सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

षष्ठोऽध्यायः १२१
[ बाणलिङ्गपरीक्षा ]
त्रिपञ्च(नारं?वारं) यस्यैव तुलासाम्यं (जनायते?न जायते)
तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥ १०४ ॥
[ वर्ज्यबाणलिङ्गानि ]
स्थूलं वरञ्च दीर्घञ्च (स्फटिकं ? स्फुटितं) (छिन्न?छिद्र)संयुक्तम् ।
बिन्दुयुक्तञ्च शूलाग्रं कृष्णञ्च (वि?चि)पिटं तथा ॥ १०५ ॥
(वक्तृ?वक्र)ञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् ।
वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ १०६ ॥
[ क्वचित् पाषाणस्यापि पूज्यत्वम् ]
महानदीसमुद्भूतं सिद्धक्षेत्रादिसम्भवम् ।
पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सदा ॥ १०७ ॥
[ यथातथावस्थितस्यापि बाणस्य प्राशस्त्यम् ]
पुष्पपीठमपीठं वा मन्त्रसंस्कारवर्जितम् ।
भुक्तिमुक्तिकरं बाणं सर्वप्रासादपीठकम् ॥ १०८ ॥
[ भोगदबाणलक्षणम् ]
ऊर्ध्वस्थूलं कृशं चाधो यदा लिङ्गं निवेशयेत् ।
तदा भोगं विजानीयात् पुत्रपौ(त्रा?त्र)श्च वर्धते ॥ १०६ ॥
१०४ । बाणलिङ्गपरीक्षाम्राह—त्रिपञ्चवारमिति । यस्यैवेत्येवकारो भिन्नक्रमे । यस्य
त्रिपञ्चवारं पञ्चदशवारम् एव तुलासाम्यं न जायते प्रतिवारमेव मानं भिद्यते इत्यर्थः, तदा बाणं
बाणलिङ्गं समाख्यातं कथितं मुनिभिरिति शेषः ; ‘अमेयः खलु भगवानि’ति भावः ।
१०७ । महानदीति । रूपमण्डने (अ० ४, श्लो० ७८) ‘ग्रन्थान्तरे’ इत्युपक्रम्यायं
श्लोकः पठितः । लिङ्गवदिति बाणवदित्यर्थः, तस्यैव प्रस्तावात् ।
१०८ । पुष्पपीठमिति । प्राणतोषणीधृतवीरमित्रोदयेऽयं श्लोकः ‘पुष्पपीठ’मित्यत्र
‘तत् सपीठ’मिति, भुक्तिमुक्तिकरमित्यत्र ‘सिद्धिमुक्तिकप्रद’मिति ‘पीठक’मित्यत्र ‘पीठग’मिति च
विपरिवर्त्तनेनोपलभ्यते । एवमन्यान्यपि लक्षणानि पौराणिकान्येवेति द्रष्टव्यम् ।
देवता—१६

१२२ देवतामूर्त्तिप्रकरणम्
ऊर्ध्वकृशं यदा लिङ्गं स्थूलं चाधो निवेशयेत् ।
तदा (भु ? मु)क्तिं विजानीयात् संसा(रस्थिति ?
रोच्छित्ति)कारणम् ॥ ११० ॥
[ सर्वावस्थास्वपि बाणस्य पूज्यत्वम् ]
ह्रस्वं दीर्घं (कृश?कृशं)स्थूलं षण्डं कुब्जञ्च वामनम् ।
त्र्य(स्तं?स्र-)पीठं चतुरस्रं स्थूलाग्रं चक्रसंयुतम् ॥ १११ ॥
रे(षा?खा)कीलकसंयुक्तं सुवर्णं च निवर्णकम् ।
रक्तं कृष्णं तथा श्यामं पीतं शुक्लं च पाण्डुरम् ॥ ११२ ॥
सदोषगुणसंयुक्तं बाणं पूज्यञ्च नित्यशः ।
बलाल्लक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ११३ ॥
तस्माच्छतगुणं (पुष्पं ?पुण्यं) तत्संस्थापनपूजनात् ।
बाणलिङ्गं तथा पूज्यं तत्संस्थापनमुत्तमम् ॥ ११४ ॥
[ बाणस्थापनप्रशंसा ]
सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम् ।
तत् फलं कोटिगुणितं प्राप्यते लिङ्गस्थापनात् ॥ ११५ ॥
यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् ।
सर्वागमोदितं पु(ष्पं? ण्यं) कोटिकोटिगुणं भवेत् ॥ ११६ ॥
शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीषु च ।
नर्मदायाश्च लक्षेण कोटिं च कुरुजाङ्गले ॥ ११७ ॥
कृत्वा स्नानञ्च (पी? पि)ण्डञ्च हुतं दानञ्च भोजनम् ।
गुणितं कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ११८ ॥
११० । ऊर्ध्वकृशमिति । पूर्वं 'भुक्तिमुक्तिकरं बाणम्' इत्युक्तम्, तन्न कीदृशं भुक्तिकारं
कीदृशं वा मुक्तिकरमित्येतदाह श्लोकद्वयेन, तत्रापि पूर्वश्लोके भुक्तिदलिङ्गलक्षणमुक्तमितीदानीं
मुक्तिदलिङ्गलक्षणमाहेत्यवधार्य अर्थवानपि यथाश्रुतः पाठो विपरिवर्त्तित इति ज्ञेयम् ।

