रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 245, कुल 335 में से
संदर्भ में पढ़ें१५८ देवतामूर्त्तिप्रकरणम्
वामे चापमधो घ(ण्टा ? ष्टां) कमलं कुक्कुट(स्त्व ? न्व)धः ।
परशुं बिभ्रती दक्षे तदधस्त्वभयान्विता ॥ ६७ ॥
[ इति कौमारी ]
वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा वनमालिनी ।
वरदा (दा ? ग)दिनी दक्षे दधती चाऽऽयुधस्रजम् ॥ ६८ ॥
शङ्खचक्राभ(या ? यैः) वामे (सच्चैर्य ? सा चैव) विलसद्भुजा ।
[ इति वैष्णवी ]
कृष्णवर्णा तु वाराही शूकरास्या महोदरा ॥६६॥
वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा ।
खेटपाशाभ(या ? यैः)वामे सैव चापि लसद्भुजा ॥७०॥
[ इति वाराही ]
ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजसंस्थिता ।
वरदा सूत्रिणी वज्रं बिभ्रत्यूर्द्ध्वं तु दक्षिणे ।
वामे तु कलशं पात्रमभयं तदधःकरे ॥ ७१ ॥
[ इति ऐन्द्री ]
चामुण्डा प्रेतगा रक्ता विकृतास्याऽहिभूषणा ।
दंष्ट्र(दा ? ला) क्षीणदेहा च गर्त्ताक्षी भीमरूपिणी ॥ ७२ ॥
दिग्बाहुः क्षामकुक्षिश्च मुसलं ( चक्रयं ? चक्रकं ) शरः ।
अङ्कु(शी ? शं) बिभ्रती खड्गं ... ... चाप्यथ वामतः ॥७३॥
खेटं पाशधनुर्दण्डकुठारं (वे ? चे)ति बिभ्रती ।
[ इति चामुण्डा ]
६९ । शङ्खचक्राभयैरिति । वामभागे शङ्खचक्रादिभिर्विलसद्भुजेत्यन्वयः ।
७१ । ऊर्द्ध्वं इत्यूर्द्ध्वक्रमेण ।
७३ । 'अङ्कुशं बिभ्रती खड्गं' इत्यनन्तरं त्रुटितस्थाने 'सव्ये' इति स्यात् ।