रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
मातुलिङ्गं गदाबाणं शक्तिः पाशं धनुस्तथा ।
पद्मं च नकुलं चेति दक्षिणाधःकरक्रमात् ॥ ५६ ॥
[ इति वरुणः २० ]
वरदन्ता गौरवर्णा सिंहारूढा सुशोभना ।
वरदं चाक्षसूत्रं त्रिशूलं च बीजपूरकम् ॥ ५७ ॥
[ इति वरदन्ता २० ]
भृकुटि(नेंमि ? र्नमि)नाथस्य पीतस्त्र्यक्षश्चतुर्मुखः ।
वृषवाहो मातुलिङ्गं शक्तिश्च मुद्गराभयौ ॥ ५८ ॥
[ इति भृकुटिः २१ ]
अक्षं वज्रं परशुलं नकुलं ( माथातस्तु? ) ।
गान्धारी वरखड्गं खेटं लुङ्गं हंसारूढा सिता
( प्रोक्तकायो ? ) ॥ ५६ ॥
[ इति गान्धारी २१ ]
नेमिनाथस्य गोमेधो नर(स्थास्रिमूषर ? स्थस्त्रिमुखः) सितः ।
बीजपूरं पर्शु चक्रं शक्तिशूलं च नाकुलम् ॥ ६० ॥
[ इति गोमेधः २२ ]
सिंहारूढाऽम्बिका(याश्च लुं वीर्नागयाकुलम् ? ) ।
अङ्कुशं च तथा (पु?पवं) त(था?स्या) हस्तेषु कारयेत् ॥६१॥
[ इति अम्बिका २२ ]
५९ । अक्षमिति । अर्धमिदं किं भृकुटेरायुधप्रतिपादनपरमाहो गान्धार्या इति न
निश्चिनुमः । द्वाभ्यां द्वाभ्यामर्धाभ्यामेकैकस्य लक्षणसमाप्तिरित्यस्मिन् प्रकरणे दृश्यते,
तत्क्रमादरे तु गान्धार्या आयुधप्रतिपादनपरमिदमर्धमिति भवति ।
अक्षवज्रपरशुनकुलं(मथातुस्तु ?) गान्धारी यक्षिणी ।
वरखड्गखेटलुङ्गं हंसारूढा(स्सिता कायो?) ॥
इति रूपावतारे एतन्मतप्रतिपादकम् अपरित्यक्तमूलदोषविषमं पद्यम् ।
६१। 'सिंहारूढाम्बि(क?का)का(यं?यीं) उमनागपाशकम्' इति रूपावतारपाठपर्या-
लोचनया 'सिंहारूढाम्बिका मातुलिङ्गञ्च नागपाशकम्' इति पूर्वार्धे पाठः सम्भाव्यते ।
१४२ देवतामूर्त्तिप्रकरणम्
पार्श्वः श्रीपार्श्वनाथस्य कूर्मारूढो गजाननः ।
बीजपूरोरगं नागं नकुलं श्यामवर्णभृत् ॥ ६२ ॥
[ इति पार्श्वः २३ ]
पद्मावती रक्तवर्णा (कुकुं?कुक्कु)टस्था चतुर्भुजा ।
पद्मं पाशाङ्कुशं बीजपूरं हस्तेषु कारयेत् ॥ ६३ ॥
[ इति पद्मावती २३ ]
महावीरस्य मातङ्गः श्यामः स्याद् गजवाहनः ।
दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ ६४ ॥
[ इति मातङ्गः २४ ]
सिद्धायका नीलवर्णा सिंहारूढा चतुर्भुजा ।
पुस्तकं चाभयं चैव बाणं स्यान्मातुलिङ्गकम् ॥ ६५ ॥
[ इति सिद्धायका २४ ]
[ इति जिनानां यक्षयक्षिणीमूर्त्तयः ]
अथ द्वितीयभेदेन चक्रे ( श्वरी )
द्वादशभुजाष्टचक्रे वज्रयोर्द्वयमेव च ।
मातुलिङ्गाभयं चैव पद्मस्था ग(रलो ? रुडो)परि ॥ ६६ ॥
कैलासमोशरणाब्जसिद्धावर्त्तिसदाशिवम् ।
सिंहासनं धर्मचक्रमुपरीह छललयम् ॥ ६७ ॥
६६ । एतेषां जिनानां शासनदेवतानाञ्च मध्ये चत्वारो मुख्या इति रूपमण्डनपर्या-
लोचनया प्राप्यते । तथा च रूपमण्डने—
जिनस्य मूर्त्तयोऽनन्ताः पूजिताः ( सौख्यसर्व ? सर्वसौख्य )दा ।
चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥
श्रीआदिनाथो नेमिश्च ( पर्वे ? पार्श्वो ) वीर (चतु ? श्रुतु)र्थकः ।
चक्रे ( चर्या ? श्वर्य )म्बिका पद्मावती सिद्धायकेति च ॥
इति ( अ० ६, श्लो० २५-२६ ) ।
६७ । कैलासं सोमशरणं ( सिधि ? सिद्धि ) वर्त्तसदाशिवम् ।
सिंहासनं धर्मचक्रमुपरोन्द्रातपत्रकम् ॥ इति रूपमण्डने (अ० ६, श्लो० २७) ।
सप्तमोऽध्यायः १४३
श्रीवत्सश्च तथाऽशोकं वृषा वृश्चिकदुन्दुभिः ।
[ प्रतीहाराः ]
इन्द्र इन्द्रजयश्चैव माहेन्द्रो (वी ? वि) जयस्तथा ॥ ६८ ॥
धरणेन्द्रो पद्मकश्च सुनाभः सुरदुन्दुभिः ।
इत्यष्टौ च प्रतीहारा (वि ? वी) तरागे तु शान्तिदाः ॥६९॥
[ प्रतीहाराणां स्वरूपम् ]
फलवज्राङ्कुशं दण्डमिन्द्रसव्ये (ध्वज?जय)स्तथा ।
द्वौ वज्रौ फलदण्डन्तु माहेन्द्रसव्ये विजयस्तथा ॥ ७० ॥
(यदायूथयोगोद्भवा विपञ्चफणतोऽर्द्धगाः ?) ।
धरणेन्द्र(ः) पद्मकश्च सर्वशान्तिकरौ स्मृतौ ॥ ७१ ॥
यक्षरूपाधिका(रं च? राश्च) निधिहस्ताः शुभो(दराः? दयाः) ।