षष्ठोऽध्यायः १२३
स्थापि(तं? ते) चैकलिङ्गे तु देवकल्पाभिवन्दिते ।
विमानकाञ्चनारूढो सुरवायैस्तु वायते ॥ ११९ ॥
भ्रमते सुर(लिङ्गन्तु ? लोके तु)च्छिन्नसंसार(वर्धनं ? बन्धनः) ।
सर्वसिद्धिकरं चैव सर्वकामफलप्रदम् ॥ १२० ॥
(बाणलिङ्गा तु लिङ्गानामाकर्षणां ?) स्वयम्भुवा ।
पीठं (प्र? प्रा)सादरूपञ्च यथेष्टं कारयेत् सुधीः ॥ १२१ ॥
[ एकास्त्रादिबाणमाहात्म्यम् ]
एका(स्व? स्त्र)बाणमारभ्य यावच्चतुर्दशा(श्रयम्? स्त्रकम्) ।
पूजया परया भक्त्या सर्वसौख्यप्रदं नृणाम् ॥ १२२ ॥
[ शिवतीर्थोदकलक्षणम् ]
धातवे शतहस्तेषु बाणे पञ्चशतेषु च ।
स्वयम्भूस्सहस्रहस्ते शिवतीर्थोदकं स्मृतम् ॥ १२३ ॥
[ शिवतीर्थोदकस्य पुण्यजनकत्वम् ]
स्नाने कृते महत् पुण्यं लिङ्गादिषु दिशं प्रति ।
[ शिवतीर्थोदकलङ्घने प्रत्यवायः ]
लङ्घिते च महत् पापं शिवस्नानोदके नृणाम् ॥ १२४ ॥
[ प्रदक्षिणनियमः ]
एकां चण्ड्यां (वरे ? रवौ) स(प्त ? त) तिस्रो दद्याद् विनायके ।
चतस्रो विष्णुदेवस्य शिवस्या(र्धं?र्धां) प्रदक्षि(णा?णाम्) ॥१२५॥
[ जैनदेवालये विशेषः ]
जैनदेवाग्रसंस्थाने स्तोत्रमन्त्रार्चनादिकम् ।
नैव (पृष्टिः?दृष्टिः) प्रदातव्या (सन्मुखं?) द्वारलङ्घनम् ॥१२६॥

: १२४ देवतामूर्त्तिप्रकरणम्
[ प्रणालदिङ्नियमः ]
पूर्वापरे यदा द्वारं प्रणालं चोत्तरे शुभम् ।
प्रशस्तं सर्वदेवानामिति शास्त्रार्थनिश्चयः ॥ १२७ ॥
[ पिण्डिकाया लक्षणम् ]
लिङ्गायामपृथुकॢप्तं पिण्डिकानान्तु लक्षणम् ।
(आ?तत्वा)दौ ब्रह्मविष्णोश्च पिण्डिकाना(मुपध्य?)विदुः ।
[ तस्याः स्वजातिकर्त्तव्यत्वम् ]
जात्यैकया विधातव्यं नेष्टमन्योन्यसंकरम् ॥ १२८ ॥
[ तत्र मतान्तरम् ]
आहुः शैलेष्टमेकेचित् पीठं पक्केष्टकाम(दम्?यम्) ।
[ पीठानां सन्धिस्थानम् ]
उपर्युपरि पीठानां सन्धिरङ्गावसानके ॥ १२९ ॥
[ नालमध्ये कर्णसन्धेर्निषेधः ]
नालस्य मध्यमध्ये च कर्णसन्धिं न सन्धयेत् ।
[ प्रणालभागकथनम् ]
प्रणालन्तु त्रिभागेन तत्तुल्यं चा(ग्रा?ग्रम)र्धकम् ॥ १३० ॥
त्रिधा विभक्तमग्रे तु मध्ये सजलमा(ग ? र्ग)तः ।
कन्दे तु पादमेकैकं मध्यवंशोद्गवाक्रु(ती ? ति) ॥ १३१ ॥
[ मेखला ]
पृथूपीठ(स्तुनां?गुणां)शेन मे(ष?ख)ला श्रवणाकृतिः ।
[ खातविधानम् ]
मेखला (च?) त्रिभागेन खातं कुर्यात्तथा परम् ॥ १३२ ॥
१२७ । यस्य देवालयस्य पूर्वस्यामपरस्यां वा दिशि द्वारं वर्त्तते तत्र उत्तरस्यां दिशि प्रणालः
कर्त्तव्यः। प्रणालो जलनिःसरणमार्गः।
१३२ । इदानीं पीठिकामाह—मेखलेति। पञ्चश्लोकीयं क्वचिद् विकृतपाठा क्वचिदन्त-
र्विच्छिन्नेति व्याख्यानायोग्या।

षष्ठोऽध्यायः १२५
(याम्योदरतत् ?) संपादमग्रे स्यात् सार्धभागिकम् ।
कूर्मपृष्ठोन्नताकारं दर्पणो(द्ववमस्तकम् ? दरसन्निभम् ) ॥१३३॥
[ पीठम् ]
मेखलामध्यकर्त्तव्या नवपीठन्तु कामदम् ।
भागैकं भूगतं कार्यं त्रिभागं (कर्त्तु?कण्ठ)पट्टिका ॥१३४॥
भा(गो?गा)र्धं मुखपट्टञ्च (स्कन्धसार्धत्रिभागोन्नतम्
?स्कन्धं सार्धत्रिभागतः) ।
स्कन्धश्च पट्टिकाद्व(यं न्द्रं) भागार्थं चान्तरपल्लिका ॥१३५॥
कणकं सार्धद्वयं भागै × × × कञ्चिन्निका मता ।
द्विभागं चान्तरपट्टं (क?च) (पोताविद्विसार्धका?) ॥१३६॥
(अर्धयं च मन्नासपट्टि?)कर्त्तव्यं विधिपूर्वकम् ।
अर्धे स्कन्धपट्टिकाख्या त्रिभागं स्कन्धशोभनम् ॥१३

