रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
१० रूपमण्डने
[ सूर्यः ]
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
द्विभुजञ्चैकवक्त्रञ्च श्वेतपङ्कजधृतकरम् ॥ १८ ॥
वर्तुलं तेजसो बिम्बं (१)मध्यस्थं रक्तवाससम् ।
आदित्यस्य त्विदं रूपं कुर्यात् पापप्रणाशनम् ॥ १९ ॥
[ ग्रहाणां वर्णाः ]
श्वेतः सोमः कुजो रक्तो बुधः पीतो गुरुस्तथा ।
शुक्रः श्वेतः शनी राहुः (२)कृष्णो धूम्रास्तु केतवः ॥ २० ॥
पद्महस्तो भवेत् सोमः कुजो दण्डकमण्डलुः ।
अर्धकायः स्थितो राहुः केतुः करपुटाकृतिः ॥ २१ ॥
[ ग्रहाणां वाहनानि ]
सप्ताश्वरथ आदित्यश्चन्द्रो दशहयः स्मृतः ।
मङ्गलो मेषमारूढो बुधः सर्पासनस्थितः ॥ २२ ॥
हंसारूढं गुरुं विद्याद् भेकारूढं च भार्गवम् ।
शनिं महिषमारूढं राहुं कुण्डस्य मध्यगम् ॥ २३ ॥
सर्पपुच्छाकृतिं केतुं शनिं (३)दृष्टा करालिनम् ।
[ ग्रहाणां भूषणानि ]
(४)गृहाः किरीटिनः कार्या (५)रलकुण्डलशोभिताः ॥ २४ ॥
[ सूर्यायतनम् ]
सूर्यस्याऽऽयतने स्थाप्या वह्णिकोणादितः क्रमात् ।
कुजो जीवस्तमः शुक्रः केतवो (६)यज्ञः शनिः शशी ॥ २५ ॥
(१) ‘पद्मस्थं’ इति स्यात् । (२) ‘कृष्णौ’ इति स्यात् । (३) ‘दंष्ट्रा-’ इति
स्यात् । (४) ‘ग्रहाः’ इति स्यात् । (५) ‘रत्न-’ इति स्यात् । (६) अत्र ‘य’
इत्यक्षरमधिकं ‘ज्ञः’ इत्येव स्यात् ।
द्वितीयोऽध्यायः ११
[ प्रतीहाराः ]
तर्जन्यंशुताम्रचूड(१)दण्डै तु वामतः ।
तर्जनीशक्ति(२)किरणं दण्डै स्यात् पिङ्गलः परः ॥ २६ ॥
द्वे तर्जन्यौ वज्रदण्डावानन्दो वामगो (३)दधात् ।
तर्जनीदण्डापसव्ये ह्यन्तकः स तु दक्षिणे ॥ २७ ॥
द्वे तर्जन्यौ पद्मदण्डे चित्तो धत्ते स वामतः ।
तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥ २८ ॥
(४)तर्जनीदण्डापसव्ये ह्यन्तकः स तु दक्षिणे ।
द्वे तर्जन्यौ पद्मदण्डे चित्रो धत्ते स वामतः ॥ २९ ॥
तर्जन्यौ किरणं दण्डं किरणाक्षः स धारयन् ।
तर्जनी दण्डापसव्ये प्रतिहारः सुलोचनः ।
चतुर्द्वारेषु संस्थाप्या दिशश्चैते प्रदक्षिणम् ॥ ३० ॥
इति सूर्यादिनवग्रहसूर्यायतनप्रतीहाराः ।
[ दिक्पालेषु इन्द्रः ]
वरं वज्राङ्कुशौ चैव कुण्डीं धत्ते करैस्तु यः ।
गजारूढः सहस्राक्ष इन्द्रः पूर्वदिशाधिपः ॥ ३१ ॥
[ वह्निः ]
वरदः शक्तिहस्तश्च समृणालकमण्डलुः ।
ज्वालापुञ्जनिभो देवो मेषारूढो हुताशनः ॥ ३२ ॥
[ यमः ]
लेखिनीपुस्तकं धत्ते (५)कुर्कुटं दण्डमेव च ।
महामहिषमारूढो यमः कृष्णाङ्ग ईरितः ॥ ३३ ॥
[ नैर्ऋतः ]
खड्गञ्च खेटकं हस्तैः (६) कार्तिकां वैरिम्स्तकः ।
दंष्ट्राकरालवदनः श्वानारूढश्च राक्षसः ॥ ३४ ॥
(१) ‘-दण्डैर्दण्डी’ इति स्यात् । (२) ‘-किरणदण्डैः’ इति स्यात् । (३) ‘दधत्’
इति स्यात् । (४) पद्यमिदं सम्पातायातं स्यात् । (५) ‘कुक्कुटं’ इति स्यात् ।
(६) ‘कर्तिकां वैरिमस्तकम्’ इति स्यात् ।
१२ रूपमण्डने
[ वरुणः ]
(१) वरपाशोसलं कुण्डीं हस्तैर्बिभ्रत् क्रमाच्च यः ।
नक्रारूढः स कर्तव्यो वरुणः पश्चिमाश्रितः ॥ ३५ ॥
[ पवनः ]
वरं ध्वजपताकाञ्च कमण्डलुं करैर्दधत् ।
मृगारूढो हरिद्वर्णः पवनो वायुदिक्पतिः ॥ ३६ ॥
[ कुबेरः ]
गदानिधिवीजपूरकमण्डलुधरः करैः ।
गजारूढः प्रकर्तव्यः (२) सौम्यो यो नरवाहनः ॥ ३७ ॥
[ ईशानः ]
वरं तथा त्रिशूलञ्च नागेन्द्रं बीजपूरकम् ।
बिभ्राणो (३)वृषभारूढो ईशानो धवलद्युतिः ॥ ३८ ॥
इति दिक्पालमूर्तिध्यानम् ।
इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे ब्रह्मसूर्यादिग्रहदिक्पाल-
मूर्त्यधिकारो नाम द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः
───:०:───
[ युगभेदेन वर्णभेदेन च विष्णुमूर्तयः ]
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
श्वेतरक्तपीतकृष्णा(:) क्रमात् (१)कलयुगादिषु ॥ १ ॥
पूज्या द्विजादिभिश्च────────────
[ शिरोविधानम् ]
──────एषां छत्राभं कुक्कुटाण्डवत् ।
वपुषाभञ्च बालेन्दुरूपं कुर्याच्छिरः क्रमात् ॥ २ ॥
[ वर्णभेदेन विष्णुमूर्तीनां शुभदत्वम् ]
नारायणः केशवश्च माधवो मधुसूदनः ।
पूजिता मूर्त्तयो ह्येता विप्राणां सौख्यदायकाः ॥ ३ ॥
मधुसूदनविष्णू च क्षत्रियाणां फलप्रदौ ।
त्रिविक्रमो वामनश्च वैश्यानाम् (२)अर्चयेच्छुभा ॥ ४ ॥
पूजिता (३)श्रीधरी मूर्त्तिः शूद्राणां सौख्यदायिनी ।
चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥ ५ ॥
मेदभिल्लकिरातानां हृषीकेशः सुखप्रदः ।
कुम्भकारवणिग्वेश्या(४)चक्रिकाध्वजिनामपि ॥ ६ ॥
सर्वेषां प्रकृतीनाञ्च पद्मनाभः सुखावहः ।
दामोदरः सौख्यदः स्याद् (५) ब्रह्मचर्यैकदण्डिनोः ॥ ७ ॥
(६)हरिहरो हिरण्यगर्भो नारसिंहोऽथ वामनः ।
वराहः सर्ववर्णेषु सौख्यदो हितकारकः ॥ ८ ॥
──────────────────────────────────────────
(१) 'कलि-' इति स्यात् । (२) 'अर्चने शुभौ' इति स्यात् । (३) 'श्रैधरी' इति
स्यात् । (४) '-चक्रिक-' इति स्यात् । (५) 'ब्रह्मचार्येक-' इति स्यात् । (६) 'हरि-
र्हिरण्यगर्भश्च' इति स्यात् ।
१४ रूपमण्डने
[ वासुदेवः ]
वासुदेवो (१)गदां शङ्खं चक्रपद्मघरो मतः ।
[ केशवः ]
केशवः कमलं कम्बु धत्ते चक्रं गदामपि ॥ ९ ॥
[ नारायणः ]
नारायणः कम्बु(२)पलगदाचक्रधरो भवेत् ।
[ माधवः ]
माधवस्तु गदां चक्रं शङ्खं वहति पङ्कजम् ॥ १० ॥
[ पुरुषोत्तमः ]
पुरुषोत्तमस्तु चक्रं पद्मं शङ्खं गदां दधत् ।
[ अधोक्षजः ]
अधोक्षजः सरसिजं गदां शङ्खं सुदर्शनम् ॥ ११ ॥
[ सङ्कर्षणः ]
सङ्कर्षणो (३) गदां कम्बुसरसीरुहचक्रभृत् ।
[ गोविन्दः ]
गोविन्दो धरते चक्रं गदां पद्मं च कम्बुना ॥ १२ ॥
[ विष्णुः ]
विष्णुः कौमोदकीं पद्मं पाञ्चजन्यं सुदर्शनम् ।
[ मधुसूदनः ]
मधुसूदनस्तु चक्रं शङ्खं सरसिजं गदाम् ॥ १३ ॥
[ अच्युतः ]
अच्युतस्तु गदापद्मचक्रशङ्खैः समन्वितः ।
[ उपेन्द्रः ]
उपेन्द्रो वहते शङ्खं गदां चक्रं कुशेशयम् ॥ १४ ॥
(१) ‘गदा-शङ्ख-चक्र-पद्म-’ इति स्यात् । (२) ‘-पद्म-’ इति स्यात् । (३) ‘गदा-
कम्बु-’ इति स्यात् ।
तृतीयोऽध्यायः १५
[ प्रद्युम्नः ]
प्रद्युम्नश्च (१)चक्रशङ्खं गदाम्भोजानि पाणिभिः ।
[ त्रिविक्रमः ]
त्रिविक्रमस्त्रिषु गदाचक्रशङ्खान् बिभर्त्ति यः ॥ १५ ॥
[ नरसिंहः ]
नरसिंहस्तु चक्राब्जगदाकम्बुविराजितः ।
[ जनार्दनः ]
जनार्दनोऽम्बुजं चक्रं कम्बुं कौमोदकीं दधौ ॥ १६ ॥
[ वामनः ]
वामनस्तु शङ्खचक्रगदापद्मलसत्करः ।
[ श्रीधरः ]
श्रीधरो वारिजं चक्रं गदाशङ्खं दधाति च ॥ १७ ॥
[ अनिरुद्धः ]
अनिरुद्धो लसच्चक्रगदाशङ्खारविन्दवान् ।
[ हृषीकेशः ]
हृषीकेशो गदां चक्रं पद्मशङ्खं च धारयन् ॥ १८ ॥
[ पद्मनाभः ]
पद्मनाभः पाञ्चजन्यं पद्मं चक्रं गदामपि ।
[ दामोदरः ]
दामोदरोऽम्बुजं शङ्खं गदां धत्ते सुदर्शनम् ॥ १९ ॥
[ हरिः ]
हरिर्धारयते कम्बुं चक्रं पद्मं तथा गदाम् ।
[ कृष्णः ]
कृष्णः करैः पाञ्चजन्यं गदां पद्मं सुदर्शनम् ॥ २० ॥
एताः सुमूर्त्तयो ज्ञेया दक्षिणाधःकरक्रमात् ।
