सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 247, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 247

१६० देवतामूर्त्तिप्रकरणम्
वराक्षपद्मपुस्तकं शुभावहा च भारती ।
[ इति भारती—३ ]
वराम्बुजाक्षपुस्तकं सरस्वती प्रकीर्त्तिता ॥ ८१ ॥
[ इति सरस्वती—४ ]
वराक्षं पुस्तकं पद्मम् आर्या नाम प्रकीर्त्तिता ।
[ इत्यार्या—५ ]
वरपुस्तकाक्षपद्मं ब्राह्मी नाम सुखावहा ॥ ८२ ॥
[ इति ब्राह्मी—६ ]
वरपद्मवीणापुस्तकं महाधेनुश्च नामतः ।
[ इति महाधेनुः—७ ]
वरञ्च पुस्तकं वीणा वेदगर्भा तथाऽम्बुजम् ॥ ८३ ॥
[ इति वेदगर्भा—८ ]
अक्षं तथाऽभयं पद्मं पुस्तकेनेश्वरी भवेत् ।
[ इतीश्वरी—९ ]
(असपतं ? अक्षं पद्मं) पुस्तकञ्च महालक्ष्मीस्तथोत्पलम् ॥८४॥
[ इति महालक्ष्मीः—१० ]
अक्षं पद्मं पुस्तकं च महाकाल्यभयं तथा ।
[ इति महाकाली—११ ]
अक्षपुस्तकमभयं पद्मं महासरस्वती ॥ ८५ ॥
[ इति महासरस्वती—१२ ]
इति द्वादश सरस्वत्यः ।
अष्टादश(जया ? भुजा) कार्या भद्रकाली मनोहरा ।
(अ ? आ)लीढस्थानसंस्था तु कर्त्तव्या सौख्यदायका ॥ ८६ ॥
अक्षमाला त्रिशूलञ्च खड्गश्चक्रं करेषु च ।
वामे तु चापं कर्त्तव्यं शङ्खपद्मौ तथैव च ॥ ८७ ॥
८६। आलीढेति। दक्षिणं पादमग्रतः कृत्वा वामपादाकुञ्चनमालीढस्थानम्, तेन
सन्तिष्ठत इति आलीढस्थानसंस्था ।