सुना(भं ? भो) दुन्दुभिश्चैव सर्वे शान्तिप्रदायकाः ॥७२॥
इत्यष्टौ च प्रतीहारा जिनेन्द्रस्य च शान्ति(दः ? दाः ) ।
नगरादिपुरग्रामे सर्वविघ्नप्रणाशनाः ॥ ७३ ॥
मुक्त्यर्थे विश्वमेतद् भ्रमति च बहुधा देवदैत्याः पिशाचा
रक्षो गन्धर्वयक्षो नरमृगपशवो नैव मुक्तिं विजग्मुः ।
एकः श्रीवीतरागः परमपदसुखे मुक्ति(र्ना?मार्गे)विलीनो
- वन्द्यस्तेना(ग?द्य)जैनः सुरगण(म)नुजैः सर्वसौख्यस्य
हेतुः ॥ ७४ ॥
इति श्रीक्षेत्रात्मज (सूत्र) भृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे
जिनमूर्त्तिचतुर्विंशतियक्षयक्षिण्यधिकारो नाम सप्तमोऽध्यायः ॥ ७ ॥
अष्टमोऽध्यायः
———•———
अथ गौरीं प्रवक्ष्यामि प्रमाणं मूर्त्तिलक्षणम् ।
चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ।
गोधासनोपरिस्था च कर्त्तव्या सर्वकामदा ॥ १ ॥
[ इति गौरीमूर्त्तीनां सामान्यलक्षणम् ]
( उत्तमा?उमा च ) पार्वती गौरी ललिता च श्रिया तथा ।
कृष्णा च हिम( वन्ति ? वन्ती ) च रम्भा च सावित्री तथा ।
त्रिखण्डा तोतला चैव त्रिपुरा द्वादशोदिताः ॥ २ ॥
[ इति गौरीनामानि ]
अक्षसू( त्रा?त्रं ) च कमलं दर्पणञ्च कमण्ड( लु ? लुं ) ।
उमाना( म्नि?नी ) भवेन्मूर्त्तिः पूजिता त्रिदशैरपि ॥ ३ ॥
[ इत्युमा ]
अक्षसूत्रं शिवं देवं गणाध्यक्षं कमण्डलुम् ।
अग्निकुण्डोभये पक्षे पार्वती पर्वतोद्भवा ॥ ४ ॥
[ इति पार्वती ]
─────────────────────────────────────────────────────────────
१ । पञ्चमाध्याये वैष्णवप्रकरणे शिलाचक्रलक्षणं विष्णोर्मूत्त्यन्तराणि च प्रतिपादितानि ।
षष्ठे शैवे शिवमूत्तिः शिवलिङ्गानि प्रसङ्गतो मण्डपविषये विशेषाश्च प्रतिपादिताः । अन्तरा
सप्तमे जैनाधिकारे जिनतदुपासकतच्छासनदेवताः सलक्षणाः साभिधानाः प्रतिपाद्याष्टमे
शाक्ताधिकारे शक्तीनां मूर्त्तीर्वक्तुमासां गौर्यशतया मूलीभूतां गौरीं लक्षयति—अथेति । 'चतु-
र्भुजा त्रिनेत्रा च सर्वाभरणभूषिते'ति अविशेषेण सर्वासागेव गौरीमूर्त्तीनां लक्षणम् ; अत एव प्रत्येक-
लक्षणे भुजनेत्रादीनामुल्लेखो न कृतः । 'गौर्याः प्रवक्ष्यामी'ति रूपमण्डने पाठः । (५।१) ।
२ । कास्तावद् गौर्या मूर्त्तय इत्यपेक्षायामाह—उमा चेति । अयमासाम् उद्देशः । रूप-
मण्डने अयमुद्देशनिर्देशो नास्ति । तत्र 'अथ गौर्याः प्रवक्ष्यामी'त्युपक्रम्यैव क्रमेणाऽऽसां लक्षणानि
लिखितानि ।
४ । 'अग्निकुण्डोभये पक्षे' इत्यत्र 'पक्षद्वयेऽग्निकुण्डञ्च' इति रूपमण्डने (५।२) ऋज्वर्थः
पाठः ।
अष्टमोऽध्यायः १४५
अक्षसू( तोभय?त्राभये) पद्मं तस्योर्द्ध्वे तु कमण्डलुम् ।
गौर्या( या?श्च ) मूर्त्तिरित्युक्ता कर्त्तव्या शिवशासिनी ॥ ५ ॥
[ इति गौरी ]
अक्षसूत्रं च वीणे द्वे कमण्डलु ( : ) करेषु च ।
ललिता च तदा नाम सिद्ध( चामर ? चारण )सेविता ॥ ६ ॥
[ इति ललिता ]
गोधासनाक्षसूत्रा च ( म ? अ )भयं वरदं करम् ।
श्रिया मूर्त्तिस्तदा नाम (ग्रहे?गृहे) पूज्या (श्रियोपमा?श्रिये सदा) ॥
[ इति श्रिया ]
अक्षसूत्रं कमण्डलुं हृदये च पुटाञ्जलि ( : ? ) ।
पञ्चा (ग्रवश्च?ग्नयश्च ) कुण्डेषु कृष्णा नाम सुशोभना ॥ ८॥
[ इति कृष्णा ]
हिमवन्ती शैलराजी ( शब्दवस्यात् परीसुता ? ) ।
(पद्मदर्पणोभवा ?) तु वीवाहे तु माहेश्वरी ॥ ६ ॥
[ इति हिमवन्ती ]
कमण्डल्वक्षवज्राङ्कुशं गजासनसंस्थिता ।
(अ?सा)प्रतीतोद्भव(वा ? वद्)रूपा रम्भा च सर्वकामदा ॥१०॥
[ इति रम्भा ]
६। ललिता रूपमण्डने नास्ति । 'सिद्धचामरसेविते'त्यस्य 'सिद्धामरनिषेविते'त्यर्थे तात्पर्यं
वा कृतशुद्धौ पाठे तात्पर्यं वेति चिन्तनीयम् ।
८। पञ्चाग्नयश्च कुण्डेष्विति उभयतः पार्श्वयोरग्निकुण्डपञ्चकान्वितेत्यर्थः । अत्र 'पक्ष-