१२६ देवतामूर्तिप्रकरणम्
(९)अर्धचन्द्रा (१०)त्रिकोणा च विज्ञेया दश पीठिकाः ।
[ पीठिकालक्षणम् ]
चतुरस्रा स्थण्डिला स्यात् संयुता मेख(ला?लै)कया ॥१४२॥
चतुरस्रा यदा वेदी सर्वकामफलप्रदा ।
[ इति स्थण्डिला(१) ]
कर्तव्या मण्डलाकारा मेखलाभिरलङ्कृता ।
मण्डला सा तु विज्ञेया गणानां सिद्धिहेतवे ॥१४३॥
[ इति मण्डला(५) ]
पूर्णचन्द्र (वि?नि)भाकारा मध्यन्यस्तद्विमेखला ।
विज्ञेया पूर्णचन्द्रा सा रुद्राणीशतसंप्रिया ॥१४४॥
[ इति पूर्णचन्द्रा(६) ]
षडस्रा च भवेद्वज्रा मेखलात्रयभूषिता ।
[ इति वज्रा(७) ]
षोडशास्रा भवेत् पद्मा किञ्चिच्च(स्या?स्यान्)
मृणालवत् ॥१४५॥
[ इति पद्मा ८) ]
लग्नज्यधनु(षा?रा)काराऽर्धचन्द्रा चैव सा भवेत् ।
[ इत्यर्धचन्द्रा(९) ]
त्र्यस्रा त्रिकोणा विज्ञेया सा शक्त्या सदृशा भवेत् ॥१४६॥
[ इति त्रिकोणा(१०) ]
[ आसां फलम् ]
स्थण्डिला पीठिका यत्र धनधान्यार्थदायिनी ।
महिषीगोप्रदा वापी यक्षी सर्वार्थदायिनी ॥१४७॥
१४६। लग्नज्येति ज्यायुक्तधनुराकृतिरित्यर्थः ; एवं ह्यर्द्धचन्द्राकृतिर्भवेत् ।
१४७। इदानीं पीठिकानां नामभेदेन फलान्याह—स्थण्डिलेति । अत्राऽऽद्यायाः स्थण्डिलायाः
परं वापीयक्षीवैरीणां तिसृणां पीठिकानां लक्षणं नोपलक्ष्यते । फलकथनप्रस्तावे पुनर्वापीयक्ष्योर्नामनी
दृश्येते, वैरी तु वैरायमाणेव दृष्टिपथं परिहृतवती ।

षष्ठोऽध्यायः १२७
मण्डला कीर्त्तिबहुला पूर्णचन्द्रा तु शान्तिदा ।
वज्रा शत्रुविनाशाय पद्मा सौभाग्यदायिनी ।
अर्धचन्द्रा सुखाय स्यात्त्रिकोणा शत्रुनाशिनी ॥१४८॥
[ पीठिकानां स्वजातिकर्त्तव्यता ]
शैलजे शैलजा योज्या दारुजे दारुजा शुभा ।
पार्थिवे पार्थि(वा?वी) कार्या लोहजे लोहजोत्तमा ।
रत्नजे धातुजा शस्ता रत्नजाता विशेषतः ॥१४९॥
[ प्रणालव्यवस्था ]
मूलादग्रं प्रणाल(स्या?स्य) प्रमाणा इधिकं शुभम् ।
जल(मग्राविभाषेण ?मार्गास्त्रिभागेन)
चाग्रतस्तु सुशोभनम् ॥१५०॥
[ मुखलिङ्गम् ]
सम्मुखं (चैव?चैक)वक्त्रं स्यात् लिव(क्त?क्त्वे) पृष्ठतो नहि ।
पश्चिमास्यं स्थितं शुक्लं कुङ्कुमाभं तथोत्तरम् ।
याम्यं कृष्णकरालञ्च प्राच्यं दीप्ताग्निसन्निभम् ॥१५१॥
[ मुखनामानि ]
सद्यो वामं तथाऽघोरं पुरुषञ्च चतुर्थकम् ।
पञ्चमञ्च तथेशानं योगिनामप्यगोचरम् ॥१५२॥
इति पीठिकामुखलिङ्गाधिकारः ।
वामे गणाधिपत्यञ्च दक्षिणे पार्वती स्मृता ।
नैर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ १५३ ॥
१५१। मुखलिङ्गमाह—सम्मुखमिति । एतत्पूर्वार्द्धत्वेन रूपमण्डने—
'मुखलिङ्गं त्रिवक्त्रं वा एकवक्त्रं चतुर्मुखम्'
( अ० ४, श्लो० १३ )