(वासुदेवादिर्वाणाः स्युः षंडेते तददादयः ?) ॥ २१ ॥
(१) 'चक्रशङ्खगदाम्भोजानि' इति स्यात् ।
१६ रूपमण्डने
सकृष्णः कार्त्तिकेयोऽब्जशक्तिखेटककम्बुभिः ।
गरुडध्वजस्तार्क्ष्यस्थोऽब्जशङ्खध्वजचिह्नवान् ॥ २२ ॥
जयन्तोऽक्षचक्रदण्डपद्मैर्वादित्रसंवृतः ।
गोवर्धनो लसचक्रशङ्खपद्मैर्गदां (१)हि तत् ॥ २३ ॥
इति श्रीहरेश्चतुर्विंशतिमूर्त्तयः ।
मत्स्यकूर्मी स्वस्वरूपौ नृवराहो गदाम्बुजम् ।
(२) बिभृत्स्यामो वराहास्यो दंष्ट्राग्रे तु धृता धरा ॥ २४ ॥
[ इति मत्स्यकूर्मवराहाः ]
नृसिंहः सिंहवक्त्रोऽतिदंष्ट्रालः कुटिलोरुकः ।
हिरण्योरस्थलासक्तविदारणकरद्वयः ॥ २५ ॥
[ इति नृसिंहः ]
वामनः सशिखः श्यामो दण्डी (३)पीताम्बुपात्रवान् ।
(४) जटीलीनधरो रामो भार्गवः परशुं दधत् ॥ २६ ॥
[ इति वामनपरशुरामौ ]
रामः शरेषुधृक् श्यामः सशीरमुशलो बलः ।
[ इति रामबलरामौ ]
(५) बद्धपद्मासनो रक्तस्त्यक्ताभरणमूर्धजः ॥ २७ ॥
कषायवस्त्रो ध्यानस्थो द्विभुजोऽङ्कोर्ध्वपाणिकः ।
[ इति बुद्धः ]
कल्की सखड्गोऽश्वारूढो हरेरवतरा इमे ॥ २८ ॥
[ इति कल्की ]
इति दशावताराः।
(६)सुप्तरूपं शेषतल्पे (७)दक्षो दण्डभुजोऽस्य तु ।
शिरोधरो वा वामस्तु सपुष्पोऽयं जलेशयः ॥ २९ ॥
(१) ‘दधत्’ इति स्यात् । (२) ‘विभ्रन् श्यामो’ इति स्यात् । (३) ‘छत्राम्बु-
पात्रवान्’ इति स्यात् । (४) ‘जटी बाणधरो’ इति स्यात् । (५) ‘बुद्धः पद्मासनो’ इति
स्यात् । (६) ‘सुप्तरूपः’ इति स्यात् । (७) ‘दक्षे दण्डो भुजेऽस्य तु’ इति स्यात् ।
तृतीयोऽध्यायः १७
तन्नाभिपङ्कजे धाता ( श्रीभूमिवशिरोन्थिगे ? ) ।
निध्यक्षादिस्वरूपाणि पार्श्वयोर्मधुकैटभौ ॥ ३० ॥
इति जलशयनः ।
अथ शालिग्रामपरीक्षा
[ पूज्यशिलालक्षणम् ]
नागभोगसमाकारा शिला सूक्ष्मा च या भवेत् ।
पूजनीया प्रयत्नेन स्थिरा स्निग्धा सुवर्तुला ॥ ३१ ॥
तत्राप्यामलकीमानात् सूक्ष्मा चातीव या भवेत् ।
तस्यामेव सदा कृष्णः श्रिया सह वसत्यसौ ॥ ३२ ॥
यथा यथा शिला सूक्ष्मा तथा तथा महत् फलम् ।
तस्मात्तां पूजयेन्नित्यं धर्मकामार्थमुक्तये ॥ ३३ ॥
[ त्याज्यशिलालक्षणम् ]
कपिला कर्बुरा भग्ना सूक्ष्मा(१)छिन्नाकुला च या ।
रेखाकुलाऽस्थिरा स्थूला बहुचक्रैकचक्रिका ॥ ३४ ॥
बृहन्मुखी बृहच्चक्रा बद्धचक्रा च या पुनः ।
(२)बद्धचक्राऽथ वा स्याद् भिन्नचक्रा त्वधोमुखी ॥ ३५ ॥
दग्धा सुरक्ता चापूज्या भीषणा पङ्क्तिचक्रिका ।
पूजयेद् यः प्रमादेन दुःखमेव लभेत् सदा ॥ ३६ ॥
[ तत्र मतान्तरम् ]
खण्डिता स्फुटिता भिन्ना पार्श्वभिन्ना प्रभेदिता ।
शालिग्रामसमुद्भूता शिला दोषावहा नहि ॥ ३७ ॥
[ वर्णभेदात् फलविशेषकथनम् ]
स्निग्धा सिद्धिकरी मुद्रा कृष्णा कीर्तिप्रदायका ।
पाण्डुरा पापदहना (३)पिता पुत्रप्रदायका ॥ ३८ ॥
नीला दिशति (४)लक्ष्मी च रक्तभोगप्रदायिनी ।
[ चक्रविशेषे वर्णभेदः ]
कपिलं नारसिंहञ्च वामनं (५)चातसन्निभम् ॥ ३९ ॥
(१) ‘छिद्राकुला’ इति स्यात् । ‘-च्छिन्नाकुला’ इति वा कथञ्चित् सङ्गच्छत एव ।
(२) ‘लग्नचक्राऽथ वा या स्याद्’ इति स्यात् । (३) ‘पीता’ इति स्यात् ।
(४) ‘लक्ष्मीं च रक्ता’ इति स्यात् । (५) ‘पीतसन्निभम्’ इति स्यात् ।
रूप—३
३८ रूपमण्डने
वासुदेवं सितं ज्ञेयं रक्तं सङ्कर्षणं मतम् ।
दामोदरं तु नीलाभमनिरुद्धं तथैव च ॥ ४० ॥
श्यामं नारायणं ज्ञेयं वैष्णवं कृष्णवर्णकम् ।
बहुवर्णमनन्ताख्यं श्रीधरं पीतमुच्यते ॥ ४१ ॥
[ उत्तमादिचक्रप्रमाणम् ]
