प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
प्रत्यक्षपरिच्छेदः २२१
अन्योन्यावरणात् तेषां स्यात् तेजोविहतिस्ततः ।
तत्रैकमेव दृश्येत तस्यानावरणे सकृत् ॥ ४१४ ॥
पश्येत् स्फुटास्फुटं रूपमेकोऽदृष्टेन वारणे ।
अर्थानर्थो न येन स्तस्तददृष्टं करोति किम् ॥ ४१५ ॥
तस्मात् संविद् यथाहेतु जायमानार्थसंश्रयात् ।
प्रतिभासभिदां धत्ते, शेषाः कुमतिदुर्नयाः ॥ ४१६ ॥
ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा ।
तदा तेषां व्यक्ताव्यक्तानां रूपाणामन्योन्यस्यावरणात् कदाचित् कस्य-
चिदुपलम्भो भवतीति वक्तव्यम् । तत एकोपलम्भकालेऽपरोपलम्भहेतोस्तेजसो
विहतिरावृतिरिति च स्यात् । अन्यथा नावृते तस्मिन्नपरस्याप्युपलब्धिः स्याद्;
अवैकल्यात् सामग्र्याः । तत्रापरोपलम्भहेतोरालोकस्यावरणे सति एकमेव व्यक्त-
मव्यक्तस्वरूपं दूरसन्नादिदेशस्थितैः प्रतिपत्तृभिः सर्वैर्दृश्येत, न त्वेकेन व्यक्तम्
इतरेण चाव्यक्तमिति स्यात् । तस्यादृष्टोत्पन्नरूपस्य परस्परमनावरणे, तेजसश्चा-
नावरणे सकृत् स्फुटास्फुटं रूपं पश्येदेकः प्रतिपत्ता । दृश्यरूपद्वयस्य
दर्शनहेतोश्चालोकस्यानावरणाददृष्टेन द्वितीयस्य रूपस्यावरणे¹ व्यक्तमव्यक्तमेव
वा रूपमेकं दृश्यत इति चेत् ? येन द्वितीयरूपावरणेन कृतेन पुंसोऽर्थानर्थाव-
दृष्टकार्यौ न स्तः सम्भवतः, तदावरणमदृष्टं कर्तुं किं कस्मात् करोति ।
शुभाशुभलक्षणं ह्यदृष्टमर्थानर्थफलम् । यत् पुनरनुभवस्वभावं तद् दृष्टफलमेव
भवति ॥ ४१४-४१५ ॥
यस्मात् सर्वमनन्तरोक्तमसङ्गतम्, तस्मादर्थसंश्रयाज्जायमाना संवित्
बुद्धिर्यथाहेतु वासनाप्रबोधहेत्वनतिक्रमेण प्रतिभासस्याकारस्य व्यक्ताव्यक्तादे-
र्भिदां धत्ते बिभर्तीति न्याय्यम् । तदितरे पुनरालोकभेदोपन्यासाद्याः शेषाः
कुमतिदुर्नयाः परवादिनां कुमतीनां दुर्विमर्शाः ॥ ४१६ ॥
किञ्च—अनाकारेण ज्ञानेनार्थः क्षणिकोऽक्षणिको वा व्यज्येत, तत्र—
क्षणिकानां ज्ञानशब्दप्रदीपादीनां स्वविषयस्य प्रत्यक्षस्याप्रत्यक्षस्य वा
१. रूपस्य । वरणे—रा० ।
२१२ प्रमाणवार्त्तिके
जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः ॥ ४१७ ॥
व्यक्तिः कुतोऽसतां ज्ञानाद्;
अन्यस्यानुपकारिणः ।
व्यक्तौ व्यज्येत सर्वोऽर्थस्तद्धेतोर्नियमो यदि ॥ ४१८ ॥
नैषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासतः ।
तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम् ॥ ४१९ ॥
नाकारयति चान्योऽर्थोऽनुपकारात् सहोदितः ।
व्यक्तोऽनाकारयन्' ज्ञानं' स्वाकारेण कथं भवेत् ! ॥ ४२० ॥
ज्ञानस्य जनकत्वेन हेतूनां पूर्वेषां ज्ञानकाले विनाशतः, असतां ज्ञानात्
कुतो व्यक्तिः ! यदाऽर्थस्तदा न ज्ञानम्, यदा ज्ञानं तदा नार्थ इति कुतो
व्यङ्ग्यव्यञ्जकभावस्तयोः ।
अथ शब्दादयो ज्ञानेन सह द्वितीयं स्वोपादेयक्षणं जनयन्ति, स एव तेन
ज्ञानेन व्यज्यते, नेतरद् ? इत्याह—स्वकारणादन्यस्य सहोत्पन्नस्यानुपकारिणो
व्यक्तिविवक्षायां सर्वोऽर्थः समानकालेन ज्ञानेन व्यज्यतामनुपकारकत्वा-
विशेषात् । तस्मात् सहोत्पादकात् हेतोरनुपकारकत्वविशेषेष्वपि सहोत्पन्न एवार्थो
ज्ञानेन व्यज्यत इति नियमो यदि कल्प्यते ? ॥ ४१७-४१८ ॥
तदैषापि कल्पना न युक्ता; ज्ञाने व्यञ्जकत्वस्य सहोत्पन्नेन्द्रियादि-
व्यञ्जकत्वप्रसङ्गात् । अस्माकं मते तु साकारं तेनार्थेन कृतं ज्ञानमिति ज्ञानस्य
काले तस्यार्थस्याभावेऽप्यर्थावभासतोऽर्थाकारात् संवेद्यमानात् तमर्थं व्यन-
क्तीति कथ्येत; अन्यस्यार्थव्यक्तिप्रकारस्यायोगात् ॥ ४१९ ॥
सहोत्पन्नस्यापि तर्हि स्वाकारज्ञानेन व्यक्तिः स्याद् ? इत्याह—कारणा-
दन्यस्यान्यश्चार्थः सहोत्पन्नो ज्ञानेन नाकारयति स्वाकारेण विशेषयति
अनुपकारात् । न ह्यनुपकारकाकारेण विशिष्यते; अतिप्रसङ्गात् । यश्चार्थो ज्ञानं
नाकारयति, स कथं व्यक्तो भवेत् ! ॥ ४२० ॥
१-१. नाकारयञ्ज्ञानं—रा० ।
प्रत्यक्षपरिच्छेदः २२३
अक्षणिकव्यक्तेरसम्भवत्वम्
वज्रोपलादिरप्यर्थः स्थिरः सोऽन्यानपेक्षणात् ।
सकृत् सर्वस्य जनयेज्ज्ञानानि जगतः समम्¹ ॥ ४२१ ॥
क्रमाद् भवन्ति तान्यस्य सहकार्युपकार्यतः ।
आहुः प्रतिक्षणं भेदं स दोषोऽत्रापि पूर्ववत् ॥ ४२२ ॥
स्वसंवेदनविचारः
संवेदनस्य तादात्म्ये न विवादोऽस्ति कस्यचित् ।
तस्यार्थरूपताऽसिद्धा सापि सिध्यति संस्मृतेः ॥ ४२३ ॥
भेदेनाननुभूतेऽस्मिन्नविभक्ते स्वगोचरैः ।
एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी ॥ ४२४ ॥
अक्षणिकस्याप्यर्थस्य व्यक्तिं निषेद्धुमाह—यो वज्रोपलादिः स्थिरोऽर्थः
सोऽपि ज्ञानोत्पादनस्वभावत्वेनान्यस्य सहकारिणोऽनुपकारकस्याानपेक्षणात्
सकृत्सर्वस्य जगतः स्वग्राहकाणि ज्ञानानि सममेककालं जनयेत् ॥४२१॥