१२८ देवतामूर्तिप्रकरणम्
मातृभिर्मातृस्थानं कारयेद्दक्षिणां दिशम् ।
सौम्ये शान्तिग्रहं कुर्या(द?द्य)क्षाधीशञ्च पश्चिमे ॥ १५४ ॥
इत्येकद्वारशिवायतनम् ।
वामे ज्ञानगृहं कुर्याद् (यशो?)द्वारञ्च दक्षिणे ।
मध्ये रुद्रः प्रकर्त्त(व्यं?व्यो) मातृस्थानञ्च दक्षिणे ॥१५५॥
(वाम?वामे) देवी महालक्ष्मीरुमा वै भैरवस्तथा ।
ब्रह्मा विष्णुस्तथा रुद्रः पृष्ठदेशे तु कारयेत् ॥ १५६ ॥
चन्द्रादित्यौ स्थितौ कर्णे आग्नेय्यां स्कन्दमेव च ।
ईशाने विघ्नराजं तु धूम्रमीशानगोचरे ॥ १५७ ॥
इति चतुर्मुखशिवायतनम् ।
मातुलिङ्गञ्च नागेन्द्र(?) डमरुं चाक्षसूत्रकम् ।
नन्दी मुकुटशोभाढ्यः सर्वाभरणभूषितः ॥ १५८ ॥
खट्वाङ्गञ्च कपालञ्च डमरुं बीजपूरकम् ।
दंष्ट्राकरालवदनं महाकालन्तु दक्षिणे ॥१५९॥
इति पूर्वप्रतीहारौ ।
तर्जनी च त्रिशूलञ्च डमरुं गजमेव च ।
(हरेश्र्व?हेरम्बो) वामभागे स्याद् भृङ्गी दक्षिणतः शृणु ॥१६०॥
गजं डमरुखट्वाङ्गं तर्जनीवामहस्तकः ।
उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः शुभः ॥१६१॥
इति दक्षिणप्रतीहारौ ।
त्रिशूलं डमरुश्चैव खट्वाङ्गश्च कपालकम् ।
डमरुञ्च तथा दण्डं बीजपूरं तथैव हि ॥१६२॥
इत्यर्द्धं प्राप्यते, युक्तञ्चैतत्; इह लेखकप्रमादात् त्रुटितम् । सम्मुखमिति चतुर्वक्त्रे एकं वक्त्रं
सम्मुखं स्यात्, त्रिवक्त्रे लिङ्गे पृष्ठतः पृष्ठदेशे वक्त्रं न हि कारयेदिति शेषः ।

षष्ठोऽध्यायः १२६
द्वारे पश्चिमके कार्यः पाण्डुरो वामदक्षिणे ॥ १६३ ॥
इति पश्चिमप्रतीहारौ ।
मातुलिङ्गं मृणालञ्च खट्वाङ्गं पद्मदण्डकम् ।
सितश्चैवोत्तरे द्वारे वामे चैव व्यवस्थितः ॥ १६४ ॥
पद्मदण्डञ्च खट्वाङ्गं मृणालं बीजपूरकम् ।
असि(नो?तो) दक्षिणे भागे उत्तरे द्वार एव च ॥१६५॥
[ इत्युत्तरप्रतीहारौ ]
[ वाहनविधानम् ]
वाहनं यस्य देवस्य तत्तस्याग्रे प्रकल्पयेत् ।
एक-द्वि-त्रि-च (तत् ?तुः)पञ्च वा षट्-सप्तपदान्तरे ॥१६६॥
वाहनं मूर्त्तिलिङ्गञ्च मूलप्रासादमानतः ।
वृषभस्य (विभावन्ते?)लिङ्गे दृष्टां नियोजयेत् ।
सूर्यस्याग्रे भवेत् सोमस्तनसूत्रसमोद(यं?यः) ॥१६७॥
१६२ । अनेन वक्ष्यमाणयोः पश्चिमप्रतीहारयोरायुधानि प्रतिपादितानीति तत्त्वम् ।
सर्वेषामेव प्रतीहाराणां चतुर्भुजत्वमनुमीयते प्रहरणचातुर्विध्यात्, इह तु द्वितीयार्धे त्रीण्येव
प्रहरणानि प्राप्यन्ते । रूपमण्डने तु—'कपालं डमरुं दण्डं बीजपूरं तथा दधत्' ( अ० ४, श्लो०
१०४) इति यथापूर्वं चत्वार्यैवाऽऽयुधानि लभ्यन्ते ।
१६३ । प्रतिद्वारं द्वौ द्वौ प्रतीहाराविति प्रकृतम्, इह त्वेक एव लभ्यते 'पाण्डुर'
इति । रूपमण्डने—'दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा' ( अ० ४, श्लो० १०६ )
इति द्वावेव प्रतीहारौ निर्दिष्टौ । अत्र ग्रन्थकृत्प्रमादादेकः प्रतीहारो लुप्तः किं वा पाण्डुरनामानौ
द्वावेव प्रतीहाराविति चिन्तनीयम् । एवञ्च 'पाण्डुरा'विति द्विवचनमेव न्याय्यमुत्पश्यामः । अत्र
'वामदक्षिण' इति युगपदुभयपार्श्वयोरुल्लेखात् पाण्डर इत्येकेनैव नाम्ना निर्दिष्टौ द्वौ प्रतीहाराविति
च नायौक्तिकं वक्तुमर्हामः । अपि च पूर्वश्लोके द्विधैवाऽऽयुधानि प्रतिपादितानीत्यपि प्रतीहार-
द्वैधं निर्बाधमुपन्यस्यति ।
१६४-१६५ । उत्तरद्वारप्रतीहारावाह—सितश्चेति । उत्तरे द्वारे वामे सितः दक्षिणे असित
इति वर्तुलॊऽर्थः । तदयं संक्षेपः—पूर्वद्वारोभयपार्श्वयोर्नन्दिमहाकालौ, दक्षिणद्वारपार्श्वयोर्हेरम्ब-
भृङ्गणौ, पश्चिमद्वारपार्श्वयोः पाण्डुरौ, उत्तरद्वारपार्श्वयोश्च सितासिताविति ।
देवता—१७