वृत्त(१)सूत्रेऽष्टमो भाग उत्तमं (२)वक्तृलक्षणम् ।
मध्यमञ्च चतुर्भागं कनीयस्तु त्रिभागकम् ॥ ४२ ॥
[ त्रिचक्रलक्ष्मीनारायणः ]
लक्ष्मीनारायणो देवस्त्रिभिश्चक्रैर्व्यवस्थितः ।
पूजनीयः प्रयत्नेन भुक्तिमुक्तिफलप्रदः ॥ ४३ ॥
[ शालग्रामस्य प्रतिष्ठानिषेधः ]
अहं ब्रह्मादयो देवाः सर्वभूतानि केशवः ।
सदा सन्निहितस्तत्र प्रतिष्ठाकर्म नास्त्यतः ॥ ४४ ॥
[ शालग्रामप्रशंसा ]
शालग्रामशिलाग्रे तु यो जुहोति हुताशनम् ।
एकाहुतिर्हुता सम्यक् कल्पकोटिगुणोत्तरा ॥ ४५ ॥
इति शालिग्रामपरीक्षा ।
[ अथ मूर्त्तिविशेषाः ]
तार्क्ष्यो (३)मकङ्कतः पक्षः कौशिकाकारनासिकः ।
चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्तथा ॥ ४६ ॥
गृध्रोरुजानुचरणः पक्षद्वयविभूषितः ।
प्रभासंस्थानसौवर्णः कलापेन विभूषितः ॥ ४७ ॥
छत्रञ्च पूर्णकुम्भञ्च करयोस्तस्य कारयेत् ।
करद्वयञ्च कर्त्तव्यं तथा विरचिताञ्जलि ॥ ४८ ॥
नवतालः प्रकर्त्तव्यो गरुडो मानसूत्रतः ।
(४)पादजानुकटियांवदर्च्चायां वाहनस्य दृक् ॥ ४९ ॥
यदुश्च भगवान् पृष्ठे छत्रकुम्भधरौ करौ ।
किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः ॥ ५० ॥
(१) '-सूत्राष्टमो' इति स्यात् । (२) 'चक्र-' इति स्यात् । (३) 'मरकत-
प्रख्यः' इति स्यात् । (४) 'पादं जानु कटिं यावदर्चायां' इति स्यात् ।
तृतीयोऽध्यायः १६
(१)वामाग्रे कुञ्चितः पश्चादन्यपादस्तु जानुना ।
पृथिवीं संस्थितो यत्र गारुडं स्यात्तदासनम् ॥ ५१ ॥
इति (२)गारुडः ।
वैकुण्ठञ्च प्रवक्ष्यामि सोऽष्टबाहुर्महाबलः ।
तार्क्ष्यासनश्चतुर्वक्त्रः कर्त्तव्यः शान्तिमिच्छता ॥ ५२ ॥
गदां खड्गं चक्रशरं दक्षिणे च चतुष्टयम् ।
शङ्खं खेटं धनुः पद्मं वामे दद्याच्चतुष्टयम् ॥ ५३ ॥
अग्रतः पुरुषाकारं नारसिंहं च दक्षिणे ।
अपरं स्त्रीमुखाकारं वाराहास्यं तथोत्तरम् ॥ ५४ ॥
इति वैकुण्ठः ।
विंशत्या हस्तकैर्युक्तो विश्वरूपश्चतुर्मुखः ।
पताका हलशङ्खौ च वज्राङ्कुश(३)शरांस्तथा ॥ ५५ ॥,
चक्रञ्च (४)बीजपूरञ्च वरो दक्षिणबाहुषु ।
पताका दण्डपाशौ च गदाशार्ङ्गोत्पलानि च ।
शृङ्गी मुशलमक्षञ्च क्रमात् स्युर्वामबाहुषु ॥ ५६ ॥
हस्तद्वये योगमुद्रा वैनतेयोपरि स्थितः ।
क्रमान्नर-नृसिंह-स्त्री-वराह-मुखवन्मुखः ॥ ५७ ॥
इति (५)विश्वमुखः ।
अनन्तोऽनन्तरूपस्तु हस्तैर्द्वादशभिर्युतः ।
अनन्तशक्तिसंवीतो गरुडस्थश्चतुर्मुखः ॥ ५८ ॥
दक्षिणे तु गदाखड्गौ चक्रं वज्राङ्कुशौ शरः ।
शङ्खः खेटं धनुः पद्मं दण्डपाशौ च वामतः ॥ ५९ ॥
इत्यनन्तः ।
मुखानि पूर्ववत्तस्याप्यल त्रैलोक्यमोहनः ।
स षोडशभुजस्तार्क्ष्यारूढः प्राग्वच्चतुर्मुखैः ॥ ६० ॥
गदाचक्राङ्कुशौ (६)बाणं शक्तिश्चक्रं वरः क्रमात् ।
दक्षेषु मुद्गरः पाशः शार्ङ्गशङ्खाब्जकुण्डिका(ः) ॥ ६१ ॥
(१) 'वामोऽग्रे' इति स्यात् । (२) 'गरुडः' इति स्यात् । (३) '-शरास्तथा'
इति स्यात् । (४) 'बीजपूरश्च' इति स्यात् । (५) 'विश्वरूपः' इति स्यात् ।
(६) 'बाणः' इति स्यात् ।
२० रूपमण्डने
शृङ्गी वामेषु हस्तेषु योगमुद्रा (१)करद्वयम् ।
नरञ्च नारसिंहञ्च शूकरं कपिलाननम् ॥ ६२ ॥
इति त्रैलोक्यमोहनः ।
दक्षिणे पुण्डरीकाक्षः पूर्वे नारायणः स्मृतः ।
गोविन्दः पश्चिमे स्थाप्य उत्तरे मधुसूदनः ॥ ६३ ॥
ईशाने स्थापयेद् विष्णुमाग्नेय्यां तु जनार्दनम् ।
नैर्ऋत्ये पद्मनाभञ्च वायव्ये माधवं तथा ॥ ६४ ॥
केशवो मध्यतः स्थाप्यो वासुदेवोऽथवा बुधैः ।
सङ्कर्षणो वा प्रद्युम्नोऽनिरुद्धो वा यथाविधि ॥ ६५ ॥