न चैतदस्ति, क्रमेणोत्पादात् क्रमाद् भवन्ति जायमानानि तानि वज्रादि-
ज्ञानान्यस्य वज्रोपलादेः सहकारिणामुपकारात् स्वभावान्तरलक्षणात् प्रति-
क्षणं भेदमन्यस्वभावतामाहुः । यथा च पूर्ववत् शब्दादिष्विवात्र वज्रादिष्वपि
क्षणिकेषु विज्ञानात् पूर्वकालभाविषु सोऽव्यक्तिदोषप्रसङ्गस्तदवस्थः ॥ ४२२ ॥
पुनर्बुद्धेरर्थाकारसिद्धयर्थमाह—संवेदनस्य तादात्म्येऽनुभवरूपत्वे कस्य-
चिद् विदुषो वादो नास्ति । तस्य संवेदनस्यार्थरूपता विवादादसिद्धा
साऽर्थाकारतापि संस्मृतेरर्थाभासानुभवस्य सम्यक् स्मरणात् सिध्यति ॥४२३॥
अस्मिन्नर्थसंवेदनेन भेदेनाननुभूते² स्वस्य गोचरैरर्थैः स्वाकारसम-
र्पणद्वारेणाविभक्ते परस्परतो भेदेन व्यवस्थापिते एतज्ज्ञानमेवं घटग्राहकम्, न
खल्वेवं नैव घटग्राहकमिति । सा संवेदनस्मृतिर्भेदिनी विभागवती न स्यात्
ज्ञानेन सह ॥ ४२४ ॥
१. स्वयम्—पाठा० । २. भेदेनानुभूते—रा० ।
२२४ प्रमाणवार्त्तिके
न चानुभवमात्रेण कश्चिद् भेदो विवेचकः ।
विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत् ॥ ४२५ ॥
द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम् ।
स्वरूपभूताभासस्य तदा संवेदनेक्षणात् ॥ ४२६ ॥
धियाऽतद्रूपया ज्ञाने निरुद्धेऽनुभवः कथम्¹ ।
स्वं च रूपं न सा वेत्तीत्युत्सन्नोऽनुभवोऽखिलः² ॥ ४२७ ॥
बहिर्मुखं च तज्ज्ञानं भात्यर्थप्रतिभासवत् ।
बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि ॥ ४२८ ॥
न चानुभवमात्रेणावान्तरभिन्नेन प्रतिज्ञानं कश्चिद् भेदो विद्यमानोऽपि
परस्परं विवेचको भेदव्यवस्थापनहेतुः । तथाविधास्पष्टे भेदे सत्यपि धीः स्मृतिरूपा
विवेकिनी न भवति; किन्त्वेकबोधाध्यवसायिनी प्रत्यभिज्ञैव स्यात्, यमला-
दिवद् । यमलयोरवान्तरभेदसद्भावेऽप्यको दृश्यमानो नापरस्माद् भेदेनावसीयते;
किन्त्वेकत्वेनैव प्रत्यभिज्ञायते । तस्मादर्थाकारानुभवाकारतया बुद्धिर्द्विरूपैव ॥४२५॥
ज्ञानानां द्वैरूप्यसाधनेनापि प्रायो बाहुल्येन स्ववेदनं ज्ञानं सिद्धम् ।
तथा ज्ञानस्य स्वरूपभूतस्याभासस्याकारस्य तदा द्विरूपज्ञानोत्पत्तिकाले
संवेदनादनुभूतेरीक्षणात् ॥ ४२६ ॥
ज्ञानान्तरेण सरूपेण ज्ञानमर्थवद्वेद्यते इति चेत् ? तदा धियाऽतद्रूपतयाऽ-
ग्राह्यज्ञानस्वरूपया निरुद्धे ग्राह्ये ज्ञाने कथमनुभवः । स्वकाले ज्ञानं न वेद्यते,