द्वयेऽग्निकुण्डङ्गे'ति पार्वतीवदेव पाठो भवेन्न वेति चिन्तनीयम् । इयमपि रूपमण्डने नास्ति ।
९। हिमवन्त्या लक्षणं पाठविकाराद् दुरुन्नेयम् । इयमपि रूपमण्डने नास्ति ।
१०। सा रम्भा प्रतीतोद्भववद्रूपा प्रतीतँ ख्यातम् उद्भववद् रूपं यस्याः तादृशी, यस्या
रूपं प्रतिक्षणमेव नवनवीभूतं सत् प्रख्यायते इत्यर्थः । सोपसर्गेण भवतिना वर्त्तमानकाल-
वाचिना शत्रा च रूपस्य प्रतिक्षणोत्पद्यमानत्वं लभ्यते । रूपमण्डने—
१४६ देवतामूर्त्तिप्रकरणम्
अक्षसूत्रं पुस्तकञ्च धत्ते पद्मं कमण्डलुम् ।
चतुर्वक्त्रा तु सा(वि ? त्री) श्रोत्रियाणां गृहे हिता ॥ ११ ॥
[ इति सावित्री ]
अक्षसूत्रं वज्र(शक्ति?शक्ती) तस्याधश्च कमण्डलुः ।
( त्रिखण्ड?ण्डां ) पूजयेन्नित्यं सर्वकामफलप्र(दा?दाम् ) ॥१२॥
[ इति त्रिखण्डा ]
शूलाक्षसूत्रं दण्डञ्च (श्वेतचामकरे?श्वेतचामरकं ) तथा ।
श्वेतदेहा भवे (देही?देवी ) तोतला पापनाशिनी ॥ १३ ॥
[ इति तोतला ]
पाशाङ्कुशाभयवरं चतुर्हस्तेष्वनुक्रमात् ।
त्रिपुरा नाम संपूज्या वन्दिता त्रिदशैरपि ॥ १४ ॥
[ इति त्रिपुरा ]
इति द्वादश गौर्यः
वक्ष्यामि गौर्यायत (नं ? न) देवतानामनुक्रमम् ।
वामे (स्याद्धि?सिद्धिः) श्रिया सौम्ये सावित्री चैव पश्चिमे ॥१५॥
( पृष्टिः?पृष्ठे ) कर्णे तथा द्वाभ्यां भगवती सरस्वती ।
ईशाने च गणेशः स्यात् कुमार(म? श्चा)ग्निकोणके ॥ १६ ॥
कमण्डल्वक्षसूत्रञ्च बिभ्राणा वज्रमङ्कुशम् ।
गजासनस्थिता रम्भा कर्त्तव्या सर्वकामदा ॥ (अ० ५, श्लो० ५)
इति रम्भालक्षणमुपलभ्यते ।
१२। त्रिखण्डा रूपमण्डनं न मण्डयति ।
१३। शूलाक्षसूत्रं दण्डञ्च बिभ्राणा चैव चामरम् ।
तोतला कथिता चेयं सर्व( कोप ? पाप )प्रणाशिनी ॥
इति निःसन्दिग्धार्थः पाठो रूपमण्डने ( अ० ५, श्लो० ६ ) ।
१५-१७। गौर्यायतनं लक्षयति—वक्ष्यामीत्यादिना । वामे इति दक्षिणस्यां दिशि,
अष्टमोऽध्यायः १४७
कुण्डलाभ्यामलङ्कृता सर्वाभरणभूषिता ।
मध्ये देवी प्रतिष्ठा(प्य?प्या) चेश्वरस्य सदा प्रिया ॥ १७ ॥
[ इति गौर्यायतनम् ]
अभयाङ्कुशपाशं दण्डं जया चैव तु पूर्वतः ।
सव्यापसव्ययोगेन (न ? वि) जया नाम सा भवेत् ॥ १८ ॥
अभयाङ्कुशपाशदण्डम् अजितासव्येऽपराजिता ।
अभयवज्राङ्कुशदण्डं विभक्ताङ्कुशापसव्ये मङ्गला ।
अभ(या?यं) शङ्खपद्मदण्डं मोहिन्य(पि सव्ये सभिनी?पसव्ये
स्तम्भिनी) ॥ १६ ॥
जया च विजया चैव अजिता चापराजिता ।
विभक्ता मङ्गला चैव मोहिनी स्तम्भिनी तथा ।
गौर्यायतने शस्ता (च?श्व) अष्ट (स्याद्?स्युः)द्वारपालिकाः ॥२०॥
[ इति गौर्याः प्रतीहाराः ]
सौम्य इत्युत्तरस्याम्, एतेन पश्चिमास्या प्रतिमेति ग्रन्थकर्तुरभिप्रायः प्रतिभाति। पृष्ठे कर्णे तथा
द्वाभ्यामिति—
'पृष्ठकर्णद्वये कार्या भगवती सरस्वती'
इति रूपमण्डने (अ० ५, श्लो० ९] संस्कारशुद्धः पाठः । अत्र ऐशानाग्नेययोर्वक्ष्यमाणत्वात्
'पृष्ठकर्णद्वय'पदेन वायुनैर्ऋतकोणद्वयं बोध्यम्। एवञ्च—मध्यवर्त्तिन्यां प्रतिमायां पूर्वाश्यायां
सत्यामेव वायुनैर्ऋतकोणद्वयं पृष्ठतः स्यादिति पूर्वं पश्चिमास्यपरतामवलम्ब्य यद् व्याख्यातं
तद् व्याहृतमित्यन्यथा व्याख्यायते—वामे वामभागे पूर्वास्थ्यत्वादुत्तरस्यां दिशीत्यर्थः, सौम्ये
दक्षिणे भागे दक्षिणस्यां दिशीत्यर्थः ।
अत्र गौर्यायतने पूर्वस्यां दिशि मूर्त्तिविशेषाश्रवणात् 'लिङ्गस्याग्रे न कर्त्तव्या ह्यर्चारूपेण
देवता' (अ० ३, श्लो०—) इतिवदत्रापि गौर्यग्रे मूर्त्तिर्न विधेयेत्यायाति, तत्र लिङ्गपदस्योपलक्षण-
परत्वव्याख्यानाद्वा।
१८-१९। इदानीं गौर्याश्रतस्रुषु द्वार्वषु चतस्रो द्वारपालिका आह—अभयेति । पूर्वाद्दितः
प्रादक्षिण्वेन (पूर्व-दक्षिण-पश्चिमोत्तरक्रमेण) प्रतिद्वारं द्वे द्वे द्वारपालिके वामदक्षिणोदुम्बरयोः
