सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 224, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 224

सप्तमोऽध्यायः १३७
श्यामा च श्यामवर्णा स्यान्नरारूढा चतुर्भुजा ।
वरं बाणाभयं चापं तस्या हस्तेषु च क्रमात् ॥ २६ ॥
[ इति श्यामा ६ ]
सुपार्श्वे नीलवर्णः स्यान्मा ( तङ्गे ? तङ्गो ) गजवाहनः ।
हस्तेषु (निल? शूलं) पाशं चाङ्कुशं च नकुलं तथा ॥ ३० ॥
[ इति मातङ्गः ७ ]
शान्ता [ भवेत् ] सुवर्णास्या गजारूढा चतुर्भुजा ।
वरदं चाक्षसूत्रं चाभयं तस्मात्त्रिशूलकम् ॥ ३१ ॥
[ इति शान्ता ७ ]
चन्द्रप्रभस्य विजयो त्रिनेत्रो हंसवाहनः ।
द्विभुजो नीलवर्णः स्याच्चक्रं च मुद्गरं क्रमात् ॥ ३२ ॥
[ इति विजयः ८ ]
भृकुटिः पीतवर्णा स्यात् सिंहारूढा चतुर्भुजा ।
खड्गं तथा मुद्गरञ्च परशुं खेटकं क्रमात् ॥ ३३ ॥