सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 393, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 393

३२८ समराङ्गणसूत्रधारे
जङ्घास्य पञ्चभिर्भागैः पीठं चास्य तदर्धतः ।
विरण्ड्यर्धांशिकाद्विश्च (?) भागश्चान्तरपत्रयोः ॥ ७३ ॥
तथोत्सेधत्रिभागैश्च नवभिः शिखरोच्छ्रितः ।
कुम्भश्चामलसारश्च सिंहेऽस्मिन्द्रा (स्मिन् भा) गमाग(न)तः ॥७४॥
सिंहः ॥
चतुरश्रीकृते क्षेत्रे चतुर्भिर्भाजितैः पदैः ।
सीमाविस्तारमानेन रथांस्तस्य प्रकल्पयेत् ॥ ७५ ॥
पादेनैकेन निर्यातान् दिक्षु सर्वास्रनुक्रमात् ।
प्राग्ग्रीवान् पुनरस्यैव भागद्वितयविस्तृतान् ॥ ७६ ॥
पदषड्भागनिर्यातान् विदधीन चतुर्दिशम् ।
चतुर्भागायतो गर्भः कार्योऽस्य द्व्यंशविस्तृतः ॥ ७७ ॥
जङ्घोत्सेधश्च पीठं च यथा भद्रे तथा भवेत् ।
प्रासादो भवसंज्ञोऽयं देवतात्रितयाश्रयः ॥ ७८ ॥
भवः ॥
भवस्यैव यदा कुर्याद् रथान् संजलनिर्गमान् ।
द्विभङ्गं संश्रयोऽन्यः सा ( ? ) प्रासादो विभवाभिधः ॥ ७९ ॥
( त्रिलिङ्गः ? )
अष्टधा भाजिते क्षेत्रे चतुरश्रे समन्ततः ।
विदध्याद् गर्भसूत्राणि कर्णसूत्राणि च क्रमात् ॥ ८० ॥
दिक्षूत्रेष्वखिलेष्वस्य सीमार्थं पदमेव च ।
पदस्याष्टादशो भागस्तद्योगाद् वृत्तमालिखेत् ॥ ८१ ॥
विस्तारार्धं भवेद् गर्भो गर्भार्धास्तस्य भित्तयः ।
तद्वृत्तबाह्यसूत्रेण भागान् षोडश कारयेत् ॥ ८२ ॥
दिक्सूत्रकर्णसूत्रेषु रथकान् सम्प्रकल्पयेत् ।
द्विभागा रथिका कार्या सलिलान्तरभूषिता ॥ ८३ ॥
सलिलान्तरमेतस्य श्रीवत्सस्येव कल्पयेत् ।
जङ्घोत्सेधे² च पीठे च शिखरं ( ? )³ च तथा भवेत् ॥ ८४ ॥
१ द. थ । २ द. धश्च पीठं च । ३ द. रतं ।