दशावतारसंयुक्तः प्रोक्तो जलशयोऽथवा ।
अग्रतः शूकरः स्थाप्यः सर्वदेवमयः शुभः ॥ ६६ ॥
इति विष्ण्वायतनम् ।
प्रतिहारांस्ततो वक्ष्ये चतसृणां दिशां क्रमात् ।
वामनाकाररूपास्ते कर्तव्याः सर्वतः शुभाः ॥ ६७ ॥
(२)तर्जनी शङ्खचक्रे च चण्डो दण्डं दधत् क्रमात् ।
वामे स्थाने प्रचण्डोऽस्यापसव्ये दक्षिणे शुभः ॥ ६८ ॥
पद्मं खड्गं खेटकञ्च क्रमाद् बिभ्रद् गदां (३)च यः ।
(४)विलोमे पद्मगदयोर्विजयस्तौ (५)क्रमाल्लिखेन्न्यसेत् ॥ ६९ ॥
(६)तर्जनी बाणचापौ च गदां धाता च सृष्टितः ।
(७)मुदापसव्ये तैरस्त्रैर्विधाता वाम-दक्षयोः ॥ ७० ॥
तर्जनीकमलं शङ्खं गदां भद्रः क्रमाद् दधत् ।
(८)शस्त्रापसव्ययोगेन सुभद्रस्तौ क्रमान्न्यसेत् ॥ ७१ ॥
इति विष्णुप्रतीहाराः ।
इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे रूपमण्डने
विष्णुमू(र्त्या?र्त्त्य)धिकारस्तृतीयोऽध्यायः ॥ ३ ॥
(१) 'करद्वये' इति स्यात् । (२) 'तर्जनीं' इति स्यात् । (३) 'जयः' इति
स्यात् । (४) 'विलोमैः' इति स्यात् । (५) 'क्रमाल्लिखेत्' इति 'क्रमान्न्यसेत्'
इति वा स्यात् । (६) 'तर्जनीं' इति स्यात् । (७) 'सव्येऽपसव्ये' इति स्यात् ।
(८) 'सव्यापसव्य-' इति स्यात् ।
[ शिवमूर्त्तिशिवलिङ्गलक्षणाधिकाराख्यः ]
चतुर्थोऽध्यायः
अथ शिवमूर्त्तयः
[ द्वादश शिवमूर्त्तयः ]
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् ।
जटाभारयुतं कुर्याद् बालेन्दुकृतशेखरम् ॥ १ ॥
त्रिलोचनं सौम्यमुखं कुण्डलाभ्यामलङ्कृतम् ।
सद्योजातं महोत्साहं वरदाभयपाणिनम् ॥ २ ॥
इति सद्योजातः [१] ।
रक्ताम्बरधरं देवं रक्तयज्ञोपवीतिनम् ।
रक्तोष्णीषं रक्तनेत्रं रक्तमाल्यानुलेपनम् ॥ ३ ॥
जटाचन्द्रधरं कुर्यात्त्रिनेत्रं तुङ्गनासिकम् ।
वामदेवं महाबाहुं खड्गखेटकधारिणम् ॥ ४ ॥
इति वामदेवः [२] ।
दंष्ट्राकरालवदनं सर्पशीर्षं त्रिलोचनम् ।
रुण्डमालाधरं देवं सर्पकुण्डलमण्डितम् ॥ ५ ॥
भुजङ्गकेयूरधरं सर्पहारोपवीतिनम् ।
योनसं(?) कटिसूत्रेण गले वृश्चिकमालिकम् ॥ ६ ॥
नीलोत्पलदलश्याममतसीपुष्पसन्निभम् ।
पिङ्गभ्रूपिङ्गजटिलं शशाङ्ककृतशेखरम् ॥ ७ ॥
(१)तक्षकं मुष्टिकञ्चैव पादयोस्तस्य नूपुरौ ।
अघोररूपकं कुर्यात् कालरूपमिवापरम् ॥ ८ ॥
(१) 'तक्षको मुष्टिकश्चैव' इति स्यात् ।
⌜२२ रूपमण्डने
महावीर्यं महोत्साहमष्टबाहुं महाबलम् ।
शमयन्तं रिपोः (१) संघं निवेशो यल भूतले ॥ ९ ॥
खट्वाङ्गञ्च कपालञ्च खेटकं पात्रमेव च ।
वामहस्तेषु कर्तव्यमेतच्छस्त्रचतुष्टयम् ॥ १० ॥
त्रिशूलं परशुः (२) खड्गं दण्डश्चैवारिमर्दनः ।
शस्त्राण्येतानि चत्वारि दक्षिणेषु करेषु च ॥ ११ ॥
इत्यघोरः [३] ।
पीताम्बरस्तत्पुरुषः पीतयज्ञोपवीतवान् ।
मातुलिङ्गं करे वामेऽक्षमाला दक्षिणे तथा ॥ १२ ॥
इति तत्पुरुषः [४] ।
(३)शुद्धः स्फटिकसंकाशो जटाचन्द्रविभूषितः ।
(४)अक्षस्त्रिशूलहस्तौ च कपालं वामतः शुभम् ॥ १३ ॥*
[ इतीशः ५ ]
कपालमालि-सुश्वेतं शशाङ्ककृतशेखरम् ।
व्याघ्रचर्मधरं मृत्युञ्जयं नागेन्द्रभूषितम् ॥ १४ ॥
त्रिशूलं चाक्षमाला च दक्षयोः करयोः स्मृतौ ।
कपालं कुण्डिका वामे योगमुद्रा (५)करद्वयम् ॥ १५ ॥
इति मृत्युञ्जयः [६] ।
चतुर्भुजो महाबाहुः शुक्लपादाक्षिपाणिकः ।
पुस्तकाभयहस्तोऽसौ (६)सच काक्षस्त्रिलोचनः ॥ १६ ॥
इति किरणाक्षः [७] ।
(१) 'सङ्गं' इति स्यात् । (२) 'खड्गो' इति स्यात् । (३) 'शुद्धस्फटिक-'
