समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 389, कुल 726 में से
संदर्भ में पढ़ें३२४ समराङ्गणसूत्रधारे
अण्डकैः सप्तसप्तत्या प्रासादो विजयाभिधः¹ ।
एकाशीत्यण्डकोपेतो विधेयो मुकुटोत्कटः ॥ ३२ ॥
ऐरावतस्तु पञ्चाशीत्यण्डकः परिकीर्तितः ।
नवाशीत्यण्डकैर्युक्तो राजहंसः प्रशस्यते ॥ ३३ ॥²
नवत्या सप्तयुतया प्रासादो वृषभो³ऽण्डकैः ।
शतेनैकोत्तरेणाण्डैर्मेरुः प्रासादराट् स्मृतः ॥ ३४ ॥
हरेर्हिरण्यगर्भस्य + + +⁴ भास्करस्य च ।
मेरुरेष विधातव्यो नान्यस्य त्रिदिवौकसः ॥ ३५ ॥
मेरोः प्रासादराजस्य देवानामहालयस्य च ।
कर्ता क्षत्रिय एवास्य वैश्यै( द्वयोऽ)स्य स्थपतिर्भवेत् ॥ ३६ ॥
एवं विधीयमानेऽस्मिन् मेरौ द्वावपि नन्दतः ।
वास्तुशास्त्रविधिज्ञोऽपि क्षत्रियः स्थपतिर्यदि ॥ ३७ ॥
तदास्य सत्यं शौचं च विक्रमश्च विनश्यति ।
ईश्वरोऽपि यदा विप्रो मेरुप्रासादकृद् भवेत् ॥ ३८ ॥
कर्तुः कारयितुः पीडा पूजा चास्य न तादृशी ।
ब्राह्मणः स्थपतिश्चास्य वास्तुशास्त्रे विशारदः ॥ ३९ ॥
वणिक्कर्मणि वर्तेत धनवानपि यद्यसौ ।
सर्वविप्रेषु निर्दिष्टः कर्ता स्थपतिरेव सः⁹ ॥ ४० ॥
तत्रस्था¹¹ देवताः सर्वास्तस्य वृद्धिः कथञ्चन ।
वास्तुशास्त्रविधिज्ञोऽपि तच्चैत् कारयिता यदि¹³ ॥ ४१ ॥
राजापि क्षत्रियः कर्ता मेरु( रो )¹²र्भवेत् तदा ।
राष्ट्रभङ्गो भवेत् तस्य प्रजा यान्ति दिशो दश ॥ ४२ ॥
१ द. वज्रकाभिधः। २ द. त्रिनवत्यंडकैर्युक्तो गरुडाख्यः प्रशस्यते। ३ द. भा०। ४ द. ०स्य
हरप्य भा०। ५ द. वैश्यश्च स्थ०। ६ द. वे०। ७ द. ०ति श्तेस्याद्वास्तुशास्त्र त्रि०। ८ वणिग्धर्मेन व०।
९ द विद्विष्टः। १० द. च। ११ द. अपूज्या देवतास्तत्र न स्याद्वृद्धिः कदाचन। १२ द. शूद्रः।
१३ द. दा।