१४८ देवतामूर्त्तिप्रकरणम्
दण्डञ्च परशुं पद्मं मोदकञ्च गजाननम् ।
गणेशं मूषकारूढं सिद्धिदं सर्वकामदम् ॥ २१ ॥
[ इति गणेशः ]
क्रमेण कार्ये इति वर्त्तुलार्थः । तत्र पूर्वे द्वारे वामोडुम्बरे जया दक्षिणोडुम्बरे विजया, एवं दक्षिणे
अजितापराजिते, पश्चिमे विभक्ता-मङ्गले, उत्तरे मोहिनी-स्तम्भिन्यौ इति ज्ञेयम् ।
अत्र 'विजया नाम सा भवेत्' ( १८ ) इत्यत्र 'विजया तामसा भवेत्' इति रूपमण्डने
( अ० ५, श्लो० ११ ) प्रामादिकः पाठः, प्रतिद्वारं द्वारपालिकानां यथाश्रुतद्वित्वभङ्गप्रसङ्गात्,
अनूद्देशश्लोके तामसाया अपाठाच्च । सुखबोधार्थं चित्रे गौर्या आयतनदेवताः प्रतीहाराश्च
निवेश्यन्ते—
[ गौर्यायतनम् ]
मोहिनी स्तम्भिनी
भगवती गणेशः
श्रिया
मङ्गला सावित्री गौरी जया
सिद्धिः
विभक्ता सरस्वती कार्त्तिकेयः विजया
अपराजिता अजिता
[ कोष्ठमध्ये यथोक्ता आयतनदेवताः । कोष्ठाद् बहिर्द्वयोर्द्वयोर्द्वारोडुम्बरयोः पूर्वादिक्रमेण
यथोक्ता जयाविजयादिद्वारदेवताश्च ]
२१ । अथ गणेशमूर्त्तिंराह—दण्डञ्चेति । अत्राऽऽदर्शे श्लोकत्रयानन्तरम् 'इति हेरम्बः'
अष्टमोऽध्यायः १४१
वरं तथाऽङ्कुशं दण्डं परशुं चाभयं क्रमात् ।
कपालञ्च शरञ्चाक्षमालापाशगदा करे ॥ २२ ॥
पञ्चवक्त्रं त्रिनेत्रञ्च हेरम्बञ्च गणेश्वरम् ।
मूषके च समारूढं सर्वकामार्थसाधकम् ॥ २३ ॥
इति हेरम्बः
रक्ताङ्गो गजवक्त्रः स्याद् रत्नकुम्भं तथाऽङ्कुशम् ।
परशुञ्च तथा द(न्तो?न्तं) दक्षिणाधःकरक्रमात् ॥ २४ ॥
इति गजाननः
इत्येवं पुष्पिका दृश्यते । परं प्रथमश्लोके चतुर्णाम्, द्वितीये च दशानामायुधानां दर्शनादिह
गणेशस्य पृथक् लक्षणादर्शनात्, रूपमण्डने ( अ० ५, श्लो० १६-१७ ) उभयोरेव पृथक् लक्षण-
दर्शनाच्च एतच्छ्लोकानन्तरम् [ इति गणेशः ] इत्येवं अन्यैरन्तः पुष्पिकैका निवेशिता । शिल्प-
रत्ने आयुधानां भेदो दृश्यते यथा—
विघ्नेशं सपरश्वधाक्षवटिकादण्डोल्लसल्लण्डुकै-
र्दोर्भिः पाशसृणीस्वदन्तवरदाढ्यैर्वा चतुर्भियुतम् ।
शुण्डाग्राहितबीजपूरमुरुकुक्षिं त्रीक्षणं संस्मरेत्
सिन्दूराभमिभास्यमिन्दुशकलाद्याकल्पमब्जासनम् ॥
( शि० उ० अ० २५, श्लो० ५७ )
इति । परमिदं गणेशस्य वा वक्ष्यमाणवक्रतुण्डस्य वा लक्षणं नोभयोरपि वेति सुधीभि-
र्भाव्यम् । तत्र तु 'अथ बीजगणपति'रित्युपक्रम्य लक्षणान्येतानि लिखितानि दृश्यन्ते ।
२२ । इदानीं हेरम्बं निर्दिशति—वरमिति । अत्र कण्ठतोऽनुक्तत्वेऽपि एतन्मते अयं दशभुज
इत्यायाति, आयुधानां तावत्सङ्ख्याकत्वदर्शनात् । शिल्परत्नेऽपि 'अथ हेरम्बः' इत्युपक्रम्य
सार्धश्लोकत्रयेण तल्लक्षणमुक्तम्, तत्रापि दशभुजत्वमेव दृश्यते ( उ० अ० २५, श्लो० ५८-६१ ) ।
रूपमण्डने तु—
वरं तथाऽङ्कुशं दण्डं दक्षिणे पार्श्वभागयोः ।
वामे कपालं बाणाक्षं पाशं कौमोदकी तथा ॥
( अ० ५, श्लो० १६ ) इति विषमः पाठो विषमा चोभयतः पार्श्वयोरायुधरचना दृश्यते ।
२३ । पञ्चवक्त्रं त्रिनेत्रमिति गणेशहेरम्बयोः साधारणं लक्षणम्, गणेशलक्षणे वक्त्रनेत्रयो-
रनुल्लेखात्, अत एव 'हेरम्बञ्च गणेश्वर'मित्यत्रोभयोरेव विशेष्यपरताऽभ्युपेया न त्वेकस्य
विशेषणपरताऽपि ।
१२०
देवतामूर्त्तिप्रकरणम्
लम्बोदरं विनयनं पाशाङ्कुशधरं परम् ।
वरदाभयहस्तञ्च चलत्कर्णं ( समाचरम् ? सचामरम् ) ॥ २५ ॥
इति वक्रतुण्डः
उच्छिष्टं मूषकस्थञ्च त्र्यक्षं व्यालोपवीतिनम् ।
भग्नदन्ताक्षसूत्रञ्च परशुं मोदकक्रमात् ॥ २६ ॥
इत्युच्छिष्टगणपतिः
सिन्दूराभं त्रिनेत्रञ्च ( म?अ )भयं मोदकं (वच?तथा) ।
टङ्कं शरोऽक्षमाला च मुद्गरं चाङ्कुशं तथा ।
त्रिशूलं चेति हस्तेषु दधानं कुन्दवत् सितम् ॥ २७ ॥
इति हेरम्बः
पाशाङ्कुशौ कल्पलता ( भृङ्ग?शृङ्गं ) बिभ्रत् करेषु च ।
