रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 233, कुल 335 में से
संदर्भ में पढ़ें१४६ देवतामूर्त्तिप्रकरणम्
अक्षसूत्रं पुस्तकञ्च धत्ते पद्मं कमण्डलुम् ।
चतुर्वक्त्रा तु सा(वि ? त्री) श्रोत्रियाणां गृहे हिता ॥ ११ ॥
[ इति सावित्री ]
अक्षसूत्रं वज्र(शक्ति?शक्ती) तस्याधश्च कमण्डलुः ।
( त्रिखण्ड?ण्डां ) पूजयेन्नित्यं सर्वकामफलप्र(दा?दाम् ) ॥१२॥
[ इति त्रिखण्डा ]
शूलाक्षसूत्रं दण्डञ्च (श्वेतचामकरे?श्वेतचामरकं ) तथा ।
श्वेतदेहा भवे (देही?देवी ) तोतला पापनाशिनी ॥ १३ ॥
[ इति तोतला ]
पाशाङ्कुशाभयवरं चतुर्हस्तेष्वनुक्रमात् ।
त्रिपुरा नाम संपूज्या वन्दिता त्रिदशैरपि ॥ १४ ॥
[ इति त्रिपुरा ]
इति द्वादश गौर्यः
वक्ष्यामि गौर्यायत (नं ? न) देवतानामनुक्रमम् ।
वामे (स्याद्धि?सिद्धिः) श्रिया सौम्ये सावित्री चैव पश्चिमे ॥१५॥
( पृष्टिः?पृष्ठे ) कर्णे तथा द्वाभ्यां भगवती सरस्वती ।
ईशाने च गणेशः स्यात् कुमार(म? श्चा)ग्निकोणके ॥ १६ ॥
कमण्डल्वक्षसूत्रञ्च बिभ्राणा वज्रमङ्कुशम् ।
गजासनस्थिता रम्भा कर्त्तव्या सर्वकामदा ॥ (अ० ५, श्लो० ५)
इति रम्भालक्षणमुपलभ्यते ।
१२। त्रिखण्डा रूपमण्डनं न मण्डयति ।
१३। शूलाक्षसूत्रं दण्डञ्च बिभ्राणा चैव चामरम् ।
तोतला कथिता चेयं सर्व( कोप ? पाप )प्रणाशिनी ॥
इति निःसन्दिग्धार्थः पाठो रूपमण्डने ( अ० ५, श्लो० ६ ) ।
१५-१७। गौर्यायतनं लक्षयति—वक्ष्यामीत्यादिना । वामे इति दक्षिणस्यां दिशि,