रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 302, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः २३
चित्रवस्त्रधरं कुर्याच्चित्रयज्ञोपवीतिनम् ।
चित्ररूपं महेशानं चित्रैश्वर्यसमन्वितम् ॥ १७ ॥
चतुर्बाहुं चैक(१)वस्त्रं सर्वालङ्कारभूषितम् ।
खड्गं धनुः शरं खेटं श्रीकण्ठं बिभ्रतं भुजैः ॥ १८ ॥
इति श्रीकण्ठस्वरूपम् [८] ।
अहिर्बुध्नो गदासर्पं चक्रं डमरु-मुद्गरौ ।
शूलाङ्कुशाक्ष(२)माला च दक्षोर्ध्वाधःक्रमाद्दधत् ॥ १९ ॥
तोमरं पट्टिशं चर्म कपालं तर्जनीघटौ ।
(३)शक्तिः परशुकं वामहस्ते सन्धारयत्यसौ ॥ २० ॥
इत्यहिर्बुध्नः [९] ।
विरूपाक्षस्ततः खड्गं शूलं डमरुमङ्कुशम् ।
सर्पञ्चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टकैः ॥ २१ ॥
खेटं खट्वाङ्गशक्तिञ्च परशुं तर्जनीघटम् ।
घण्टाकपालकं चेति वामोर्ध्वादिकराष्टकैः ॥ २२ ॥
इति विरूपाक्षः [१०] ।
बहुरूपो दधद् दक्षे डमरुं च सुदर्शनम् ।
सर्पं शूलाङ्कुशौ कुम्भं कौमुदीजपमालिकाम् ॥ २३ ॥
घण्टाकपालखट्वाङ्गतर्जनीकुण्डिकां धनुः ।
परशुं (४)पट्टिकं चेति वामोर्ध्वादिक्रमेण हि ॥ २४ ॥
इति बहुरूपी सदाशिवः [११] ।
त्र्यम्बकोऽथ दधच्चक्रं डमरुं मुद्गरं शरम् ।
(५)शूलाङ्कुशान्यक्षसूत्रं दक्षोर्ध्वादिक्रमेण हि ॥ २५ ॥
(१) '-वक्त्रं' इति स्यात् । (२) '-मालाश्च' इति स्यात् । (३) 'शक्तिं'
इति स्यात् । (४) 'पट्टिशं' इति स्यात् । (५) 'शूलाङ्कुशावक्षसूत्रं' इति स्यात् ।