इति स्यात् । (४) 'व्यक्षस्त्रिशूलहस्तश्च' इति, 'दक्षे त्रिशूलं हस्ते च' इति वा स्यात् ।
(५) 'करद्वये' इति स्यात् । (६) 'स-चक्राक्ष-' इति ['किरणाक्ष-' इति वा ?] स्यात् ।
- पद्यमिदं मूर्त्यन्तरस्य लक्षकं न तु मृत्युञ्जयमूर्तेः, द्विरायुधनिर्देशात् । भवति
च मृत्युञ्जयलक्षकत्वेन भ्रान्तिरन्तरा पुष्पिकान्तरविरहात् । देवतामूर्त्तौ 'ईश'लक्षणत्वेनेदं
निर्दिष्टम् (देव० ६।१४) ; तदनुगत्याऽस्माभिरपि पुष्पिकैका कल्पिता ; एवञ्चाग्रे
'इति द्वादश रुद्रा' इति पुष्पिकाऽपि नानृतभाषिणी स्यात् ।
चतुर्थोऽध्यायः २३
चित्रवस्त्रधरं कुर्याच्चित्रयज्ञोपवीतिनम् ।
चित्ररूपं महेशानं चित्रैश्वर्यसमन्वितम् ॥ १७ ॥
चतुर्बाहुं चैक(१)वस्त्रं सर्वालङ्कारभूषितम् ।
खड्गं धनुः शरं खेटं श्रीकण्ठं बिभ्रतं भुजैः ॥ १८ ॥
इति श्रीकण्ठस्वरूपम् [८] ।
अहिर्बुध्नो गदासर्पं चक्रं डमरु-मुद्गरौ ।
शूलाङ्कुशाक्ष(२)माला च दक्षोर्ध्वाधःक्रमाद्दधत् ॥ १९ ॥
तोमरं पट्टिशं चर्म कपालं तर्जनीघटौ ।
(३)शक्तिः परशुकं वामहस्ते सन्धारयत्यसौ ॥ २० ॥
इत्यहिर्बुध्नः [९] ।
विरूपाक्षस्ततः खड्गं शूलं डमरुमङ्कुशम् ।
सर्पञ्चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टकैः ॥ २१ ॥
खेटं खट्वाङ्गशक्तिञ्च परशुं तर्जनीघटम् ।
घण्टाकपालकं चेति वामोर्ध्वादिकराष्टकैः ॥ २२ ॥
इति विरूपाक्षः [१०] ।
बहुरूपो दधद् दक्षे डमरुं च सुदर्शनम् ।
सर्पं शूलाङ्कुशौ कुम्भं कौमुदीजपमालिकाम् ॥ २३ ॥
घण्टाकपालखट्वाङ्गतर्जनीकुण्डिकां धनुः ।
परशुं (४)पट्टिकं चेति वामोर्ध्वादिक्रमेण हि ॥ २४ ॥
इति बहुरूपी सदाशिवः [११] ।
त्र्यम्बकोऽथ दधच्चक्रं डमरुं मुद्गरं शरम् ।
(५)शूलाङ्कुशान्यक्षसूत्रं दक्षोर्ध्वादिक्रमेण हि ॥ २५ ॥
(१) '-वक्त्रं' इति स्यात् । (२) '-मालाश्च' इति स्यात् । (३) 'शक्तिं'
इति स्यात् । (४) 'पट्टिशं' इति स्यात् । (५) 'शूलाङ्कुशावक्षसूत्रं' इति स्यात् ।
२४ रूपमण्डने
गदाखट्वाङ्गपालाणि कार्मुकं तर्जनीघटौ ।
परशुं पट्टिशं चेति (१)वामार्धादिकराष्टके ॥ २६ ॥
इति त्र्यम्बकः [१२] ।
इति द्वादश रुद्राः ।
उमामहेश्वरं वक्ष्ये उमया सह शङ्करः ।
(२)मातुलिङ्गं त्रिशूलञ्च धरते दक्षिणे करे ॥ २७ ॥
आलिङ्गितो वामहस्ते (३)नागेन्द्रं द्वितीये करे ।
हरस्कन्ध उमाहस्ते दर्पणो द्वितीये करे ॥ २८ ॥
अधस्ताद् वृषभं कुर्यात् कुमारञ्च गणेश्वरम् ।
भृङ्गिरीटं तथा(४)कुर्यान्निर्मंसिन्नृत्यसंस्थितम् ॥ २९ ॥
इति उमामहेश्वरः ।
कार्यो (५)हरिहरस्यापि दक्षिणार्धे शिवः सदा ।
हृषीकेशश्च वामार्धे श्वेतनीलाकृती क्रमात् ॥ ३० ॥
वरं त्रिशूलचक्राब्जधारिणो बाहुकाः क्रमात् ।
दक्षिणे वृषभः पार्श्वे वामे विहगराडिति ॥ ३१ ॥
इति हरिहरमूर्त्तिः ।
एकपीठसमारूढमेकदेहनिवासिनम् ।
षड्भुजञ्च चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥ ३२ ॥
अक्षमालां त्रिशूलञ्च गदां कुर्याच्च दक्षिणे ।
कमण्डलुञ्च खट्वाङ्गं चक्रं वामभुजे तथा ॥ ३३ ॥
इति हरपितामहः ।
उमाञ्च द्विभुजां (६)कुर्याल्लक्ष्मीर्नारायणाश्रिता ।
देवं शस्त्रैः स्वकीयैश्च गरुडोपरि संस्थितम् ॥ ३४ ॥
(१) 'वामोर्ध्वादि-' इति स्यात् । (२) 'मातुलुङ्गं' इति स्यात् । (३) 'नागेन्द्रो'
इति स्यात् । (४) 'कुर्यान्निर्मांसं नृत्य-' इति स्यात् । (५) 'हरिहरश्चापि' इति
स्यात् । (६) 'कुर्याल्लक्ष्मीं नारायणाश्रिताम्' इति स्यात् ।
॥ ४२ ॥`
All clear.
