समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 395, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 395३३० समराङ्गणसूत्रधारे
३३० समराङ्गणसूत्रधारे
अष्टाश्रं चतुरो भागान् विदध्यात् तत्र भागिकी ।
भित्तिर्विधेया भागाभ्यां भवेद् गर्भगृहं ततः ॥ ९६ ॥
रथिकासु विधेयोऽस्य परितो जलनिर्गमः ।
वज्रको नाम कथितः प्रासादः शुभलक्षणः १ ॥ ९७ ॥
वज्रकः ॥
वज्रकस्यैव संस्थाने सलिलान्तरवर्जिते ।
चत्वारिंशद्भागभक्ते रथिकाः स्युस्त्रिभागिकाः ॥ ९८ ॥
अष्टासु दिक्षु कर्णाश्च भवन्त्यस्य द्विभागिकाः ।
कर्णैः ३ पद्मकतुल्योऽयं स्वस्तिकः समुदाहृतः ॥ ९९ ॥
स्वस्तिकः ॥
वज्रकस्यैव संस्थाने ये रथाः प्राक् प्रदर्शिताः ।
एकैकस्तेषु कर्तव्यश्चतुरश्चतुरोऽंशकान् ॥ १०० ॥
भागद्वयेन मध्यः स्याद् रथकोशाद् विनिर्गतः ।
शङ्कुर्नामायमुद्दिष्टः प्रासादोऽष्टाभिरश्रिभिः ॥ १०१ ॥
शङ्कुः ॥
चतुरश्राः षोडश प्रोक्ताश्चतुरश्रायतद्वयम् ( ? ) ।
वृत्तवृत्तायतौ द्वौ द्वावुक्ताश्चाष्टाश्रयस्त्रयः ॥ १०२ ॥
पञ्चविंशतिरित्येते प्रासादा ललिताः स्मृताः ।
मिश्रकाणामथ ब्रूमो लक्षणानि यथाक्रमम् ॥ १०३ ॥
भद्रकस्यैव संस्थाने भद्रे शृङ्गं यदा भवेत् ।
सुभद्रो नाम ( ? )संज्ञोऽयं कर्णकूटैः करीद्यसौ ( ? ) ॥ १०४ ॥
पूर्वोक्तस्य यदा शृङ्गं भद्रं केसरिणो भवेत् ।
लतारूढ्योक्तं ( ? ) तदा स स्यात् सर्वतोभद्रसंज्ञितः ॥ १०५ ॥
भद्रे शृङ्गं परित्यज्य सिंहं तत्रैव कारयेत् ।
मिश्रयोगे तयोर्मिश्रः स भवेत् सिंहकेसरी ॥ १०६ ॥
१ द. ॰दोऽयं सुलक्षणः । २ द. थ । ३ द. ॰र्णे । ४ द. ॰शांह्रिनि॰ । ५ द. शो । ६ द.
तं । ७ द. ॰दाः ललिनः स्मृ॰ । ८ द. क्रिरीद्मसौ । ९ द. न । १० द. ॰गेन यो मिश्रः ।