रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
DevanagariHindipublished335 पृष्ठ
पृष्ठ 246, कुल 335 में से
संदर्भ में पढ़ेंपृष्ठ 246
अष्टमोऽध्यायः १५६
चण्डिका श्वेतवर्णा स्या(त्रावा ? च्छ्रवा)रूढा च षड्भुजा ।
जटिला च लसत्त्यक्ता वरदा शूलधारिणी ॥ ७४ ॥
कर्त्तिकां बिभ्रती दत्ते पाशपात्राभयान्यतः ।
[ इति चण्डिका ]
इत्ये(हं ? ता ) मातरः प्रोक्ता रूपभेदव्यवस्थया ॥ ७५ ॥
भैरवं कारयेत्तत्र नृत्यमानं विकारणाम् ।
गणेशमादौ कर्त्तव्यमन्ते कुर्याच्च भैरवम् ॥ ७६ ॥
मातृणां मध्यतः कार्याः पंक्ति(शो ? शः ) चण्डिकादयः ।
वीरेश्वर(स्य ? श्व ) भगवान् वृषारूढो धनुर्धरः ॥ ७७ ॥
( वीणाहस्त ? वीणां हस्ते ) त्रिशूलञ्च बाणं चैव प्रकारयेत् ।
वीरेश्वरस्य रूपं तु मातृणामग्रतो भवेत् ॥ ७८ ॥
इति मातरः ।
[ अथ द्वादश सरस्वत्यः ]
एकवक्त्रा(ः) चतुर्भुजा मुकुटेन विराजिता