समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 493, कुल 726 में से
संदर्भ में पढ़ें४३० समराङ्गणसूत्रधारे
अथाभिधीयते सम्यक् प्रासादो नन्दिवर्धनः ।
नन्दयत्येष कर्तारं पुत्रदारधनादिभिः ॥
चतुरश्रीकृते क्षेत्रे भजेत् षोडशभिः पदैः ।
शतद्वयं विभागाः स्युः षट्पञ्चाशत् तथा(परैः ? ) ॥
गर्भः शतपदः कार्यों भित्तिश्च त्रिपदायता ।
कर्णप्रमाणं त्रिपदं नवबन्धसमन्वितम् ॥
भागायतं भागपदं(पाद)विस्तीर्णं वारिवर्त्म च ।
विभजेत् पञ्चधा कर्णं तस्य भद्रं त्रिभिः पदैः२ ॥
भागं भागं भवेत् कर्णे३ भागार्धं भद्रनिर्गमः ।
प्रत्यङ्गं द्विपदं कुर्याद् वारिमार्गेण संयुतम् ॥
निर्गमाँ(मः) सार्धभागेन पार्श्वयोरुभयोरपि ।
शालाषट्पदविस्तारा प्रत्यङ्गा भौगनिर्गतम् ॥
भद्रं तदग्रतः कुर्याद् विस्तारेण चतुष्पदम् ।
भागार्धनिर्गमं६ सम्यग् (दिक्षु) सर्वास्वयं विधिः८ ॥
कर्णस्यार्धे नयेद् गर्भाद् वृत्तं तत् पूर्वमालिखेत् ।
अनुसारेण वितरेदङ्गप्रत्यङ्गनिर्गमम् ॥
सार्धभागं गजाधारं साब्जपत्रं समेखलम् ।
कुर्यात् पदं पादहीनं जङ्घाकुम्भसमुच्छ्रितम् ॥
भागपादेन कणकं पादोनान्तरपत्रकम् ।
तैन११धं ग्रासहारं च भागार्धं खुरकं तथा ॥
खुरकेण समं प्रोक्ता पीठस्यैषा समुच्छ्रितिः ।
विस्ताराद् द्विगुणश्चायं (स्यादूर्ध्वकल्पयाधकः ?)
तुलोदयो विधातव्यस्त्रयोदशभिरंशकैः ।
विंशत्यंशं तु शिखरं ++++ श्रतुष्पदम् ॥
१ द. तयापरे । २ द. पदं । ३ द. र्णो । ४ द. मा । ५ द. द्धा । ६ द. मम् । ७ द. ंतं ।
८ द. धेः । ९ द. ˚न यद्गं । १० द. ˚समुद्धृतिं । ११ द. य ।