रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 209, कुल 335 में से
संदर्भ में पढ़ें१२२ देवतामूर्त्तिप्रकरणम्
ऊर्ध्वकृशं यदा लिङ्गं स्थूलं चाधो निवेशयेत् ।
तदा (भु ? मु)क्तिं विजानीयात् संसा(रस्थिति ?
रोच्छित्ति)कारणम् ॥ ११० ॥
[ सर्वावस्थास्वपि बाणस्य पूज्यत्वम् ]
ह्रस्वं दीर्घं (कृश?कृशं)स्थूलं षण्डं कुब्जञ्च वामनम् ।
त्र्य(स्तं?स्र-)पीठं चतुरस्रं स्थूलाग्रं चक्रसंयुतम् ॥ १११ ॥
रे(षा?खा)कीलकसंयुक्तं सुवर्णं च निवर्णकम् ।
रक्तं कृष्णं तथा श्यामं पीतं शुक्लं च पाण्डुरम् ॥ ११२ ॥
सदोषगुणसंयुक्तं बाणं पूज्यञ्च नित्यशः ।
बलाल्लक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ११३ ॥
तस्माच्छतगुणं (पुष्पं ?पुण्यं) तत्संस्थापनपूजनात् ।
बाणलिङ्गं तथा पूज्यं तत्संस्थापनमुत्तमम् ॥ ११४ ॥
[ बाणस्थापनप्रशंसा ]
सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम् ।
तत् फलं कोटिगुणितं प्राप्यते लिङ्गस्थापनात् ॥ ११५ ॥
यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् ।
सर्वागमोदितं पु(ष्पं? ण्यं) कोटिकोटिगुणं भवेत् ॥ ११६ ॥
शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीषु च ।
नर्मदायाश्च लक्षेण कोटिं च कुरुजाङ्गले ॥ ११७ ॥
कृत्वा स्नानञ्च (पी? पि)ण्डञ्च हुतं दानञ्च भोजनम् ।
गुणितं कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ११८ ॥
११० । ऊर्ध्वकृशमिति । पूर्वं 'भुक्तिमुक्तिकरं बाणम्' इत्युक्तम्, तन्न कीदृशं भुक्तिकारं
कीदृशं वा मुक्तिकरमित्येतदाह श्लोकद्वयेन, तत्रापि पूर्वश्लोके भुक्तिदलिङ्गलक्षणमुक्तमितीदानीं
मुक्तिदलिङ्गलक्षणमाहेत्यवधार्य अर्थवानपि यथाश्रुतः पाठो विपरिवर्त्तित इति ज्ञेयम् ।