सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 490, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 490

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२७
ततो भागचतुष्केण कर्तव्यो मध्यमो रथः ।
एकैकेन विभागेन द्वौ रथौ वामदक्षिणौ ॥
(१कर्णांस्तु पदा कार्या वर्जं चारिधर्माभिः ? ) ।
भद्रस्य निर्गमं तत्र भागेनैकेन कारयेत् ॥
भागस्यार्धेन पार्श्वस्थरथकानां विनिर्गतम्२ ।
विस्तारार्धेन गर्भः स्याद्३ यच्छेषं तेन भित्तयः ॥
ऊर्ध्वमानं भवेदस्य स्वस्तिकस्य यथोदितम् ।
४वर्धमानोऽयमाख्यातो यशोलक्ष्मीविवर्धनः ॥
वर्धमानः ॥
गरुडस्याधुना ब्रूमः प्रासादस्येह लक्षणम् ।
प्रासादः सर्वदैवायं गरुडध्वजवल्लभः ॥
द्वाविंशतिपदं क्षेत्रं ( ५भैक्त्वाल्या समायतम् ? ) ।
पूर्वापरेण दशभिर्भागैर्भूयो विभाजितम् ॥
कुर्वीत मध्ये प्रासादं तस्मिञ् शतपदं बुधः ।
द्विपदं भित्तिविस्तारं कर्णांश्चापि द्विभागिकान् ॥
उत्सृष्टमूलप्रासादमुभयोरपि पक्षयोः ।
अग्रतः पृष्ठतश्चापि द्वौ द्वौ भागौ परित्यजेत् ॥
शेषेण षट्पदौ ++ सहसायामविस्तृतौ (?) ।
गर्भः षोडशभिर्भागैर्भित्तिः स्यात् पदमेतयोः ॥
श्रीवत्सउंस६रुचकवर्धमानेषु कोऽपि यः ।
रोचते गरुडं कुर्यात् तमेकं स्वेच्छया बुधः ॥
तस्य पक्षौ विधातव्यौ निर्गतौ वामदक्षिणम् ।
एवमेते त्रयो गर्भा गरुडे७ परिकीर्तिताः ॥
गरुडः ॥
१ द. कर्णास्तु द्विपदाः कार्या वर्जिता चारिध० । २ द. मम् । ३ द. प्रतौ ' द् ' नास्ति ।
४ द. उर्द्ध । ५ द. पक्षाभ्या समायातं । ६ द. सं । ७ द. डं ।