सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 296, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 296

तृतीयोऽध्यायः १७
तन्नाभिपङ्कजे धाता ( श्रीभूमिवशिरोन्थिगे ? ) ।
निध्यक्षादिस्वरूपाणि पार्श्वयोर्मधुकैटभौ ॥ ३० ॥
इति जलशयनः ।
अथ शालिग्रामपरीक्षा
[ पूज्यशिलालक्षणम् ]
नागभोगसमाकारा शिला सूक्ष्मा च या भवेत् ।
पूजनीया प्रयत्नेन स्थिरा स्निग्धा सुवर्तुला ॥ ३१ ॥
तत्राप्यामलकीमानात् सूक्ष्मा चातीव या भवेत् ।
तस्यामेव सदा कृष्णः श्रिया सह वसत्यसौ ॥ ३२ ॥
यथा यथा शिला सूक्ष्मा तथा तथा महत् फलम् ।
तस्मात्तां पूजयेन्नित्यं धर्मकामार्थमुक्तये ॥ ३३ ॥
[ त्याज्यशिलालक्षणम् ]
कपिला कर्बुरा भग्ना सूक्ष्मा(१)छिन्नाकुला च या ।
रेखाकुलाऽस्थिरा स्थूला बहुचक्रैकचक्रिका ॥ ३४ ॥
बृहन्मुखी बृहच्चक्रा बद्धचक्रा च या पुनः ।
(२)बद्धचक्राऽथ वा स्याद् भिन्नचक्रा त्वधोमुखी ॥ ३५ ॥
दग्धा सुरक्ता चापूज्या भीषणा पङ्क्तिचक्रिका ।
पूजयेद् यः प्रमादेन दुःखमेव लभेत् सदा ॥ ३६ ॥
[ तत्र मतान्तरम् ]
खण्डिता स्फुटिता भिन्ना पार्श्वभिन्ना प्रभेदिता ।
शालिग्रामसमुद्भूता शिला दोषावहा नहि ॥ ३७ ॥
[ वर्णभेदात् फलविशेषकथनम् ]
स्निग्धा सिद्धिकरी मुद्रा कृष्णा कीर्तिप्रदायका ।
पाण्डुरा पापदहना (३)पिता पुत्रप्रदायका ॥ ३८ ॥
नीला दिशति (४)लक्ष्मी च रक्तभोगप्रदायिनी ।
[ चक्रविशेषे वर्णभेदः ]
कपिलं नारसिंहञ्च वामनं (५)चातसन्निभम् ॥ ३९ ॥
(१) ‘छिद्राकुला’ इति स्यात् । ‘-च्छिन्नाकुला’ इति वा कथञ्चित् सङ्गच्छत एव ।
(२) ‘लग्नचक्राऽथ वा या स्याद्’ इति स्यात् । (३) ‘पीता’ इति स्यात् ।
(४) ‘लक्ष्मीं च रक्ता’ इति स्यात् । (५) ‘पीतसन्निभम्’ इति स्यात् ।
रूप—३