शशिमौलस्त्रिनेत्रश्च रक्तः क्षिप्रगणाधिपः २८ ॥
[ इति क्षिप्रगणपतिः ]
२५ । वक्रतुण्डं लक्षयति—लम्बोदरमिति । प्रमाणान्तरानुपलम्भेऽपि ग्रन्थकृता कृतया
पुष्पिकया वक्रतुण्ड एवायं न लम्बोदर इति जानीमः ।
२६ । उच्छिष्टगणपतिमाह—उच्छिष्टमिति । अयं रूपमण्डने नास्ति । शिल्परत्ने तु बीज-
गणपतिप्रस्तावे—
रक्ताक्षमालां परशुञ्च दण्डं भक्ष्यञ्च दोर्भिः परितो दधानम् ।
हेमावदातं त्रिदृशं गजास्यं लम्बोदरं तं शिरसा नमामि ॥
( उ० अ० २५, श्लो० ५६ )
इति प्रकृतोच्छिष्टगणपतिलक्षणान्वितः कश्चिद् गणपतिर्लक्षितो दृश्यते । 'भक्ष्यं' मोदकम् ।
२७ । सिन्दूराभमिति । नायं रूपमण्डने न वा शिल्परत्ने उपलभ्यते । पूर्वं द्वाविंश-
त्रयोविंशश्लोकाभ्यामेको हेरम्बो लक्षितः पुनरपरोऽपि लक्ष्यत इत्यहो हेरम्बग्रहिलता ग्रन्थकर्त्तुः ।
२८ । पाशाङ्कुशाविति । अयमपि रूपमण्डने नास्ति, अस्ति च शिल्परत्ने ; परं तत्र
भृङ्गस्थाने 'स्वरदः' पदं करोति । तथाच—
धृतपाशाङ्कुशकल्प (क) लतिकास्वरदश्च बीजपूरयुतः ।
शशिकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजाननः ॥
इति । एवञ्चात्र 'भृङ्गमि'त्यत्र 'दण्डमि'ति पाठः कल्पनीयो न वेति सुधीभिश्चिन्तनीयम् ।
अष्टमोऽध्यायः १५१
उत्तरे तु सदा गौरी याम्ये चैव सरस्वती ।
पश्चिमे यत्न (राज्यं?राजः) च बुद्धिः पूर्वे व्यवस्थि (तः?ता)॥२९
इति गणेशायतनम्
सर्वे च वामनाकारा ( : ) पुरुषाननसौम्य (तः?भाः) ।
तर्जनी परशुं दण्डमविघ्नो दण्डहस्तकः ॥ ३० ॥
तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः ।
तर्जनीखड्गवरदं दण्डहस्तः सुवक्त्रकः ॥ ३१ ॥
२९ । इदानीं गणेशायतनदेवानाह—उत्तर इति । लेखकप्रमादादत्र कोणदेवताप्रतिपादकमेकं
पद्यं त्रुटितमिति सम्भाव्यते । तच्च—
वामाङ्गे गजकर्णन्तु सिद्धिं दध्याच्च दक्षिणे ।
पृष्ठकर्णे तथा द्वौ च धूम्रको बालचन्द्रमाः ॥
( रूप० अ० ५, श्लो० १९ )
इति रूपमण्डनोक्तवदेव भवेद् इति सम्भावयामः ।
३० । गणेशप्रतीहारानाह—सर्व इति । रूपमण्डने 'सौम्याश्च पुरुषाननाः' इति द्वितीय-
पादे सुखसेव्यः पाठः । अष्टौ गणेशप्रतीहारा दक्षाद्द्वारतो युग्मशः स्थापनीया इति वक्तुर्लार्थः ।
क्रमस्तु गौर्यायतनदृष्ट्या समुन्नेयः । शिल्परत्ने एकैकं वृक्षमाश्रिताभ्यामप्रागादिदिशमलङ्कुर्वतीभ्यां
द्वाभ्यां द्वाभ्यां द्वारदेवताभ्यां गणेशायतनमलङ्कृतमिति दृश्यते । तथाच—
अग्रेऽथ विल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुपौ गिरिजावृषाङ्कौ ।
पृष्ठेऽथ पिप्पलजुपौ रतिपुष्पबाणौ सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥
( उ० अ०
? )-> let's look at(रकै ?कुरै): (thenरकैthen space then?thenकुरैthen)thenर्युक्तं! Yes: गण्डकैश्चि(रकै ?कुरै)र्युक्तं मयूरवरवाहनम् ।`
Line 14:
स्थानी(यं ?ये) खेटनगरे भुजा द्वादश कल्पयेत् ॥ ३७ ॥
Footnotes:
Line 15:
३५। द्वात्रिंशच्छ्लोकतुल्यमिदं पद्यं सम्पातायातमिति सम्भाव्यते ।
Line 16:
३६। कार्त्तिकेयमाह—कार्त्तिकेयमिति । स्थानभेदेन स्थाप्यमानोऽयं द्वि-चतु-द्वादश-
Line 17:
भुजत्वेन त्रिधा भवति । तत्र स्थानीये खेटनगरे वा द्वादशभुजः, खर्वटे चतुर्भुजः, ग्रामे वने वा
Line 18:
द्विभुज इति शिल्परत्नसम्मतं तत्त्वम् । तथाच—
Line 19:
स्थानीये खेटके वाऽपि कुमारो लिख्यते यदा ॥
(indented block / quotation)
Line 20:
`भुजा द्वादश कुर्वी
अष्टमोऽध्यायः १५३
चतुर्भुजः ( कर्पटे ? खर्बटे ) स्याद् वने ग्रामे द्विबाहुकः ।
शक्तिपाशं तथा खड्गं शरः शूलं तथैव च ॥ ३८ ॥
वरदश्चैकहस्तः स्यादथवाऽभ(व?य) दो भवेत् ।
एते दक्षिणतो ज्ञेया ( : ) केयूर( वणकोडू ?
