रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 243, कुल 335 में से
संदर्भ में पढ़ें१५६ देवतामूर्त्तिप्रकरणम्
खड्गं डमरुखेटपाशं बिभ्रती च करोत्तमैः ।
भ्रामणी च तदा नाम भ्रामयेद् दुष्टचेतसः ॥ ५५ ॥
[ इति भ्रामणी ]
अब्जशूलं तथा वज्रं घण्टापालं तथोत्तमम् ।
सर्वमङ्ग(ल ? ला) मङ्गल्या सर्वविघ्नविनाशिनी ॥ ५६ ॥
[ इति सर्वमङ्गला ]
दण्डत्रिशूलं खट्वाङ्गं पानपालं च बिभ्रती ।
रेवती च तदा नाम सर्वशान्तिप्रदायिनी ॥ ५७ ॥
[ इति रेवती ]
कमण्डलुं खड्गडमरुं पानपालं तथा शुभम् ।
हरसिद्धिस्तदा नाम सर्वस्य सिद्धिहेतवे ॥ ५८ ॥
[ इति हरसिद्धिः ]
इति नवदुर्गाः ।
क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ।
कर्त्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ५६ ॥
वामे शूलं कपालं च मुण्डमालोपवीतकः ।
करोटि(नी ? नि)करोदारमालाग्रन्थिशेखरः ॥ ६० ॥
इति क्षेत्रपालः ।
५५। उद्देशश्लोके 'भ्रमणी'ति वर्त्तते अत्र च भ्रामणीति दृश्यते, कतरदेतयोः परिवर्त्तन-
मर्हतीत्यनिश्चिन्वद्भिरस्माभिः क्वापि न व्यापारितो हस्तः, परं प्रथमपरित्यागे मानाभावं
मन्यमानैः पुष्पिकायां 'भ्रमणी'ति विहितम् ।
५९-६०। क्षेत्रपालं लक्षयति—क्षेत्रपाल इति। शिल्परत्नेऽधमादौ सात्त्विकादिभेदेन
त्रिधा भिद्यते सात्त्विकश्च द्विभुजचतुर्भुजत्वेन पुनर्द्विधेति साकल्येन चतुर्विधः । रूपमण्डने
पुनरेक एव चतुर्भुजः । तथाच—
क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ॥
( कार्त्तिकां ? कर्त्तिकां ) डमरुं बिभ्रद्दक्षिणे तु करद्वये ।
वामे शूलं कपालञ्च मुण्डमालोपवीतकम् ।
करोति(?)कटितोदारसर्पग्रन्थिशेखरः ॥ इति (अ० ५, श्लो० ७४-७५) ।