समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 477, कुल 726 में से
संदर्भ में पढ़ें४१४ समराङ्गणसूत्रधारे
अन्योऽपि कश्चिद् यः कुर्याद् (वेर्णाच्छतं ?) भक्तिमानिमम् ।
सोऽपि सौख्यमवाप्नोति पश्चादन्ते परं पदम् ॥
पृथिवीजयः ॥
अतः परं प्रवक्ष्यामि प्रासादं क्षितिभूषणम् ।
अमरैर्वन्दितं सर्वैस्तथा चाप्सरसां गणैः ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
भद्रे पञ्च पदानि स्युः कोणे कार्यं पदत्रयम् ॥
गर्भं षोडशभिर्भागैस्तस्य कुर्याद् विचक्षणः ।
कर्तव्या पदविंशत्याँ कन्दभित्तिः समन्ततः ॥
प्रासादस्यास्य कर्तव्या रमणी तु पदद्वयम् ।
पट्टि(दि)का बाह्यभित्तिः स्याद् द्विपदो भद्रनिर्गमः ॥
जलान्तरं तु भागस्तु ++++ गवाक्षकाः ।
भद्राणां मध्यतः पञ्च(स?) प्रकाशाः स(सु)मनोरमाः ॥
बाह्यालिन्दं प्रकुर्वीत वेदीजालविभूषितम् ।
तस्योपरिष्टात् कुर्वीत माल्युच्छ्रायं सुशोभनम् ॥
ऊर्ध्वमानमथ ब्रूमः प्रासादे क्षितिभूषणे' ।
क्षुरकं तस्य कुर्वीत त्रिपदं पीठसंयुतम् ॥
अस्योच्छ्रायतस्तः सार्धं°(पदाः स्यात् ?) पञ्चविंशतिः ।
एतन्मध्ये तु दशभिः पदैः कार्यस्तुलोदयः ॥
रेखा पञ्चदशांशा स्यात् स्कन्धशीर्षं पदार्धकम् ।
वेदीबन्धस्तु कर्तव्यः सार्धभागद्वयं बुधैः ॥
जङ्घा षड्भागिकोच्छ्राया भागार्धे(षेचराः ?) शुभाः ।
मेखलान्तरपत्रं च पदेनैकेन कारयेत् ॥
कार्या चतुष्किका पञ्चविस्तारा त्रिपदोच्छ्रिता ।
तदूर्ध्वतः क्रमः कार्यों द्विपदोऽन्योऽधिकं पदम् ॥
१ द. दथः । २ मुद्रित पुस्तके 'वर्णानाम्' इति स्यात् । ३ द. तः । ४ द. मां । ५ द. च
प्रवक्ष्यामः । ६ द. त्यां । ७ द. तु भागार्द्धं द्विभागस्तु ग° । ८. द. तां । ९ द. णे । १० द. द्वे ।
११ द. र्द्वि°।