कटकोज्ज्वलाः) ॥ ३६ ॥
धनु ( : ) पताका मुष्टिश्च तर्जनी तु प्रसारि(का?ता) ।
खेटकं ताम्रचूडश्च वामहस्तेषु शस्यते ॥ ४० ॥
[ इति द्वादशभुजः ]
द्विभुजस्य करे शक्तिर्वामे ( स्या?ऽन्यः ) कुक्कुटोपरि ।
[ इति द्विभुजः ]
चतुर्भुजे शक्तिपा( शो? शौ ) वामतो दक्षिणे ( च
सः ? त्वसिः ) ॥ ४१ ॥
वरदोऽभयदो वा(पी?पि) दक्षि(णे स्या?णः स्यात् ) तुरीयकः ।
[ इति चतुर्भुजः ]
कार्त्तिकेय( मयं?मिमं ) शुभ्रं कर्त्तव्यं सर्वकामदम् ॥ ४२ ॥
इति कार्त्तिकेयः ।
स्थानीये इति स्थितियोग्ये खेटनगरे कर्षकग्रामे इत्यर्थः ।
३८ । खर्बटे क्षुद्रनगरे । रूपमण्डने—
चतुर्भुजः कर्पटे स्याद् वने ग्रामे द्विबाहुकः ।
दक्षिणे शक्तिपाशश्च खड्गं पाशं त्रिशूलकम् ॥ इति
( अ० ६, श्लो० २८ ) ।
४१ । वामे करे शक्तिरन्यः करः कुक्कुटोपरीत्यन्वयः ।
४२ । तुरीयक इत्यत्र तुरीकमिति रूपमण्डने प्रामादिकः पाठः ।
देवता—२०
. Wait, could it be त्त्वू? No, look at the shape: it is identical to र्+व+ू! Wait, let's look at (रू?र्वू): Yes! रूandर्वू! Wait, or is it (रू?तू)? No, there is clearly a repha or something above it. Wait, let's look at the loop: is it व? Yes, like वinसर्वा. And underneath is the ूstroke. So it is(रू?र्वू)`!
- Let's check line 8-10 (Verse 46):
- Line 8:
मृणालयु(ग्मे ?ग्मैः) लीलया च लीला स्यात् पद्मपुस्तकैः ।
Wait, look atमृणालयु(ग्मे ?ग्मैः):
Inside parenthesis:
First:ग्मे
Then:?
Second:ग्मैः
Let's check footnote 46:
`४६ । मृणालयुग्मैरिति हस्तयोर्युग्मं युग्मं मृणालमित्यर्थः, 'पद्म युग्मे' इति रूपमण्डने पाठः । 'पद्मपुस्तकैरि'ति बहुवचनमविवक्षितम्, एव
- Line 8:
अष्टमोऽध्यायः १५५
(अदौ ? आदौ) तत्र(१) महालक्ष्मी(२) (न ? नं)न्दा
(३)क्षेमकरी तथा।
(४)सर्वती (५) महरण्डा च (६) श्रमणी (७)सर्वमङ्गला ॥ ४८ ॥
(८)रेवती (६)हरसिद्धिश्च नवदुर्गाभिधानकम् ।
[ इति नवदुर्गानामानि ]
(पृथुमे ? पृथगे) कैकस्यानुक्रमं कथयिष्याम्यनुक्रमात् ॥४६॥
वरदं त्रिशूलं खेटं पानपात्रञ्च बिभ्रती ।
नागनीलकण्ठमध्ये महालक्ष्मी(:) प्रकीर्त्तिता ॥ ५० ॥
[ इति महालक्ष्मीः ]
अक्षसूत्रं खड्गखेटं पानपात्रं तथोत्तमम् ।
नन्दा नाम (संख्या ? समाख्या)ता पूज्यते नन्दहेतवे ॥ ५१ ॥
[ इति नन्दा ]
वर(दं ?) त्रिशूलं पद्मं च पानपात्रं विधृत् करै ।
क्षेमङ्करी तथा नाम क्षेमारोग्यप्रदायिनी ॥ ५२ ॥
[ इति क्षेमङ्करी ]
कमण्डलुं चक्रखेटं पानपात्रं तथोत्तरे ।
सर्वती च तदा नाम ( सर्वकृष्ट ? ) प्रदायिनी ॥ ५३ ॥
[ इति सर्वती ]
खड्गं तथा त्रिशूलं च घण्टापात्रं तथोन्नतम् ।
महरण्डा (तथोन्नाम ? तथा नाम) वन्दिता विदशैरपि ॥५४॥
[ इति महरण्डा ]
४८ । 'क्षेमकरी'त्यत्र 'क्षेमङ्करी'ति लक्षणनिरूपणवेलायाम् ।
४९ । अनुक्रमं क्रमेण एकैकस्याः कथयिष्यामि लक्षणमिति शेषः ।
५० । नागनीलकण्ठयोरुपादानप्रयोजनमनुसन्धेयम् ।
१५६ देवतामूर्त्तिप्रकरणम्
खड्गं डमरुखेटपाशं बिभ्रती च करोत्तमैः ।
भ्रामणी च तदा नाम भ्रामयेद् दुष्टचेतसः ॥ ५५ ॥
[ इति भ्रामणी ]
अब्जशूलं तथा वज्रं घण्टापालं तथोत्तमम् ।
सर्वमङ्ग(ल ? ला) मङ्गल्या सर्वविघ्नविनाशिनी ॥ ५६ ॥
