रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 231, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः
———•———
अथ गौरीं प्रवक्ष्यामि प्रमाणं मूर्त्तिलक्षणम् ।
चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ।
गोधासनोपरिस्था च कर्त्तव्या सर्वकामदा ॥ १ ॥
[ इति गौरीमूर्त्तीनां सामान्यलक्षणम् ]
( उत्तमा?उमा च ) पार्वती गौरी ललिता च श्रिया तथा ।
कृष्णा च हिम( वन्ति ? वन्ती ) च रम्भा च सावित्री तथा ।
त्रिखण्डा तोतला चैव त्रिपुरा द्वादशोदिताः ॥ २ ॥
[ इति गौरीनामानि ]
अक्षसू( त्रा?त्रं ) च कमलं दर्पणञ्च कमण्ड( लु ? लुं ) ।
उमाना( म्नि?नी ) भवेन्मूर्त्तिः पूजिता त्रिदशैरपि ॥ ३ ॥
[ इत्युमा ]
अक्षसूत्रं शिवं देवं गणाध्यक्षं कमण्डलुम् ।
अग्निकुण्डोभये पक्षे पार्वती पर्वतोद्भवा ॥ ४ ॥
[ इति पार्वती ]
─────────────────────────────────────────────────────────────
१ । पञ्चमाध्याये वैष्णवप्रकरणे शिलाचक्रलक्षणं विष्णोर्मूत्त्यन्तराणि च प्रतिपादितानि ।
षष्ठे शैवे शिवमूत्तिः शिवलिङ्गानि प्रसङ्गतो मण्डपविषये विशेषाश्च प्रतिपादिताः । अन्तरा
सप्तमे जैनाधिकारे जिनतदुपासकतच्छासनदेवताः सलक्षणाः साभिधानाः प्रतिपाद्याष्टमे
शाक्ताधिकारे शक्तीनां मूर्त्तीर्वक्तुमासां गौर्यशतया मूलीभूतां गौरीं लक्षयति—अथेति । 'चतु-
र्भुजा त्रिनेत्रा च सर्वाभरणभूषिते'ति अविशेषेण सर्वासागेव गौरीमूर्त्तीनां लक्षणम् ; अत एव प्रत्येक-
लक्षणे भुजनेत्रादीनामुल्लेखो न कृतः । 'गौर्याः प्रवक्ष्यामी'ति रूपमण्डने पाठः । (५।१) ।
२ । कास्तावद् गौर्या मूर्त्तय इत्यपेक्षायामाह—उमा चेति । अयमासाम् उद्देशः । रूप-
मण्डने अयमुद्देशनिर्देशो नास्ति । तत्र 'अथ गौर्याः प्रवक्ष्यामी'त्युपक्रम्यैव क्रमेणाऽऽसां लक्षणानि
लिखितानि ।
४ । 'अग्निकुण्डोभये पक्षे' इत्यत्र 'पक्षद्वयेऽग्निकुण्डञ्च' इति रूपमण्डने (५।२) ऋज्वर्थः
पाठः ।