१३० देवतामूर्त्तिकरणम्
[ वाहनदृष्टिकथनम् ]
पादं जानु कटिं यावन् (मर्जौ?मूर्त्तौ)वाहनदृक् शुभा ।
स्था(नं?न) नाशं करोत्यूर्ध्वाऽधोदृष्टिश्च प्रजाक्षयम् ॥१६८॥
(धात?धाता) दिवं प्रति(हातः?गतः) कलनेऽस्य रूपं
(तत्यादयुग्ममगमदहाशो हरिहरश्च?) ।
यातौ न पारममरे(ष्वपी?ष्वपि) नंदनी(मा?य-)
मव्य(ता?क्त)रूपममराधिपतेश्च पातु ॥ १६६ ॥
इति श्रीक्षेत्रा × × × × विरचिते वास्तुशास्त्रे रूपावतारे
रुद्रमूर्त्तिलिङ्गाधिकारो नाम षष्ठमो(?)ऽध्यायः ।
१६८ । व्याख्यातमिदं प्राक् (पृ० ८८, श्लो० ६६) ।
१६९ । अन्ते अध्यायान्तर्मुख्यतः प्रतिपाद्यसारं महादेवं स्तौति-धातेति । द्वितीयपादे
'तस्मादयुग्ममगमद् बहुशो हरिश्चे'ति कथञ्चित् स्यात् । तथाचायमर्थः-अस्य रूपं कलने रूपं
कलयितुमित्यर्थः, धाता दिवं प्रतिगतः, हरिश्च तस्माद् धातुर्युग्मं पृथगित्यर्थः, बहून्
लोकानगमत्, उभावपि यस्य पारमन्तं न यातौ तस्याव्यक्तं रूपं पातु । 'तवैश्वर्यं यत्ताद्
यदुपरि विरिञ्चिर्हरिरधः परिच्छेत्तुं यातौ' इत्यादि स्मृतिरत्र मूलमनुसन्धेयम् ।

सप्तमोऽध्यायः
—:*:—
[ अथ चतुर्विंशतितीर्थङ्कराः ]
(१)ऋषभाश्चा(२)जितश्चैव ((३)सम्भवैश्या?सम्भवश्चा)(४)भिनन्दनः ।
(५)सुमतिः (६)पद्मनाभश्च ((७)सूर्याश्चे?सुपार्श्वः) सप्तमानतः ॥१॥
(८)(चन्द्रः?चन्द्र) प्रभः (६)पुष्पद(न्त ? न्तः) (१०)शीत(ला ? लो)
दशमो मतः ।
(११)श्रेयांसो (१२)वासपत्न्यश्च (१३)विमलो(१४)ऽनन्त((१५)तद्गकः ?
धर्मकौ) ॥ २ ॥
(१६)शान्तिश्च(१७-१८)( पुथारु ? कुन्थनाथार ) (१६)मल्ल्यो
(२०)मुनिसुव्रतः ।
(नाभि या ? (२१)नमि (२२)नेमि-पा(२३)र्श्वनाथो(२४)वर्धमान-
स्ततः परम् ।
चतुर्विंशतिरित्येते मतास्तीर्थङ्करा बुधैः ॥ ३ ॥
१-३ । यावद् दैवतमूर्त्तिं कर्तुकामः सम्प्रदायविशेषाणामेव तामभिधाय यद्यन्तरा विरमे-
त्तदाऽवशिष्टाऽपि जैनदेवतानां मूर्त्तिः किमनेनाज्ञानादवज्ञानाद्वापेक्षितेति शिष्याणां भ्रमो मा
भूदिति जिनानां मूर्त्तिमाह—ऋषभ इति । जिनाश्च सर्व एव समानाकृतयश्च इति तेषां मूर्त्तौ
विशेषमनभिधाय विशेषवतीस्तत्तच्छासनदेवतानां मूर्त्तीरेवाग्रे लक्षयिष्यतीति ज्ञेयम् ।
जैनानां समये उत्सर्पिण्यवसर्पिणीति द्विधा युगानि भिद्यन्ते । तत्रावसर्पिण्यां जना उन्नताः
क्रमेणावनतिं प्रपद्यन्ते, उत्सर्पिण्याञ्चावनता जनाः क्रमेणोन्नतिं लभन्ते । अवसर्पिणी अतीत-
युगस्य उत्सर्पिणी वर्त्तमानयुगस्य संज्ञा । अवसर्पिण्याख्ये व्यतीतयुगे चतुर्विंशतितीर्थङ्करा
विलीनाः, वर्त्तमाने उत्सर्पिण्याख्ये युगे पुनश्चतुर्विंशतिरुद्बभूवुः । तेषामेवायमधिकारः कालः,
त एव च जैनैर्देवाधिकत्वेन पूज्यन्ते मन्यते च देवा अप्येतानर्चयन्तीति । अत्र च वर्त्तमान-
युगीयतीर्थङ्कराणामेव मूर्त्तिः क्रमेणोल्लिखितेति ज्ञेयम् । रूपमण्डने पुनः—'एतस्या(मिव ? मव )
सर्पिण्या ( ऋ ? ष् ) षभो ( जिन ? ऽजित ) सम्भवः' (अ० ६, श्लो०) इत्युपक्रमो दृश्यते ।

