रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 234, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः १४७
कुण्डलाभ्यामलङ्कृता सर्वाभरणभूषिता ।
मध्ये देवी प्रतिष्ठा(प्य?प्या) चेश्वरस्य सदा प्रिया ॥ १७ ॥
[ इति गौर्यायतनम् ]
अभयाङ्कुशपाशं दण्डं जया चैव तु पूर्वतः ।
सव्यापसव्ययोगेन (न ? वि) जया नाम सा भवेत् ॥ १८ ॥
अभयाङ्कुशपाशदण्डम् अजितासव्येऽपराजिता ।
अभयवज्राङ्कुशदण्डं विभक्ताङ्कुशापसव्ये मङ्गला ।
अभ(या?यं) शङ्खपद्मदण्डं मोहिन्य(पि सव्ये सभिनी?पसव्ये
स्तम्भिनी) ॥ १६ ॥
जया च विजया चैव अजिता चापराजिता ।
विभक्ता मङ्गला चैव मोहिनी स्तम्भिनी तथा ।
गौर्यायतने शस्ता (च?श्व) अष्ट (स्याद्?स्युः)द्वारपालिकाः ॥२०॥
[ इति गौर्याः प्रतीहाराः ]
सौम्य इत्युत्तरस्याम्, एतेन पश्चिमास्या प्रतिमेति ग्रन्थकर्तुरभिप्रायः प्रतिभाति। पृष्ठे कर्णे तथा
द्वाभ्यामिति—
'पृष्ठकर्णद्वये कार्या भगवती सरस्वती'
इति रूपमण्डने (अ० ५, श्लो० ९] संस्कारशुद्धः पाठः । अत्र ऐशानाग्नेययोर्वक्ष्यमाणत्वात्
'पृष्ठकर्णद्वय'पदेन वायुनैर्ऋतकोणद्वयं बोध्यम्। एवञ्च—मध्यवर्त्तिन्यां प्रतिमायां पूर्वाश्यायां
सत्यामेव वायुनैर्ऋतकोणद्वयं पृष्ठतः स्यादिति पूर्वं पश्चिमास्यपरतामवलम्ब्य यद् व्याख्यातं
तद् व्याहृतमित्यन्यथा व्याख्यायते—वामे वामभागे पूर्वास्थ्यत्वादुत्तरस्यां दिशीत्यर्थः, सौम्ये
दक्षिणे भागे दक्षिणस्यां दिशीत्यर्थः ।
अत्र गौर्यायतने पूर्वस्यां दिशि मूर्त्तिविशेषाश्रवणात् 'लिङ्गस्याग्रे न कर्त्तव्या ह्यर्चारूपेण
देवता' (अ० ३, श्लो०—) इतिवदत्रापि गौर्यग्रे मूर्त्तिर्न विधेयेत्यायाति, तत्र लिङ्गपदस्योपलक्षण-
परत्वव्याख्यानाद्वा।
१८-१९। इदानीं गौर्याश्रतस्रुषु द्वार्वषु चतस्रो द्वारपालिका आह—अभयेति । पूर्वाद्दितः
प्रादक्षिण्वेन (पूर्व-दक्षिण-पश्चिमोत्तरक्रमेण) प्रतिद्वारं द्वे द्वे द्वारपालिके वामदक्षिणोदुम्बरयोः