समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 496, कुल 726 में से
संदर्भ में पढ़ेंप्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः । ४३३
गृहहर(राट्) स्वस्तिकश्चैव रुचकः पुण्ड्रवर्धनः ।
कार्या¹ जनार्दनस्याष्टौ प्रासादाः पुरभूषणाः ॥ ८ ॥
मेरुमन्दरकैलासा हंसाख्यो भद्र एव च ।
उत्तुङ्गो मिश्रकश्चैव तथा मालाधरोऽष्टमः ॥ ९ ॥
इत्यष्टौ ब्रह्मणः प्रोक्ताः प्रासादाः पुरमध्यगाः ।
गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः ॥ १० ॥
श्रीवत्सः पद्मनाभश्च वैराजो वृत्त एव च ।
एते कार्या रवेरष्टौ प्रासादाः शुभलक्षणाः ॥ ११ ॥
(नन्द्यावर्तश्चैव चलभश्रर्णदित्यः² ?) सिंह एव च ।
विचित्रो योगपीठश्च घण्टानादपताकिनौ³ ॥ १२ ॥
अष्टावेते विधातव्याश्चण्डिकायाः⁴ सुरालयाः ।
(गुहारसलोकश्च⁵ ?) वेणुभद्रोऽथ कुञ्जरः ॥ १३ ॥
तथा च हर्षविजयावुदकुम्भोऽथ मोदकः ।
एतान् विनायकस्याष्टौ प्रासादान् कारयेच्छुभान् ॥ १४ ॥
महापद्म(हर्म्यननल)मुज्जयन्तस्तथा परः ।
गन्धमादनसंज्ञं च(ज्ञश्व) शतशृङ्गानवष्ककौ (नवद्यकौ) ॥ १५ ॥
सु(म)विश्रान्तो (मनो°) हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः ।
वृत्तो वृत्तायतश्चैवः किङ्किणीलयनाभिधः ॥ १६ ॥
पट्टिशो⁹ विभवाख्यश्च ततश्चा(स्ता)रागणा(णोऽ)ष्टमः ।
कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् ॥ १७ ॥
‘प्रासादस्तवनं नाम ?
१ द. यों। २ द. °श्चैव लक्ष्मी स्वर्णादित्यः सिंह एव च । मुद्रित पुस्तके 'नन्द्यावर्त्तो वलभ्यश्च
सुपर्ण' इति पठनीयं भाति । ३ द. घंटापादपताकिनैः । ४ द. °न्द्रि° । ५ द. गुहरसलाक़श्व वे°; मुद्रित
पुस्तकानुसारेण 'गुहाधरश्च शालाक' इति पाठ्यं भाति । ६ द. महापद्मो हर्म्यंतलमु° । मुद्रित पुस्तका-
नुसारेण 'स्तथा हर्म्य' इति पाठ्यं स्यात् । ७ द. थमनो । ८ द. ष्याः । ९ द. को । १० मुद्रित
पुस्तके इहाध्यायस्य समाप्तिरिति भाति । अतः "इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गण-
सूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादस्तवनं नामाष्टपञ्चाशोऽध्यायः ॥" इति लेखनीयम् । द. प्रतौ
'प्रासादस्तवनं नाम' इत्येव पाठः ।
वा. ५५