ग्राहककाले ग्राह्यस्यैवाभाव इति कथं बुद्धिवेदनम् ! स्वञ्च रूपं तन्मते सा
बुद्धिर्न वेत्तीत्यनुभवोऽखिलोऽर्थस्य ज्ञानस्य चोत्सन्नः स्यात् । ज्ञानप्रकाशो
ह्यर्थप्रकाशः, स च स्वपरकालयोर्नास्तीति प्रकाशो न स्यात् सर्वस्य ॥ ४२७ ॥
किञ्च—अस्यार्थस्य ग्राह्यस्य प्रतिभासवदाकारवत् तद् बाह्यग्राहकं ज्ञानं
बहिर्मुखं बाह्यतया प्रतिभाति, यथा नीलादिज्ञानम् । बुद्धेश्चात्मनि ग्राहिका
वित्तिर्नित्यं सर्वकालमन्तर्मुखाऽबाह्यतया ग्राहकत्वेन प्रतिभाति । तदेतत् स्व-
वेदनतायामेवोपपन्नम् ॥ ४२८ ॥
१. कुतः—पाठा० । २. ०ऽर्थिनः—पाठा० ।
प्रत्यक्षपरिच्छेदः २२५
यो यस्य विषयाभासस्तं वेत्ति न तदित्यपि ।
प्राप्ता का संविदन्यास्ति ताद्रूप्यादिति चेन्मतम् ॥ ४२९ ॥
प्राप्तं संवेदनं सर्वसदृशानां परस्परम् ।
बुद्धिः सरूपा तद्विच्चेत् नेदानीं वित् सरूपिका ॥ ४३० ॥
स्वयं सोऽनुभवस्तस्या न स सारूप्यकारणः ।
क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ॥ ४३१ ॥
स्वभावभूततद्रूपसंविदारोपविप्लवात् ।
यदि तु बुद्धयन्तरग्राहिका बुद्धिः स्यात् , तदा नीलादिवत् स्मर्यमाणातीत-
स्वबुद्धिवच्च ग्राहकाकारत्वाद् बहिष्टेनावभासेत । तथा स्ववेदनताऽभावे यो
विषयस्याभास आकारो यस्य ज्ञानस्य तं स्वाकारार्पकं विषयं तदाकारवत्
ज्ञानं न वेत्तीति प्राप्तम् । विषयस्वरूपस्यात्मनो वेदने हि विषयवेदनं तत्परोक्ष-
तया अर्थोऽपि परोक्षः स्यात् ; यतोऽर्थस्वरूपधीवेदनादन्या का संविदर्थस्यास्ति ।
ताद्रूप्याद् विषयसारूप्यादस्वसंवेदनादर्थस्य संविदिति चेन्मतम् ? ॥ ४२९ ॥
एवं सति सर्वेषां यमलकादीनां सदृशानां परस्परं संवेदनं प्राप्तम् , न
सदृश इत्येवानुभवः । सरूपा तद्विदर्थस्य संवेदनं चेत् ? इदानीमस्मिन्नभ्युपगमे
सरूपिका विन्न भवति । सारूप्यं वेदनलक्षणं न भवति, किन्त्वनुभवरूपता;
सत्यपि सारूप्ये यमलकादीनामनुभवत्वात् । नापि सारूप्यवाहितानुभवमात्रं
वेदनम्; किन्तु स्वसंवेदनं सारूप्यम् ॥ ४३० ॥
यदि सारूप्यवशाद् वेदनम् , तदा बुद्ध्यात्मनापि सारूप्याद् वेदनं स्यात् ,
तथा ग्राह्यग्राहकयोर्भेद एव प्राप्तः ? इत्याह—तस्या बुद्धेः सोऽनुभवोऽपरो-
क्षत्वं स्वयं स्वरूपेण तथोत्पत्तेर्न सारूप्यकारणः सोऽनुभवो बुद्धेः ।