[ इति सर्वमङ्गला ]
दण्डत्रिशूलं खट्वाङ्गं पानपालं च बिभ्रती ।
रेवती च तदा नाम सर्वशान्तिप्रदायिनी ॥ ५७ ॥
[ इति रेवती ]
कमण्डलुं खड्गडमरुं पानपालं तथा शुभम् ।
हरसिद्धिस्तदा नाम सर्वस्य सिद्धिहेतवे ॥ ५८ ॥
[ इति हरसिद्धिः ]
इति नवदुर्गाः ।
क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ।
कर्त्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ५६ ॥
वामे शूलं कपालं च मुण्डमालोपवीतकः ।
करोटि(नी ? नि)करोदारमालाग्रन्थिशेखरः ॥ ६० ॥
इति क्षेत्रपालः ।
५५। उद्देशश्लोके 'भ्रमणी'ति वर्त्तते अत्र च भ्रामणीति दृश्यते, कतरदेतयोः परिवर्त्तन-
मर्हतीत्यनिश्चिन्वद्भिरस्माभिः क्वापि न व्यापारितो हस्तः, परं प्रथमपरित्यागे मानाभावं
मन्यमानैः पुष्पिकायां 'भ्रमणी'ति विहितम् ।
५९-६०। क्षेत्रपालं लक्षयति—क्षेत्रपाल इति। शिल्परत्नेऽधमादौ सात्त्विकादिभेदेन
त्रिधा भिद्यते सात्त्विकश्च द्विभुजचतुर्भुजत्वेन पुनर्द्विधेति साकल्येन चतुर्विधः । रूपमण्डने
पुनरेक एव चतुर्भुजः । तथाच—
क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ॥
( कार्त्तिकां ? कर्त्तिकां ) डमरुं बिभ्रद्दक्षिणे तु करद्वये ।
वामे शूलं कपालञ्च मुण्डमालोपवीतकम् ।
करोति(?)कटितोदारसर्पग्रन्थिशेखरः ॥ इति (अ० ५, श्लो० ७४-७५) ।
अष्टमोऽध्यायः १५७
अथातः संप्रवक्ष्यामि (मात ? मातृ)रूपाणि ते (जया ? जय) ।
तत्र ब्राह्मी चतुर्वक्त्रा (पाठ ? षड्)भुजा हंससंस्थिता ॥ ६१ ॥
पिङ्गलीभूषणोपेता मृगचर्मोत्तरीयका ।
वरं सूत्रं कजं धत्ते दक्षबाहुत्रये क्रमात् ॥ ६२ ॥
वामेषु पुस्तकं (कुण्डी ? कुण्डीं) बिभ्र(त्तीं ? ती) चाभयप्रदा ।
[ इति ब्राह्मी ]
माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ॥ ६३ ॥
बालेन्दुभृज्जटाजूटसुशोभा सर्वसौख्यदा ।
षड्भुजा ( दर ? वर )दा दक्षे सूत्रं डमरुकं तथा ॥ ६४ ॥
शूलं घण्टाभयं वामे सैव धत्ते महाभुजा ।
[ इति माहेश्वरी ]
कौमारी रक्तवर्णा स्यात् षड्वक्त्रा सार्कलोचना ॥ ६५ ॥
रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ।
पताका बिभ्रती दण्डं (पानं ? पाशं) बाणञ्च दक्षिणे ॥ ६६ ॥
करोतीति । करोटिनिकरेण ललाटास्थिसमूहेन ग्रथिता या उद्दारा महती माला तया
ग्रन्थितः शेखरः शिरस्यकेशजूटो यस्य सः । अयमेव पाठः साधीयानिति प्रतिभाति, शिल्परत्ने
(उ० अ० २५, श्लो० १०८) 'नानानागविभूषितत्व'स्योक्तत्वेऽपि रूपमण्डनीयपाठश्चिन्त्य एव ।
६१ । इदानीं सप्त मातृर्लक्षयति—अथात इति । 'जय' इति विश्वकर्मणोऽन्यतममानस-
पुत्रस्य नाम । शिल्पशास्त्रस्य प्रवक्ता विश्वकर्मा बोद्धव्यश्च तत्पुत्रेष्वन्यतमो जयो नामेति
प्रसिद्धिरिति युज्यत एव तत्सम्बोधनम् ।
६२ । पिङ्गली सुवर्णम् । कजं पद्मम् । दूरभिन्नमेवास्य लक्षणं शिल्परत्न- (उ०
अ० २५, श्लो० ७६) रूपमण्डनयोः (अ० ९, श्लो० ६१-६३) । तयोरियं चतुर्भुजा ।
६३ । इयमपि चतुर्भुजा शिल्परत्नरूपमण्डनयोः ।
६५ । सार्कलोचनेति । सा अर्कलोचनेति च्छेदः, अर्कलोचना द्वादशनेत्रा । यद्वा,
अर्कलोचनैः सह वर्त्तमानेति विग्रहः । रविबाहुर्द्वादशभुजा । इयमपि शिल्परत्न-रूपमण्डनयो-
ऋतुर्भुजा ।
१५८ देवतामूर्त्तिप्रकरणम्
वामे चापमधो घ(ण्टा ? ष्टां) कमलं कुक्कुट(स्त्व ? न्व)धः ।