१३२ देवतामूर्त्तिप्रकरणम्
[ जिनानां वर्णाः ]
रक्तौ च पद्मप्रभवासपूज्यौ
शुक्लौ च चन्द्रप्रभपुष्पदन्तौ ।
कृष्णौ पुनर्नेमिमुनी च नीलौ
श्रीमल्लि(पार्श्वे ? पार्श्वौ) कन(कत्विषा ? कत्विषोऽ) न्ये ॥ ४ ।
ऋषभ इति अस्याऽऽदिनाथ इति नामान्तरम् । (६)पद्मनाभस्यापि पद्मप्रभ इति नामान्तरं
रूपमण्डने (अ० ६, श्लो० १), शीलरत्नसूरिकृते चतुर्विंशतिजिनस्तुतिसंग्रहाख्ये ग्रन्थे चोपलभ्यते ।
ग्रन्थकृताऽप्युत्तरत्र वर्णनिर्णयावसरे 'पद्मप्रभ' इत्येव नाम धृतमिति द्वयमपि साधु । सप्तमान्त
इति सुपार्श्वः सप्तम इत्यर्थः । (८)चन्द्रप्रभ इति, चन्द्रप्रभुरिति जिनस्तुतौ सूचनायामुपलभ्यते ।
मूलग्रन्थे पुनः—
‘चन्द्रप्रभ त्रिभुवनाधिपते प्रसीद सौभाग्यसुन्दरविभो कुशलाचलीद’
इति यथोक्तमेव नाम दृश्यते । यच्च जैनपद्मपुराणे ‘शशिभृत्प्रभुः’ (पर्व० २० श्लो० ८)
इत्युपलभ्यते, तत्र ‘शशभृत्प्रभः’ ‘शशभृत्प्रभु’र्वा भविष्यतीति सम्भावयामः। (९) पुष्पदन्त
इत्यस्य रूपमण्डने (अ० ६, श्लो० २), जिनस्तुतौ, पद्मपुराणे च ‘सुविधि’रिति नाम । यद्यपि
‘तक्षक’ इत्यत्र लिपिकृतप्रमादबुद्ध्या ‘धर्मक’ इति कल्पनमतिसाहसं तथाऽपि यथार्थपाठोद्धारे
बद्धपरिकराणामस्माकं न केवलं लिपिकृतप्रमादोच्छेदे तात्पर्यं सङ्कोचनीयम्, दर्शितमेतदर्वाग्
दर्शयिष्यते चेत ऊर्ध्वमपि । उपलभ्यते च ‘धर्मक’ इति नाम जैनपद्मपुराणादौ रूपमण्डने च
(अ० ६, श्लो० ३१)। एवञ्च ‘पुष्पदन्त’ इत्यत्राप्यपेक्षिता शुद्धिर्न कृतेति न्यूनतां छन्दस्या-
सञ्जयता कथञ्चित् सुखमनुभूयते । यद्वा उभयत्राप्यनपेक्षिता शुद्धिस्तन्त्रान्तरे तथाविधाभिधानस्य
सम्भवादिति दिक् ।
नमीति । नाथपदस्य सर्वत्रैवान्वयः, नमिनाथो नेमिनाथः पार्श्वनाथश्चेति । किञ्च ऋषभ
इत्यादीनि सर्वाण्येव नामानि नार्थान्तानीति ज्ञेयम् । वर्धमान इत्यस्य महावीर इति नामान्तरम्
अस्यैवायं शासनकालः । तथाच—‘पश्चिमो वीरो शासनं यस्य वर्त्तते’ इति (जै० प० २०।१०)
४। जिनानां वर्णानह—रक्तौ चेति । जैनपद्मपुराणे पुनरन्यथैव वर्णनिर्देशः ।
तथाच—
चन्द्राभश्चन्द्रसंकाशः पुष्पदन्तश्च कीर्त्तितः । प्रियङ्गुमञ्जरीवर्णः सुपार्श्वो जिनसत्तमः ॥
अपक्वशालिसङ्काशः पार्श्वो नागाधिपस्तुतः । पद्मगर्भसमच्छायः पद्मप्रभजिनोत्तमः ॥
किंशुकोत्करसंकाशो वासुपूज्यः प्रकीर्त्तितः । नीलाञ्जनगिरिच्छायो मुनिसुव्रततीर्थकृत् ॥
मयूरकण्ठसंकाशो जिनो यादवपुङ्गवः । द्युतसत्काञ्चनच्छायाः शेषा जिनवराः स्मृताः ॥
इति (पर्व० २० श्लो० ६३—६६) ।

सप्तमोऽध्यायः १३३
[ जिनानां ध्वजाः ]
(१)वृषो (२)गजोऽ(३)श्वः (४)प्लवगः (५)क्रौञ्चो (ज्वं ? (६)ऽब्जं)
(७)स्वस्तिकः (८)शशः ।
(६)मकरः (१०)श्रीवत्स(षट्भि ? (११)खड्गी) (१२)महिषः
(१३) शूकरस्तथा ॥ ५ ॥
(१४)श्येनो (१४)वज्र(१६)मृग(१७)च्छागा (नद्या ? (१८)नन्द्या)
वर्त्तो (१६)घटोऽपि च ।
(२०)कूर्मो (२१)नीलोत्पलं (२२)शंखः (२३)फणी (षिह्नो ? (२४)सिंहो)
ऽर्हतां ध्वजाः ॥ ६ ॥
[ जिनानां जन्मभानि ]
(१)उत्तराषाढ(२)रोहिण्यौ (३)मृगशीर्षं (४)पुनर्वसुः ।

३६४ देवतामूर्त्तिप्रकरणम्
[ जिनानां जन्मराशयः ]
(१)धनु(२)वृषोऽथ (३)मिथुनं (४)मिथुनं (५)सिंह(६)कन्यके ।
(७)तुला(८)वृश्चिक(९)चापनि (१०)धनु(११)मर्कर(१२)कुम्भकौ ॥ १० ॥
(१३)मीनो (१४)मीनः ( कर्म ? (१५)कर्क ) (१६)मेषौ (१७)वृषो
(१८)मीनश्च (१६)मेषकः ।
(२०)मकरो (२१)मेष(२२)कन्ये च (२३)तुला (२४)कन्येति
राशयः ॥ ११ ॥
[ जिनोपासकयक्षनामानि ]
स्याद् (१)गोमु(ख्ये ? खो) (२)महायक्ष(३)त्रिमुखो (४)यक्षनायकः ।
(५)तुम्बरः (६)कुसुमश्चापि (७)मातङ्गो (८)विजयो
( (६)

