सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 394, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 394

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२९
मालाधारः स विज्ञेयः सबाह्याभ्यन्तरः समः ।
मालाधरः ॥
मालाधरस्य संस्थाने यत् क्षेत्रं पूर्ववत् स्थितम् ॥ ८५ ॥
उदकान्तरविच्छिन्नं पद्मं तत्र निवेशयेत् ।
तथाग्रे कारयेत् कर्ण²व्यासाधैन विनिर्गमान् ॥ ८६ ॥
पद्मपत्रनिभाकारान् जातिशुद्धान् सलक्षणान् ।
पद्मः ॥
षड्भागनायते³ क्षेत्रे विस्तारे⁴ चतुरश्रके ॥ ८७ ॥
द्विभागौ⁵ विपुलो गर्भश्चतुर्भागायतो भवेत् ।
गर्भंवासमितं सूत्रं पदपादसमन्वितम् ॥ ८८ ॥
वृत्ताधं भ्रमयेत् तेन दक्षिणेनोत्तरेण च ।
सीमाविस्तारसूत्रेण पदपाद्युतेन च ॥ ८९ ॥
पुरतः पृष्ठतश्चापि तद्वृत्तमन्वर्तयेत् ।
वृत्तक्षेत्रमिदं तस्य भागैर्द्वादशभिर्भवेत् ॥ ९० ॥
द्विभागो भद्रविस्तारो भागिकी भागविस्तृतिः
भद्राणां च रथान्मध्ये भागेनैकेन विस्तृताँ⁷( ? ) ॥ ९१ ॥
उदकान्तरकं चात्र मालाधरवदाचरेत् ।
वृत्तायतस्तु कर्तव्यः प्रासादो मलयाभिधः ॥ ९२ ॥
मलयः ॥
मलयस्यैव कर्णेषु रथिकांन् यदि कल्पयेत् ।
¹⁰उदकान्तरविच्छिन्नान् पदषड्भागनिर्गतान् ॥ ९३ ॥
पीठोत्सेधश्च जङ्घा च शिखरं चात्र यद् भवेत् ।
एकमात्रौसमायुक्तं लतिनाँ¹² ते(?) प्रतीयते(न्तर्विधीयते ) ॥ ९४ ॥
¹³त्र्यंमाशा(त्र्यश्रा)णां चतुरश्राणां कोणेष्वर्धपरिक्षयात् (?)।
अष्टाश्रं जायते यत्र वाजाग्रमपि तां नरम् (?) ॥ ९५ ॥
१ द. ध । २ द. कर्णा न्यां । ३ द. ता । ४ द. रा । ५ द. ग । ६ द. वृत्तार्ध...वृत्तमन्व-
र्तयेत् । प्रतौ नास्ति । ७ द. नाः । ८ द. भवेत् । ९ द. थ । १० द. उदकान्तरविच्छिन्नान्...चात्र
यद् भवेत् पुस्तके नास्ति । ११ द. न । १२ द. ललिनां तद्विधीयते । १३ द. प्रासादः सर्वकामार्थः
भुक्तिमुक्तिप्रदायकः...सपादमिहधारयेत् । प्रति पाठः ।
वा. ४२