Line 22:
ताम्रजं पुष्परागस्य स्फटिकस्य तु (७)राजितम् ।
Footnote (७): (७) 'राजतम्' इति स्यात् ।
Text has (७)राजितम् ।
Line 23:
ताम्रजं मौक्तिकस्यापि शेषाणां हेमजं मतम् ॥ ४३ ॥
All clear.
Line 24:
[ इति पीठविधिः ]
All clear.
Let's check the footnotes at the bottom:
Divider line:
────────────────────────────────────────
(१) 'रजतञ्चैव राज्यदम्' इति स्यात् । (२) 'राङ्गं ताम्रमायुःप्रवर्धनम्' इत्याकरे ।
(३) 'विद्वेष-' इति स्यात् । (४) 'वंशकृल्लिङ्ग-' इति स्यात् । (५) 'रिपु-' इति
स्यात् । (६) '-वहम्' इति स्यात् । (७) 'राजतम्' इति स्यात् ।
रूप—४
Wait, let's verify footnote (२):
(२) 'राङ्गं ताम्रमायुःप्रवर्धनम्' इत्याकरे ।
Yes, perfectly matches!
Wait, let's verify footnote
२६ रूपमण्डने
समस्तमणिजातीनां (१)दीप्तसान्निध्यकारकम् ।
( मनोन्मानं प्रमाणानि तेषु ग्राह्यं नवाम्बुदैः ? ) ॥ ४४ ॥*
[ इति लिङ्गोचिता मणयः ]
शैलेयं भोगदं लिङ्गं मृन्मयं सर्वकामदम् ।
दारुजं वसुसिद्ध्यर्थं सर्वमेतच्चलाचलम् ॥ ४५ ॥
[ इति चलाचललिङ्गम् ]
एकाङ्गुलादिपञ्चान्तं चललिङ्गञ्च कन्यसम् ।
षट्पर्वादिदशान्तञ्च मध्यमेकादशादितः ॥ ४६ ॥
[ इति चललिङ्गम् ]
नैकहस्तादधो(२)वाद्यं प्रासादे स्थिरतां नयेत् ।
स्थिरं तत् स्थापयेद् गेहे (३)गृण्यां हे दूरकृद् यतः ॥ ४७ ॥
[ इति स्थिरलिङ्गम् ]
(४)वाणलक्षणहीनेऽपि यत्न वै रोचते मनः ।
तत्र पूजां प्रकुर्वीत धर्मकामार्थमोक्षदम् ॥ ४८ ॥
[ इति लक्षणादिहीनस्यापि पूज्यत्वम् ]
रत्नमेकाङ्गुलं लिङ्गमङ्गुलाङ्गुलवृद्धितः ।
नवान्तं नवलिङ्गञ्च वृद्धिर्वा मुद्गमानिका ॥ ४९ ॥
[ इति रत्नलिङ्गमानम् ]
धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् ।
त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ ५० ॥
[ इति धातुलिङ्गमानम् ]
दृढकाष्ठमयं लिङ्गं कर्तव्यं षोडशाङ्गुलम् ।
षोडशाङ्गुलिका वृद्धिः षट्करान्तं नवैव हि ॥ ५१ ॥
[ इति दारुवलिङ्गमानम् ]
(१) ‘दीप्तिः सान्निध्यकारणम्’ इति स्यात् । (२) ‘लिङ्गं’ इति स्यात् ।
(३) ‘गृहांहोदूरकृद्’ इति स्यात् । (४) ‘वर्ण-’ इति स्यात् ।
- अत्राऽऽदर्श चतुश्चत्वारिंशसंख्याबोधकोऽङ्को नोपलभ्यते, तत्संख्याकः श्लोकः
पतितो न वेति चिन्तनीयम् । अस्माभिस्तु यथाक्रममेवाङ्का निवेशिताः ।
चतुर्थोऽध्यायः २७
हस्तादिनवहस्तान्तं शैलं लिङ्गं विधीयते ।
हस्तवृद्ध्या नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ ५२ ॥
[ इति शैललिङ्गमानम् ]
मृद्दारुलोहशैलानां दैर्घ्ये भक्ते जिनांशकैः [२४] ।
कुर्यात् षट्सार्धसप्ताष्टनवांशै(१)स्तरं शुभम् ॥ ५३ ॥
[ इति लिङ्गमानम् ]
श्रीपर्णी (२)शिंशपाशोकशिरीषः (३)खादिनोऽर्जुनः ।
चन्दनः श्रीफलो निम्बो रक्तचन्दनबीजकौ ॥ ५४ ॥
कर्पूरो देवदारुश्च चन्दनः पारिजातकः ।
चम्पको मधुवृक्षश्च हिन्तालश्चागुरुः शुभाः ॥ ५५ ॥
[ इति लिङ्गवृक्षाः ]
(४)निर्व्रणाः × × × सर्वे लिङ्गार्थे सौख्यदायकाः ।
ग्रन्थिकोटरसंयुक्तान् शाखोद्भूतान् परित्यजेत् ॥ ५६ ॥
[ इति वृक्षलक्षणम् ]
निलयं दारुलिङ्गानामिष्टकादारुजं शुभम् ।
शैलजं धातुरत्नानां स्वरूपं चाधिकं शुभम् ॥ ५७ ॥
[ इति दार्वादिलिङ्गोचिताः प्रासादाः ]
धातुजे रत्नजे बाणे दारुजे च स्वयम्भुवि ।
(५)गृह्नूनाधिकं वाऽपि (६)वक्तृलिङ्गिषु पार्थिवः ॥ ५८ ॥
हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये ।
(७)ज्येष्ठलिङ्गे तु वेदांशं षट्त्रिंशं नवहस्तकम् ॥ ५९ ॥
पञ्चादिभूतवेदांशे प्रासादे हस्तसंख्यया ।
मध्यमं पञ्चमांशेन हस्तादिनवहस्तकम् ॥ ६० ॥
