समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 396, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३३१
श्रीवत्सस्यैव संस्थाने भद्रे¹ कूटं निवेशयेत् ।
कर्णे तनैव योगेन प्रतिशृङ्गोपशोभितम् ॥ १०७ ॥
कलशैः सप्तदशभिः पद्मघण्टामलैः सह ।
स चे² त्रिकूट इत्युक्तो विचित्रशिखरान्वितः ॥ १०८ ॥
कर्णे भद्रे प्रतिस्थाने पूर्णे³ शृङ्गे यदा भवेत् ।
अण्डकैः सप्तदशभिस्तदा स्यात् स धराधरः ॥ १०९ ॥
श्रीवत्सस्यैव संस्थाने कर्णे कूटं निवेशयेत् ।
शृङ्गं भद्रो⁴ + भद्रे च तदा तिलक उच्यते ॥ ११० ॥
यथा कर्णे तथा भद्रे यो भवेच्चित्रकूटवत् ।
उत्तमाङ्गे⁵ च यस्तद्वत् स स्यात् सर्वाङ्गसुन्दरः ॥ १११ ॥
प्रतिशृङ्गेषु सर्वेषु यदा कूटं निवेश्यते ।
मिश्रकः स तु विज्ञेयः श्रीनाम्ना चान्तिकोऽन्तिकः ॥ ११२ ॥
सर्वे कूटावृताः कार्याः सर्वे कार्याश्चतुर्मुखाः ।
मिश्रका बहुशृङ्गाश्च कुटीसंज्ञास्ततोऽपरे ॥ ११३ ॥
इदं नवानां मिश्राणामिह लक्षणमीरितम् ।
साधारणमतः स्पष्टं ब्रूमः सम्प्रति लक्षणम् ॥ ११४ ॥
चतुरश्रीकृते क्षेत्रे भागाष्टकविभाजिते ।
तस्य मध्ये भवेद् गर्भो द्विभागो देवालयः ॥ ११५ ॥
भागे निवेशयेद् भित्तिं कुर्याद् भागेन कारिकाम् ।
बाह्यंभित्ति पुनर्भागे विधेयास्तस्य सिद्धये (?) ॥ ११६ ॥
तस्य कर्णेषु कर्तव्या रथिकाश्च द्विभागिकाः¹² ।
शेषं भद्रं प्रकर्तव्यमुदकान्तरभूषितम् ॥ ११७ ॥
भागेन निर्गतं दिक्षु सर्वास्वेवं¹³ भवेद् विधिः ।
चतुर्भागोच्छ्रिता जङ्घा करकश्च तदर्धतः¹⁴ ॥ ११८ ॥
१ द. भटे । २ द. चित्र । ३ द. वे । ४ द. भद्रोपभद्रे च । ५ द. ष्टैव । ६ द. यथा ।
७ द. ष्भ्रतिलकोङ्कितः । ८ द. सांवाराणामथ । ९ द. न्तिः कुर्याद्भागेन कारिका । १० द. बाह्यां-
भित्तिः । ११ द. त । १२ द. विभागिका । १३ द. स्वेष्विति । १४ द. कुं° । १५ द. तः ।