रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 210, कुल 335 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः १२३
स्थापि(तं? ते) चैकलिङ्गे तु देवकल्पाभिवन्दिते ।
विमानकाञ्चनारूढो सुरवायैस्तु वायते ॥ ११९ ॥
भ्रमते सुर(लिङ्गन्तु ? लोके तु)च्छिन्नसंसार(वर्धनं ? बन्धनः) ।
सर्वसिद्धिकरं चैव सर्वकामफलप्रदम् ॥ १२० ॥
(बाणलिङ्गा तु लिङ्गानामाकर्षणां ?) स्वयम्भुवा ।
पीठं (प्र? प्रा)सादरूपञ्च यथेष्टं कारयेत् सुधीः ॥ १२१ ॥
[ एकास्त्रादिबाणमाहात्म्यम् ]
एका(स्व? स्त्र)बाणमारभ्य यावच्चतुर्दशा(श्रयम्? स्त्रकम्) ।
पूजया परया भक्त्या सर्वसौख्यप्रदं नृणाम् ॥ १२२ ॥
[ शिवतीर्थोदकलक्षणम् ]
धातवे शतहस्तेषु बाणे पञ्चशतेषु च ।
स्वयम्भूस्सहस्रहस्ते शिवतीर्थोदकं स्मृतम् ॥ १२३ ॥
[ शिवतीर्थोदकस्य पुण्यजनकत्वम् ]
स्नाने कृते महत् पुण्यं लिङ्गादिषु दिशं प्रति ।
[ शिवतीर्थोदकलङ्घने प्रत्यवायः ]
लङ्घिते च महत् पापं शिवस्नानोदके नृणाम् ॥ १२४ ॥
[ प्रदक्षिणनियमः ]
एकां चण्ड्यां (वरे ? रवौ) स(प्त ? त) तिस्रो दद्याद् विनायके ।
चतस्रो विष्णुदेवस्य शिवस्या(र्धं?र्धां) प्रदक्षि(णा?णाम्) ॥१२५॥
[ जैनदेवालये विशेषः ]
जैनदेवाग्रसंस्थाने स्तोत्रमन्त्रार्चनादिकम् ।
नैव (पृष्टिः?दृष्टिः) प्रदातव्या (सन्मुखं?) द्वारलङ्घनम् ॥१२६॥