समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 392, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२७
तदुत्पन्नैस्तु भद्रस्थकर्णैः स्याच्चित्रकूटकः ।
गिरिकूटः ॥
कर्णान्ते च रथान्ते च यदि स्यात् सलिलान्तरम् ॥ ६३ ॥
वर्धमानस्य भवति श्रीवत्सः स्यात् तदा शुभः ।
श्रीवत्सः ॥
गिरिकूटस्य संस्थाने तद्रूपे विनिवेशिते ॥ ६४ ॥
कर्णा(न्) प्रतिरथेष्वस्य निखिलेष्वपि योजयेत् ।
प्राग्वत् प्रतिरथोद्भूतसूत्राभ्यां कर्णवर्त्मना ॥ ६५ ॥
त्रिकूटाख्यस्तदैव स्यात् प्रासादो देवालयः ।
त्रिकूटः ॥
त्रिकूटस्यैव संस्थाने भद्रकर्णपरिच्युते ॥ ६६ ॥
स्वरूपभद्रसंस्थाने मुक्तकोणः प्रजायते ।
मुक्तकोणः ॥
चतुर्भि(र्वि)स्तृतैर्भागैः क्षेत्रे पञ्चभिरायते ॥ ६७ ॥
भागेन भित्तिः कर्तव्या शेषं गर्भगृहं भवेत् ।
अस्य क्षेत्रार्धसूत्रेण पृष्ठतो वृत्तमालिखेत् ॥ ६८ ॥
पुरतः शूरसेनोऽस्य पृष्ठतोऽपि गजाकृतिः ।
प्रासादोऽयं गजो नाम गणेशस्य विधीयते ॥ ६९ ॥
गजः ॥
वर्धमानस्य संस्थाने गरुडं विनिवेशयेत् ।
तस्य पक्षौ विधातव्यौ प्रासादार्धेन निर्गतौ ॥ ७० ॥
पक्षयोस्तु दशस्तस्य(?) वर्धमानं विभाजयेत् ।
जातिशुद्धा रथाः कार्याः पार्श्वयोर्गरुडो भवेत् ॥ ७१ ॥
गरुडः ॥
वर्धमानस्य संस्थाने प्राग्वत् कर्णौ नियोजयेत् ।
द्विभागा रथिका कार्या शेषं भद्रं प्रकल्पयेत् ॥ ७२ ॥