समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 391, कुल 726 में से
संदर्भ में पढ़ें३२६ समराङ्गणसूत्रधारे
हंसस्येवं¹ यदा कुर्याद् भद्रस्यान्ते जलान्तरम् ।
तदा हंसोद्भवो नाम प्रासादः परिकीर्तितः ॥ ५३ ॥
हंसोद्भवः ॥
रथान्तकर्णयोश्चैवं² यदा स्यादुदकान्तरम् ।
प्रतिहंसस्तदा प्रोक्तः प्रासादोऽयं³ मनोरमः ॥ ५४ ॥
प्रतिहंसः ॥
प्राग्ग्रीवा रुचकस्यैव सीमाविस्तारविस्तृता⁴ ।
निर्गता भद्रमानेन तदा नन्दः स उच्यते ॥ ५५ ॥
नन्दः ॥
प्राग्ग्रीवैर्भद्रमानेन नन्दो यदि विभूष्यते ।
निर्गतैर्भागमानेन चतुरश्रैः समन्ततः ॥ ५६ ॥
प्राग्ग्रीवः पुरतः कार्यः स्तम्भद्वयविभूषितः ।
नन्द्यावर्तस्तदा प्रोक्तः प्रासादो विजयावहः ॥ ५७ ॥
नन्द्यावर्तः ॥
नन्द्यावर्ते यदा कुर्याद् भद्रान्ते जलनिर्गमम् ।
धराधरस्तदा ज्ञेयः प्रासादो भुवनोत्तमः ॥ ५८ ॥
धराधरः ॥
दशधा भाजिते क्षेत्रे चतुरश्रे समन्ततः ।
भागद्वयेन कर्णः स्याद् भजेच्छेषं च सप्तधा ॥ ५९ ॥
भागत्रयेण रथको मध्यमोऽस्य विधीयते ।
द्वाभ्यां द्वाभ्यां तु भागाभ्यां रथकौ वामदक्षिणौ ॥ ६० ॥
भागस्यैव त्रिभागेन भवेदस्य विनिर्गमः ।
कथितो वर्धमानोऽयं
वर्धमानः ॥
गिरिकूटोऽथ कथ्यते ॥ ६१ ॥
वर्धमानस्य भद्रस्थमध्यसूत्रेण योजयेत् ।
कर्णिसूत्रं तदग्राभ्यां न्यस्येत् सूत्रचतुष्टयम् ॥ ६२ ॥
१ द. स्यै । २ द. रथान्तयोश्च भद्रे च यदा । ३ द. यमनुत्तमः । ४ द. श्रु ।