एवं तर्हि बाह्येऽप्यर्थे बुद्धिसारूप्यं निष्फलम् ? इत्याह—तदर्थसारूप्यं
क्रियाया अर्थादनुभूतेः, कर्मणो बाह्यस्य व्यवस्थाया निबन्धनं लोके
बहिरध्यवसायिनि स्यात् । न ह्यस्य सारूप्यमन्तरेण 'इयमस्य संवित्तिः' इति
शक्यं व्यवस्थापयितुम् ॥ ४३१ ॥
यस्या बुद्धेः स्वभावभूतस्य रूपस्य विषयाकारस्य संविदो बहिरर्थेऽवारोपः
प्र० वा० : १५
२२६ प्रमाणवार्त्तिके
नीलादेरनुभूताख्या नानुभूतेः परात्मनः ॥ ४३२ ॥
धियो नीलादिरूपत्वे बाह्योऽर्थः किम्प्रमाणकः ।
धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् ! ॥ ४३३ ॥
यदा संवेदनात्मकत्वं न सारूप्यनिबन्धनम् ।
सिद्धं तत् स्वत एवास्य किमर्थेनोपनीयते ! ॥ ४३४ ॥
न च सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः ।
न च केनचिदंशेन सर्वं सर्वस्य वेदनम्¹ ॥ ४३५ ॥
स एव विप्लवो भ्रान्त्युपनीतत्वात् । तस्मान्नीलादेर्वस्तुतोऽदृश्यमानस्याप्यनु-
भूताख्याऽनुभवव्यवहारो लोकस्य, न पुनर्ज्ञानात् परात्मनोऽर्थस्य साक्षादनु-
भूतेरर्थानुभवव्यवहारः ॥ ४३२ ॥
परमार्थतस्तु धियो नीलादिरूपत्वे स्वसंवेद्ये तदाकारार्पको बाह्योऽर्थः
स्वरूपेणादृश्यमानः किम्प्रमाणकः ! न ह्याकारद्वयं वेद्यते, येनैको बाह्यस्य
अपरो ज्ञानस्येति स्यात् !
बाह्य एवाकारवान्, धीस्तु निराकारेति प्रत्यक्षसिद्धोऽर्थः स्याद् ? इत्याह—
धियोऽनीलादिरूपत्वे सोऽर्थाकाररहितोऽनुभवस्तस्य नीलस्य ग्राहक इति कथं
शक्यव्यवस्थापनः; अनुभवमात्रामतया सर्वत्र ज्ञानेऽविशेषात् । विशेषव्यवस्थान-
शक्त्या यदा संवेदनात्मकत्वमपरोक्षत्वं न सारूप्यनिबन्धनम्, तदा स्वत एव
प्रकाशात्मतयोत्पत्तेस्तत् संवेदनात्मकत्वं सिद्धम् । ततश्चार्थेनास्य ज्ञानस्य किमु-
पनीयते येन तस्य तद्वेदनमित्युच्यते । न हि ज्ञानस्य स्वप्रकाशेऽर्थापेक्षा । न च
स्वस्माद्व्यतिरिक्तं तेन वेद्यते, तत् कथमर्थवेदनमनेनेत्युच्यते ॥ ४३३-४३४ ॥
किञ्च—ज्ञानं सर्वात्मना वा एकदेशेन वाऽर्थस्य सरूपं यत् तद्ग्राहकं
स्यात् । तत्र न तावत् सर्वेण जडत्वादिना साम्यम्; अज्ञानत्वप्रसङ्गतः । न च
जडयोर्ग्राह्यग्राहकभावः केनचिदंशेन; वस्तुत्वनीलत्वादिना सर्वं ज्ञानं सर्वस्यार्थस्य
संवेदनं स्यात् । सर्वं वा नीलज्ञानं सर्वस्य नीलस्य वेदनं स्यात् ॥ ४३५ ॥
१. “सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत् !
