रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 238, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः १५१
उत्तरे तु सदा गौरी याम्ये चैव सरस्वती ।
पश्चिमे यत्न (राज्यं?राजः) च बुद्धिः पूर्वे व्यवस्थि (तः?ता)॥२९
इति गणेशायतनम्
सर्वे च वामनाकारा ( : ) पुरुषाननसौम्य (तः?भाः) ।
तर्जनी परशुं दण्डमविघ्नो दण्डहस्तकः ॥ ३० ॥
तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः ।
तर्जनीखड्गवरदं दण्डहस्तः सुवक्त्रकः ॥ ३१ ॥
२९ । इदानीं गणेशायतनदेवानाह—उत्तर इति । लेखकप्रमादादत्र कोणदेवताप्रतिपादकमेकं
पद्यं त्रुटितमिति सम्भाव्यते । तच्च—
वामाङ्गे गजकर्णन्तु सिद्धिं दध्याच्च दक्षिणे ।
पृष्ठकर्णे तथा द्वौ च धूम्रको बालचन्द्रमाः ॥
( रूप० अ० ५, श्लो० १९ )
इति रूपमण्डनोक्तवदेव भवेद् इति सम्भावयामः ।
३० । गणेशप्रतीहारानाह—सर्व इति । रूपमण्डने 'सौम्याश्च पुरुषाननाः' इति द्वितीय-
पादे सुखसेव्यः पाठः । अष्टौ गणेशप्रतीहारा दक्षाद्द्वारतो युग्मशः स्थापनीया इति वक्तुर्लार्थः ।
क्रमस्तु गौर्यायतनदृष्ट्या समुन्नेयः । शिल्परत्ने एकैकं वृक्षमाश्रिताभ्यामप्रागादिदिशमलङ्कुर्वतीभ्यां
द्वाभ्यां द्वाभ्यां द्वारदेवताभ्यां गणेशायतनमलङ्कृतमिति दृश्यते । तथाच—
अग्रेऽथ विल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुपौ गिरिजावृषाङ्कौ ।
पृष्ठेऽथ पिप्पलजुपौ रतिपुष्पबाणौ सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥
( उ० अ०