्छौ(च्च) बाह्योदरं विदुः ।
विस्ताराद् द्विगुणश्चास्य समुच्छ्रायः प्रकीर्तितः ॥
कुम्भकं भागिकं कुर्याद् भागार्धेन मसूरकम् ।
भागपादेन कुर्वीत ततश्चान्तरपत्रकम् ॥
मेखलायाः समुच्छ्रायमर्धभागेन कारयेत् ।
चतुर्भागोन्नता जङ्घा प्रासकिङ्किणिकान्विता५ ॥
पदं पादविहीनं स्यात् (कृप्तं६ ?)स्थानेषु हीरकम् ।
मेखलान्तरपत्रं च पदार्धेन समुद्यं(च्छ्रि)तम् ॥
त्रिभागविनतं कुर्याद् भागे चन्द्रावलोकनम् ।
ऊर्ध्वमासनपट्टस्य स्तम्भं कुर्यात् पदद्वयम् ॥
हीरग्रहणशीर्षं च पदेनैकेन कारयेत् ।
भागेनैकेन कुर्वीत पट्टपिण्डं१० विचक्षणः ॥
द्विपदं छाद्यविस्तारं तदर्धेन(तुलस्वनमः ?) ।
जठरं बाह्यसीमा च भित्तयश्चान्धकारिका ॥
जङ्घोत्सेधश्च कर्णश्च+++यथा ११भवेत् ।
कोणेषु रथिकाः कार्याः कलशान्ताः पदत्रयम् ॥
१ द. भित्तिम्र्मंतिकां बाह्यभिं । २ द. ॰गेननिर्गतं । ३ द. प्रतौ इतः पूर्वं ‘समोददं स्यात्तद्वस्तु
धनधान्यसुखावहम्’ । अयं अधिकः पाठः । ४ द. ॰जलमार्गासं । ५ द. तु । ६ द. कां । ७ द. र्तां ।
८ द. ष्ठं । ९ द. दृतं । १० द. ण्ड विं । ११ द. मेरो तथा ।