साम्ये केनचिदंशेन स्यात् सर्वं सर्ववेदनम् ॥”—पाठा० ।
प्रत्यक्षपरिच्छेदः २२७
यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः ।
तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत् ॥ ४३६ ॥
नानुभूतोऽनुभव इत्यर्थवद्धि विनिश्चयः ।
तस्माददोष इति चेत् नार्थेऽप्यस्त्येष सर्वदा ॥ ४३७ ॥
कस्माद् वानुभवे नास्ति सति सत्तानिबन्धने ।
अपि चेदं यदाभाति दृश्यमाने सितादिके ॥ ४३८ ॥
पुंसः सिताद्यभिव्यक्तिरूपं संवेदनं स्फुटम् ।
तत् किं सिताद्यभिव्यक्तेः पररूपमथात्मनः ॥ ४३९ ॥
पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् !
ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत् ॥ ४४० ॥
यथा नीलादिरूपत्वात् ज्ञानं नीलादीनामनुभवो मतः, तथा
किमनुभवरूपत्वात् तस्यानुभवस्यार्थविषयस्यापि पूर्वकस्योत्तरं ज्ञानमनुभवो
न भवेत् ! ॥ ४३६ ॥
नानुभवेऽनुभूतोऽनुभव इत्यर्थवदर्थ इव गृहीते विनिश्चयो भवति ।
तस्मादनुभवस्याप्यनुभवो ग्राह्यः कः स्यादित्ययमदोष इति चेत् ? न केवल-
मनुभवे, अर्थेऽप्येषोऽनुभूतत्वनिश्चयः सर्वदा नास्ति । न हि धारावाहिन्यर्थज्ञाने-
ऽर्थेषु प्रतिक्षणमनुभूतनिश्चयः । ततश्चार्थोऽपि नानुभूतः स्यात् ॥ ४३७ ॥
कस्माद्वाऽनुभवेऽनुभूतनिश्चयस्य सत्तानिबन्धने सारूप्ये तदुत्पादे च
सति नास्ति सत्तानिश्चयः । अर्थेऽप्यनुभूतनिबन्धने सारूप्यतदुत्पत्ती एव ते
तज्ज्ञानेऽपि समाने । अपि च स्वसंवेदनानभ्युपगमे सितादिके दृश्यमाने,
यदिदं सिताद्यभिव्यक्तिरूपमन्तःप्रकाशमानं संवेदनं स्फुटं पुंसः प्रतिपत्तु-
राभाति, तत् किं सिताद्यभिव्यक्तेः पररूपम्, अथात्मभूतमिति विकल्पौ;
सतस्तत्त्वान्यत्वाव्यतिक्रमात् ॥ ४३८-४३९ ॥
पररूपेऽभ्युपगम्यमाने, संवेदनं यत् प्रकाशते तन्न सितादिव्यक्तिरूपमित्य-
प्रकाशायां शुक्लादिव्यक्तौ सितं कथं व्यक्तम् । ज्ञानं हि व्यक्ति, न च सा
व्यक्ता सितादिके दृश्यमाने दृश्यत इत्यव्यक्तमखिलं जगत्प्राप्तम् ॥४४०॥
२२८ प्रमाणवार्त्तिके
व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः ।
दृष्ट्या वाऽज्ञातसम्बन्धं विशिनष्टि तया कथम् ! ॥ ४४१ ॥
यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम् ।
द्वयोः संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चयः ॥ ४४२ ॥
सरूपं दर्शनं यस्य दृश्यतेऽन्येन चेतसा ।
दृष्टाख्या १ तत्र १ चेत्;
सिद्धं सारूप्येऽस्य स्ववेदनम् ॥ ४४३ ॥
सिताद्यभिव्यक्तिरेषितव्या, तथा हि-- अर्थव्यक्तेर्व्यक्तिरापद्यमाना न व्यक्ता
स्यात् । अथ व्यक्तिरेव न सिध्येत्, तस्याः स्वप्रकाशत्वेऽर्थव्यक्तिरपि तथास्तु ।
अथार्थव्यक्तिव्यक्तेर्व्यक्त्यन्तराद् उत्तरकालभाविवेदनाद् व्यक्तिरेवं तस्याश्चान्यत
इत्यनवस्था दुर्वाररा ।
किञ्च--दृष्ट्या धियाऽसंविदितया सहाज्ञातसम्बन्धमर्थं कथं विशि-
नष्टि प्रतिपत्ता--दृष्टोऽयमिति ॥ ४४१ ॥
कथमर्थो दृष्ट्याऽज्ञातसम्बन्धः ? इत्याह--यस्माद् द्वयोरर्थज्ञानयोर्मध्ये
एकस्य गतौ दर्शनकाले न द्वितीयस्य दर्शनमस्ति । तथा हि--न पदार्थो
दृश्यते, न तदा बुद्धिरुपलभ्यते; तदुपलम्भस्य भावित्वात् । यदा च बुद्धिरुप-
लभ्यते न तदाऽन्यः; अतीतत्वात् । तस्माद् द्वयोरर्थज्ञानयोः संसृष्टयोरेकोप-
लम्भात् दृष्टौ सत्यां दृष्टमिदमिति निश्चयः; ततोऽन्योपलब्धिः स्वोपलब्धि-
रूपैव ॥ ४४२ ॥
स्यादेतत् । यस्यार्थस्य सरूपं समानाकारं दर्शनं ज्ञानमन्येन चेतसा
दृश्यते, तत्रार्थे दृष्टाख्या दृष्टव्यवहार इति चेत् ?
अत्राह--अस्य ज्ञानस्यार्थेन सह सारूप्ये सिद्धे स्वसंवेदनं ज्ञानं
सिद्धम् । तथा हि--अर्थाकारस्तावत् ज्ञानकाले परिस्फुटं वेद्यमानो ज्ञानस्यात्मा
चेत् ? ज्ञानमप्यर्थाकारवदपरोक्षमेव स्वभावत इति नान्यवेद्यम् ॥ ४४३ ॥
१-१. दृष्टाख्येति न--रा० ।
प्रत्यक्षपरिच्छेदः २२९
अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् ।
सारूप्याद् वेदनाख्या च प्रागेव प्रतिवर्णिता ॥ ४४४ ॥
दृष्टयोरेव सारूप्यग्रहोऽर्थं च न दृष्टवान् ।
प्राक् कथं दर्शनेनास्य सारूप्यं सोऽध्यवस्यति ॥ ४४५ ॥
सारूप्यमपि नेच्छेद् यस्तस्य नोभयदर्शनम् ।
तदर्थो ज्ञानमिति च ज्ञाते चेति गता कथा ॥ ४४६ ॥
अथ स्वरूपम्, सा तर्हि स्वयमेव प्रकाशते ।
यत् तस्यामप्रकाशायामर्थः स्यादप्रकाशितः ॥ ४४७ ॥
अथ ज्ञानमात्मरूपं न वेत्ति, पररूपस्य बाह्यरूपस्य वित् कथम् !