सप्तमोऽध्यायः १३५
(२०)नरदत्ता च (२१)गान्धार्य्(२२)धिका (२३)पद्मावती तथा ।
(२४)सिद्धायका चेति जैन्यः क्रमाच् शासनदेवताः ॥ १६ ॥
[ अथ यक्षाणां मूर्त्तिलक्षणम् ]
अथातः संप्रवक्ष्यामि यक्षिणीयक्षमूर्त्तयः ।
ऋषभ(भो ? भे) गोमुखो यक्षो हेमवर्णो गजासनः ॥ १७ ॥
वराक्षसूत्रं पाशञ्च बीजपू(रं) करेषु च ॥ १८ ॥
[ इति गोमुखः १ ]
चक्रेश्वरी हेमवर्णा तार्क्ष्यारूढाऽष्टबाहुका ।
वरं बाणं चक्रपाशांकुश(वक्ता ? शक्त्य)शनिर्धनुः ॥१९॥
[ इति चक्रेश्वरी १ ]
अ(ति ? जि)तस्य महायक्षो (हर्मा ? हंसा)रूढश्चतुर्मुखः ।
वरमुद्गरा(शा ? शनि)पाशाङ्कुशशक्त्यभयानि
बीजपूरं च ॥ (?) २०॥
[ इति महायक्षः २ ]
चतुर्भुजा गौरवर्णा गोधारूढाऽपराजिता ।
वरं चैव तथा पाशमङ्कुशं बीजपूरकम् ॥ २१ ॥
[ इत्यपराजिता ? अनितबला २ ]
सम्भवे त्रिमुखो यक्षः श्यामो मयूरवाहनः ।
नकुलगदाभयाक्षं नागञ्च बीजपूरकम् ॥ २२ ॥
[ इति त्रिमुखः ३ ]
१७ । इदानीं यस्य तीर्थङ्करस्य यो यक्ष उपासकः, या च शासनदेवता तान् क्रमेण
वक्तुमाह—अथात इति । तत्र एकेन श्लोकेन यक्षमूर्त्तिरन्येन शासनदेवतामूर्त्तिर्वक्ति । एवमेव
चतुर्विंशतितीर्थङ्कराणाम् उपासकान् शासनदेवताश्च प्रतिपादयतीति द्रष्टव्यम् ।
२० । बाहुबाहुल्यादायुधबाहुल्यं ततश्चाक्षरबाहुल्यं छन्दस इति सोढव्यमेव तत् ।

१३६ देवतामूर्त्तिप्रकरणम्
दुरितारिगौरवर्णा यक्षिणी महिषासना ।
वरदं चाक्षसूत्र(ञ्च ? ञ्चा)भयञ्च बीजपूरकम् ॥ २३ ॥
[ इति दुरितारिः ३ ]
श्यामव(र्णा ? र्णो) गजारू(ढा ? ढ) ईश्वर-
(श्वा ? श्चा)भिनन्दने ।
मातुलिङ्गाक्षसूत्रञ्च अङ्कुशं नकुलं तथा ॥ २४ ॥
[ इति यक्षनायकः ४ ]
कालिका श्यामवर्णा स्या(त्) पद्मारूढा चतुर्भुजा ।
वरं पाशाङ्कुशं नागं दक्षिणा( खश्च ? धश्च ) सृष्टितः ॥२५॥
[ इति कालिका ४ ]
तार्क्ष्यस्थं (वरदं ? तुम्बरं) श्वेतं सुमतौ तु चतुर्भुजम् ।
वरदं च तथा शक्तिनागपाशं गदा(धरे ? करे) ॥ २६ ॥
[ इति तुम्बरः ५ ]
महाकाली ( महे ? हेम )वर्णा पद्मारूढा चतुर्भुजा ।
वरदं नागपाशं चाङ्कुशं स्याद् बीजपूरकम् ॥ २७ ॥
[ इति महाकाली ५ ]
( पद्मपन्नत्र ? पद्मनाभस्य ) कुसु ( मे ? मो )
नीलो हरिणवाहनः ।
बीजपूराभयं चैवाक्षसूत्रं नकुलं तथा ॥ २८ ॥
[ इति कुसुमः ६ ]
२४। ईश्वर इति यक्षनायक इत्यर्थः ।
२५। दक्षिणाधश्च सृष्टित इति सृष्टिक्रमेण अनुलोमेनेत्यर्थः । दक्षिणाधश्च इति
दक्षिणयोर्हस्तयोरधःक्रमेण ।
२८। यद्यपि ‘पद्मपन्नत्र’ इत्यत्र ‘पद्मप्रभस्य’ इत्येव शुद्धिः स्वाभाविकी पद्मप्रभश्च
नामान्तरमित्युक्तम्, तथाऽपि मूले तथाविधपाठानुपलम्भादियं शुद्धिरस्माभिः कृता ।

सप्तमोऽध्यायः १३७
श्यामा च श्यामवर्णा स्यान्नरारूढा चतुर्भुजा ।
वरं बाणाभयं चापं तस्या हस्तेषु च क्रमात् ॥ २६ ॥
[ इति श्यामा ६ ]
सुपार्श्वे नीलवर्णः स्यान्मा ( तङ्गे ? तङ्गो ) गजवाहनः ।
हस्तेषु (निल? शूलं) पाशं चाङ्कुशं च नकुलं तथा ॥ ३० ॥
[ इति मातङ्गः ७ ]
शान्ता [ भवेत् ] सुवर्णास्या गजारूढा चतुर्भुजा ।
वरदं चाक्षसूत्रं चाभयं तस्मात्त्रिशूलकम् ॥ ३१ ॥
[ इति शान्ता ७ ]
चन्द्रप्रभस्य विजयो त्रिनेत्रो हंसवाहनः ।
द्विभुजो नीलवर्णः स्याच्चक्रं च मुद्गरं क्रमात् ॥ ३२ ॥
[ इति विजयः ८ ]
भृकुटिः पीतवर्णा स्यात् सिंहारूढा चतुर्भुजा ।
खड्गं तथा मुद्गरञ्च परशुं खेटकं क्रमात् ॥ ३३ ॥

.... Wait, why would it be त्तम? Because in manuscript transcription, an unclosed क्षis frequently misread by the pandit/scribe asत्त! (In Śāradā, Devanagari, Nandinagari, etc., क्षandत्तoften look similar or scribes confuse them). The editor printed what the manuscript had:पाशात्तमभयाङ्कुशखेटकम्! Wait, let's keep पाशात्तमभयाङ्कुशखेटकम्orपाशाक्षमभयाङ्कुशखेटकम्? Let's look very carefully at that letter. Wait, let's look at पाशात्तमभयाङ्कुशखेटकम्: Yes, it is spelled पाशात्तमभयाङ्कुशखेटकम्`.

