समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 397, कुल 726 में से
संदर्भ में पढ़ेंवरण्ड्यन्तरपत्रं च भागेनैकेन कल्पयेत् ।
रथिकैकान्तरं तस्य सार्धभागत्रयोच्छ्रिताः(?) ॥ ११९ ॥
षड्भागे शिखरं मूले शेषांशकसमुच्छ्रितम् ।
तस्योच्छ्रयं त्रिधा कृत्वा वेणुकोशं समालिखेत् ॥ १२० ॥
स्कन्धकोशान्तरं तस्य चतुर्था विभजेत् ततः ।
पद्मशीर्षं तथा ग्री(वां) सार्धेनांशेन कारयेत् ॥ १२१ ॥
कुर्याद् भागेन भागेन कुम्भं^२ चामलसारकम् ।
भागाधेन प्रकुर्वीत तदूर्ध्वं बीजपूरकम् ॥ १२२ ॥
^३प्रासादः कैसरी नाम सर्वतः सन्ततिप्रियः ।
कैसरी ॥
चतुरश्रं समं कृत्वा भूमिभागं विचक्षणः ॥ १२३ ॥
प्रासादो^(४ द)व्यासतः कुर्याज्जगतीं द्विगुणामिह ।
विदध्याज्जगतीपीठं प्रासादार्धसमुच्छ्रितम् ॥ १२४ ॥
पीठस्योपरि संस्थाप्य प्रासादं विभजेत् ततः ।
सर्वतोभद्रसंस्थानं हस्तसंख्या यदा^७ भवेत् ॥ १२५ ॥
हस्तैः सप्तत्रिंशता तु ज्येष्ठः सार्धै(?) उदाहृतः ।
मध्यमः सप्तविंशत्या प्रासादेः^९ स्यात् कलाधिकैः ॥ १२६ ॥
कनीयान् पञ्चदशभिः प्रासादः समुदीरितः ।
तैलच्छन्दो^१० यदा ह्येषां तथा चैवोर्ध्वतो गतिम् ॥ १२७ ॥
ज्येष्ठमध्यकनिष्ठानां तथा सम्यङ् निगद्यते ।
चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते ॥ १२८ ॥
न्यसेत् तन्मध्यतो गर्भं चतुर्वर्गपदान्वितम् ।
गर्भपादेन^१२ भित्तिः स्यात् तद्वदेवान्धकारिका ॥ १२९ ॥
बाह्यभित्तिस्तथवां^१३(थैव) स्याद् देशाशास्युर्द्विभागिका(?)^१४ ।
प्रतिवर्णपदांशेन(?) षोडशेन^१५ जलान्तरम् ॥ १३० ॥
१ द. सा च भां° । २ द. कुंभमामं° । ३ द. प्रासादः केसरी नाम पार्वत्या सततप्रियः । ४ द. के° ।
५ द. °दं । ६ द. उज । ७ द. यथा । ८ द. सार्द्धेरु° । ९ द. दा । १० द. तद्च्छंद्यो यथा चैवोर्द्धतो
गतिः । ११ द. क् । १२ द. °र्भा । १३ द पुस्तके पाठः नास्ति । १४ द. द्वयिका । १५ द. °षु ।