रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 303, कुल 335 में से
संदर्भ में पढ़ें२४ रूपमण्डने
गदाखट्वाङ्गपालाणि कार्मुकं तर्जनीघटौ ।
परशुं पट्टिशं चेति (१)वामार्धादिकराष्टके ॥ २६ ॥
इति त्र्यम्बकः [१२] ।
इति द्वादश रुद्राः ।
उमामहेश्वरं वक्ष्ये उमया सह शङ्करः ।
(२)मातुलिङ्गं त्रिशूलञ्च धरते दक्षिणे करे ॥ २७ ॥
आलिङ्गितो वामहस्ते (३)नागेन्द्रं द्वितीये करे ।
हरस्कन्ध उमाहस्ते दर्पणो द्वितीये करे ॥ २८ ॥
अधस्ताद् वृषभं कुर्यात् कुमारञ्च गणेश्वरम् ।
भृङ्गिरीटं तथा(४)कुर्यान्निर्मंसिन्नृत्यसंस्थितम् ॥ २९ ॥
इति उमामहेश्वरः ।
कार्यो (५)हरिहरस्यापि दक्षिणार्धे शिवः सदा ।
हृषीकेशश्च वामार्धे श्वेतनीलाकृती क्रमात् ॥ ३० ॥
वरं त्रिशूलचक्राब्जधारिणो बाहुकाः क्रमात् ।
दक्षिणे वृषभः पार्श्वे वामे विहगराडिति ॥ ३१ ॥
इति हरिहरमूर्त्तिः ।
एकपीठसमारूढमेकदेहनिवासिनम् ।
षड्भुजञ्च चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥ ३२ ॥
अक्षमालां त्रिशूलञ्च गदां कुर्याच्च दक्षिणे ।
कमण्डलुञ्च खट्वाङ्गं चक्रं वामभुजे तथा ॥ ३३ ॥
इति हरपितामहः ।
उमाञ्च द्विभुजां (६)कुर्याल्लक्ष्मीर्नारायणाश्रिता ।
देवं शस्त्रैः स्वकीयैश्च गरुडोपरि संस्थितम् ॥ ३४ ॥
(१) 'वामोर्ध्वादि-' इति स्यात् । (२) 'मातुलुङ्गं' इति स्यात् । (३) 'नागेन्द्रो'
इति स्यात् । (४) 'कुर्यान्निर्मांसं नृत्य-' इति स्यात् । (५) 'हरिहरश्चापि' इति
स्यात् । (६) 'कुर्याल्लक्ष्मीं नारायणाश्रिताम्' इति स्यात् ।