Check L22:
मातुलुङ्गः, अम्लरसः फलविशेषोऽयम् ।
Yes, अम्लरसः is clearly legible now.

Check L16:
मातुलिङ्गञ्च बाणञ्च धनुर्र्नकुलमेव च ॥ ४० ॥
Wait, धनुर्र्नकुलमेव: ध न ु र्र्न क ु ल मे व. Yes!

Everything is solid and precise.१३८ देवतामूर्त्तिप्रकरणम्
शीतले नाथे [स्याद्]

सप्तमोऽध्यायः १३६
धनुश्चक्रञ्च नकुलं दक्षिणाधःकरक्रमात् ।
[ इति षण्मुखः १३ ]
पद्मस्था विदिता पीता बाणपाशाहिकामुर्कम् ॥ ४१ ॥
[ इति विदिता १३ ]
पाताल ( त्रि ? स्त्र्रि ) मु ( खा ? खो ऽ ) नन्ते
र(क्ता ? क्तो) मकरवाहनः ।
पद्मखड्गं तथा पाशमक्षं खेटञ्च नाकुलम् ॥ ४२ ॥
[ इति पातालः १४ ]
अङ्कुशी गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा ।
खड्ग ( स्त ? न्त ) था नागपाशमङ्कुशं खेटकं तथा ॥४३॥
[ इत्यङ्कुशी १४ ]
किन्नरस्त्रिमुखो धर्मे लोहि( ते ? तः ) कूर्मवाहनः ।
बीजपूरं गदां चाभयाक्षमा [ ला ] ब्जनाकुलम् ॥ ४४ ॥
[ इति किन्नरः १५ ]
कन्दर्पा गौरवर्णा स्यान्मत्स्यारूढा चतुर्भुजा ।
उत्पलं चाङ्कुशं हस्तेऽभयं पद्मं क्रमाद् भवेत् ॥ ४५ ॥
[ इति कन्दर्पा १५ ]
गरुडः शान्तिनाथस्य श्यामः शूकरवाहनः ।
वाराहवदनो बीजपूरपद्माक्षनाकुलैः ॥ ४६ ॥
[ इति गरुडः १६ ]
निर्वाणो गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा ।
पुस्तकं चोत्पलं पद्मं कमण्डलुः क्रमाद् भवेत् ॥ ४७ ॥
[ इति निर्वाणी १६ ]
४१ । बहुबाहुरयं षण्मुख इति सम्भाव्यते आयुधबाहुल्यदर्शनात् ।
४२ । त्रिमुखत्वात् पातालः षड्भुज इति षडेवाऽऽयुधानि ।
४४ । किन्नरोऽपि त्रिमुख त्वात् षड्भुजः ।

१४० देवतामूर्त्तिप्रकरणम्
कुन्थनाथस्य गन्ध(र्वो हिंस ? र्वः सिंह) स्थः श्यामवर्णभाक्
वरदं नागपाशं चाङ्कुशं वै बीजपूरकम् ॥ ४८ ॥
[ इति गन्धर्वः १७ ]
गौरवर्णा मयूरस्था बीजपूरत्रिशूलने ।
( पद्ममुषंधिका ? ) चैव स्याद् बला नाम यक्षिणी ॥४६॥
[ इति बला १७ ]
अरुनाथस्य यक्षेन्द्रस्त्रिनेत्रः शेषवाहनः ।
षण्मुखः श्यामवर्णा(स्या ? स्यो) मातुलिङ्गं शिरस्तथा ॥५०॥
खड्गं मुद्गरपाशौ चाभयाक्षाङ्कुशशूलकम् ।
खेटं धनुश्च नकुलं भुजा द्वादश कीर्त्तिताः ॥ ५१ ॥
[ इति यक्षेट् १८ ]
धारिणी यक्षिणी नीलपद्मवर्णासनस्थिता ।
मातुलिङ्गोत्पलं चाक्षमालापद्मं करेषु च ॥ ५२ ॥
[ इति धारिणी १८ ]
मल्लो (सुतः?सितः) (कुषोरोह?कुबेरोऽथ) रथारूढश्चतुर्मुखः।
वरपर्शुंलमभया मुद्गरं शक्तिलुङ्गकम् ॥ ५३ ॥
[ इति कुबेरः १९ ]
कृष्णवर्णा चतुर्हस्ता पद्मस्था धरणप्रिया ।
वरदं चाक्षसूत्रञ्च शक्तिर्वै मातुलिङ्गकम् ॥ ५४ ॥
[ इति धरणप्रिया १९ ]
त्रिनेत्रो वरुणो यक्षो धवलो मुनिसुव्रते ।
वृषवाहश्चतुर्वक्त्रो जटामुकुटमण्डितः ॥ ५५ ॥
५३ । पर्शुं लमिति वरदमित्यादिवद् बाहुविशेषणम् ; पर्शुः परशुपर्यायः ।