परशुं बिभ्रती दक्षे तदधस्त्वभयान्विता ॥ ६७ ॥
[ इति कौमारी ]
वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा वनमालिनी ।
वरदा (दा ? ग)दिनी दक्षे दधती चाऽऽयुधस्रजम् ॥ ६८ ॥
शङ्खचक्राभ(या ? यैः) वामे (सच्चैर्य ? सा चैव) विलसद्भुजा ।
[ इति वैष्णवी ]
कृष्णवर्णा तु वाराही शूकरास्या महोदरा ॥६६॥
वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा ।
खेटपाशाभ(या ? यैः)वामे सैव चापि लसद्भुजा ॥७०॥
[ इति वाराही ]
ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजसंस्थिता ।
वरदा सूत्रिणी वज्रं बिभ्रत्यूर्द्ध्वं तु दक्षिणे ।
वामे तु कलशं पात्रमभयं तदधःकरे ॥ ७१ ॥
[ इति ऐन्द्री ]
चामुण्डा प्रेतगा रक्ता विकृतास्याऽहिभूषणा ।
दंष्ट्र(दा ? ला) क्षीणदेहा च गर्त्ताक्षी भीमरूपिणी ॥ ७२ ॥
दिग्बाहुः क्षामकुक्षिश्च मुसलं ( चक्रयं ? चक्रकं ) शरः ।
अङ्कु(शी ? शं) बिभ्रती खड्गं ... ... चाप्यथ वामतः ॥७३॥
खेटं पाशधनुर्दण्डकुठारं (वे ? चे)ति बिभ्रती ।
[ इति चामुण्डा ]
६९ । शङ्खचक्राभयैरिति । वामभागे शङ्खचक्रादिभिर्विलसद्भुजेत्यन्वयः ।
७१ । ऊर्द्ध्वं इत्यूर्द्ध्वक्रमेण ।
७३ । 'अङ्कुशं बिभ्रती खड्गं' इत्यनन्तरं त्रुटितस्थाने 'सव्ये' इति स्यात् ।
अष्टमोऽध्यायः १५६
चण्डिका श्वेतवर्णा स्या(त्रावा ? च्छ्रवा)रूढा च षड्भुजा ।
जटिला च लसत्त्यक्ता वरदा शूलधारिणी ॥ ७४ ॥
कर्त्तिकां बिभ्रती दत्ते पाशपात्राभयान्यतः ।
[ इति चण्डिका ]
इत्ये(हं ? ता ) मातरः प्रोक्ता रूपभेदव्यवस्थया ॥ ७५ ॥
भैरवं कारयेत्तत्र नृत्यमानं विकारणाम् ।
गणेशमादौ कर्त्तव्यमन्ते कुर्याच्च भैरवम् ॥ ७६ ॥
मातृणां मध्यतः कार्याः पंक्ति(शो ? शः ) चण्डिकादयः ।
वीरेश्वर(स्य ? श्व ) भगवान् वृषारूढो धनुर्धरः ॥ ७७ ॥
( वीणाहस्त ? वीणां हस्ते ) त्रिशूलञ्च बाणं चैव प्रकारयेत् ।
वीरेश्वरस्य रूपं तु मातृणामग्रतो भवेत् ॥ ७८ ॥
इति मातरः ।
[ अथ द्वादश सरस्वत्यः ]
एकवक्त्रा(ः) चतुर्भुजा मुकुटेन विराजिता
१६० देवतामूर्त्तिप्रकरणम्
वराक्षपद्मपुस्तकं शुभावहा च भारती ।
[ इति भारती—३ ]
वराम्बुजाक्षपुस्तकं सरस्वती प्रकीर्त्तिता ॥ ८१ ॥
[ इति सरस्वती—४ ]
वराक्षं पुस्तकं पद्मम् आर्या नाम प्रकीर्त्तिता ।
[ इत्यार्या—५ ]
वरपुस्तकाक्षपद्मं ब्राह्मी नाम सुखावहा ॥ ८२ ॥
[ इति ब्राह्मी—६ ]
वरपद्मवीणापुस्तकं महाधेनुश्च नामतः ।
[ इति महाधेनुः—७ ]
वरञ्च पुस्तकं वीणा वेदगर्भा तथाऽम्बुजम् ॥ ८३ ॥
[ इति वेदगर्भा—८ ]
अक्षं तथाऽभयं पद्मं पुस्तकेनेश्वरी भवेत् ।
[ इतीश्वरी—९ ]
(असपतं ? अक्षं पद्मं) पुस्तकञ्च महालक्ष्मीस्तथोत्पलम् ॥८४॥
[ इति महालक्ष्मीः—१० ]
अक्षं पद्मं पुस्तकं च महाकाल्यभयं तथा ।
[ इति महाकाली—११ ]
अक्षपुस्तकमभयं पद्मं महासरस्वती ॥ ८५ ॥
[ इति महासरस्वती—१२ ]
इति द्वादश सरस्वत्यः ।
अष्टादश(जया ? भुजा) कार्या भद्रकाली मनोहरा ।
(अ ? आ)लीढस्थानसंस्था तु कर्त्तव्या सौख्यदायका ॥ ८६ ॥
अक्षमाला त्रिशूलञ्च खड्गश्चक्रं करेषु च ।
वामे तु चापं कर्त्तव्यं शङ्खपद्मौ तथैव च ॥ ८७ ॥
८६। आलीढेति। दक्षिणं पादमग्रतः कृत्वा वामपादाकुञ्चनमालीढस्थानम्, तेन
सन्तिष्ठत इति आलीढस्थानसंस्था ।