(१) '-र्विस्तरं' इति स्यात् । (२) 'शिंशपाऽशोकः' 'शिशुकाऽशोकः' इति वा
स्यात् । (३) 'खादिरो-' इति स्यात् । (४) 'निर्व्रणाः' इत्यनन्तरं 'सुदृढा' इति
त्रुटितं स्यात् । (५) 'गृहं न्यूनाधिकं' इति स्यात् । (६) 'वक्त्रलिङ्गेषु पार्थिवे'
इति स्यात् । (७) 'ज्येष्ठलिङ्गन्तु वेदांशे षट्त्रिंशे' इति स्यात् ।
२८ रूपमण्डने
(कृत्वादियुगल्त्वान्तं ?) हस्तसंख्ये शिवालये ।
षष्ठांशेन प्रकर्त्तव्यं हस्तादिनवहस्तकम् ॥ ६१ ॥
(१) कनिष्ठाज्येष्ठलिङ्गेषु मध्यममध्यमेषु च ।
प्रासादाः कन्यसे ज्येष्ठाः सीमामानमिदं स्मृतम् ॥ ६२ ॥
गर्भे पञ्चांशके ल्यंशो ज्येष्ठलिङ्गं तु मध्यमम् ।
नवांशं पञ्चभागं स्याद् गर्भार्धं कन्यसोदयम् ॥ ६३ ॥
[ इति प्रासादमानेन लिङ्गमानम् ]
पद्मं शङ्खो ध्वजा छत्रं (२) खड्गशक्तिरुचामरे ।
वज्रं (३)दण्डोर्ध्वभागञ्च चक्रं मत्स्यौ घटः शुभः ॥ ६४ ॥
सौख्यदं चिह्न(४)मित्याद्यामावर्त्तो दक्षिणेऽपि यः ।
श्वेतरक्ता पीतकृष्णा रेखा वर्णेषु सौख्यदा ॥ ६५ ॥
[ इति लिङ्गे शुभचिह्नानि ]
ब्रह्मांशश्चतुरस्रोऽधो मध्येऽष्टास्रस्तु वैष्णवः ।
पूजाभागः सुवृत्त(:) स्यात् पीठोर्ध्वं शङ्करस्य च ॥ ६६ ॥
[ इति लिङ्गे ब्रह्मादिभागाः ]
पूजायामे कलांशे च (५)लिङ्गचित्रं दशांशकैः ।
पीठस्यार्धे द्विभागे च रेखा कार्या प्रदक्षिणे ॥ ६७ ॥
(मस्तकं मानमध्ये तु बाह्येऽङ्गे राष्ट्रविभ्रमः ।?)
(६)छत्राभमष्टमांशेन (७)सार्धे द्वयंशषडङ्गके ॥ ६८ ॥
त्रपुषाभं विस्तारार्धं कुक्कुटाण्डं शिरो मतम् ।
त्रिभागे लिङ्गविस्तारे एकांशोनार्धचन्द्रकम् ॥ ६९ ॥
सार्धव्यंशेन तुल्यं स्यादष्टांशे बुद्बुदाकृति(?): ।
ऊर्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् ॥ ७० ॥
[ इति लिङ्गस्योर्ध्वादिभागाः ]
(१) 'कनिष्ठ-' इति स्यात् । (२) 'खड्गः' इति स्यात् । (३) 'दण्डोऽर्ध-चन्द्रश्च' इत्यन्यत्र । (४) '-मित्याद्यमावर्त्तो' इति स्यात् । (५) 'लिङ्गं चिह्नं' इति स्यात् । (६) 'छत्राभमि'ति स्यात् । (७) 'सार्धद्व्यंशे षडंशके' इति स्यात् ।
चतुर्थोऽध्यायः २६
दीर्घे वा सन्धिरेखाभिर्युक्तकाकपदाकृति(:?) ।
लिङ्गं नान्याश्रितं लिङ्गमाश्रिताः सर्वदेवताः ।
स्थापयेन्मुख्यदेवस्य (१)स्कन्दमेढ्रान्तरे सुरान् ॥ ७१ ॥
इति घटितरत्नलिङ्गलक्षणम् ।
वाराणस्यां प्रयागे च गङ्गायाः सङ्गमेषु च ।
कुरुक्षेत्रे सरस्वत्यां बाणलिङ्गं सुखावहम् ॥ ७२ ॥
यानि वै नर्मदायाञ्च अन्तर्वेद्याञ्च सङ्गमे ।
केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ ७३ ॥
[ इति बाणोत्पत्तिस्थानम् ]
त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते ।
तदा बाणः समाख्यातः शेषं पाषाणसम्भवम् ॥ ७४ ॥
[ इति बाणपरीक्षा ]
स्थूलं (२)खण्डञ्च दीर्घञ्च स्फुटितं छिद्रसंयुतम् ।
बिन्दुयुक्तं च शूलाग्रं कृष्णं च चिपिटं तथा ॥ ७५ ॥
(३)चक्रञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् ।
वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ ७६ ॥
[ इति वर्ज्यलिङ्गानि ]
ग्रन्थान्तरे ;—
महानदीसमुद्(४)भूतसिद्धक्षेत्रादिसम्भवम् ।
पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सुधीः ॥ ७७ ॥
सदोषं गुणसंयुक्तं बाणं पूज्यं हि नित्यशः ।
बलालक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ७८ ॥
(५) सर्वं व्रततपो दानं तीर्थे देवेषु यत् फलम् ।
तत् फलं कोटिगुणितं प्राप्यते लिङ्गपूजनात् ॥ ७९ ॥
(१) 'स्कन्ध-' इति स्यात् । (२) 'खर्वञ्च' इति स्यात् । (३) 'वक्रञ्च'
इति स्यात् । (४) '-भूतमि'ति स्यात् । (५) 'सर्वव्रततपोदानतीर्थदेवेषु' इति स्यात् ।