‘न ह्यर्थाकारज्ञानवेदनमन्तरेणार्थवेदनम्’ इत्युक्तम् ।
सारूप्यमात्रेणार्थवित्तिर्भविष्यतीति चेत् ? सारूप्यादनुभवात्मतारहिताद्
वेदनाख्या वेदनव्यवहृतिश्च प्रागेव “प्राप्तं संवेदनं सर्वसदृशानां परस्परम्”
( प्र० वा० २. ४३० ) इत्यनेन प्रतिवर्णिता प्रत्युक्ता ॥ ४४४ ॥
किञ्च—दृष्टयोरेव कयोश्चित् सारूप्यग्रहो दृष्टः, यथा यमलयोः । न
च कश्चिद् द्रष्टा ज्ञानात् प्रागर्थं दृष्टवान्, तत् कथं दर्शनेन सहास्यादृष्टस्यार्थस्य
स द्रष्टा सारूप्यमध्यवस्यति निश्चिनोति ॥ ४४५ ॥
किञ्च—सारूप्यमपि शब्दात् स्वसंवेदनं यो वादी नेच्छेत्, न
तस्योभयस्यार्थस्य ज्ञानस्य च दर्शनं संगच्छते; सारूप्याभावेऽर्थवेदनाऽ-
योगात् । स्ववेदनाभावे च न ज्ञानसंवेदनम्; अन्येन तद्ग्रहस्य निषिद्धत्वात् ।
यदा चैवम्, तदार्थो ज्ञानमिति भेदः । ते च ज्ञाते चेति कथापि गतेति
कृत्स्नं जगदन्धमूकं भवेत्; प्रतीतिनिबन्धनत्वादस्य व्यवहारस्य ॥ ४४६ ॥
अथ यदेतत् सिताद्यभिव्यक्तिरूपं स्फुटसंवेदनमाभाति तद् बुद्धेः स्वरूपम् ।
सा बुद्धिस्तर्हि स्वयमेवापरोक्षतया प्रकाशते; यद्यस्मादस्यां बुद्धावप्रकाशायां
परोक्षायामर्थोऽप्रकाशितः स्यात् । प्रकाशते चार्थ इति बुद्धिरप्यपरोक्षस्वभावेति
स्वसंवेदनसिद्धिः ॥ ४४७ ॥
३३० प्रमाणवार्त्तिके
एतेनानात्मवित्पक्षे सर्वार्थादर्शनेन ये ।
अप्रत्यक्षा धियं प्राहुस्तेऽपि निर्वर्णितोत्तराः ॥ ४४८ ॥
आश्रयालम्बनाभ्यासभेदाद् भिन्नप्रवृत्तयः ।
सुखदुःखाभिलाषादिभेदा बुद्धय एव ताः ॥ ४४९ ॥
प्रत्यक्षाः, तद्विविक्तं च नान्यत् किञ्चिद्विभाव्यते ।
यत्तज्ज्ञानं परोऽप्येतान्¹ भुञ्जीतान्येन विद् यदि ॥ ४५० ॥
तज्जा तत्प्रतिभासा वा यदि धीर्वेत्ति नापरा ।
अनात्मवित्पक्षे स्वसंवेदनाभावे एतेनानन्तरमुपदर्शितेन सर्वस्यार्थस्या-
दर्शनेन दर्शनाभावप्रसङ्गेन ये जैमिनीया अप्रत्यक्षां धियमर्थापत्तिगम्यामाहुः,
तेऽपि निर्वर्णितोत्तरा दत्तोत्तरा बोद्धव्याः । तथा हि—अर्थदर्शनान्यथानुपपत्त्या
बुद्धिव्यवस्थापनीया, अर्थदर्शनमेव तु बुद्धिपरोक्षतायामसमञ्जसमिति न तदन्यथा-
नुपपद्यमानं बुद्धिं कल्पयितुमलम् ॥ ४४८ ॥
अपि च—आश्रयस्येन्द्रियस्यालम्बनस्य सुखादिवेदनीयस्याभ्यासस्य च
यथावृत्तस्य भेदाद् विशेषात् सुखदुःखाभिलाषादिभेदा भिन्नप्रवृत्तयो
नानाकाराः संविदितरूपा जायन्ते, बुद्धय एव च ताः; बोधस्वभावत्वात्,
ज्ञानेनाभिन्नहेतुकत्वाच्च ॥ ४४९ ॥
ततः प्रत्यक्षाः । न च सामान्येन वेदनमिति स्ववेदनतैव । न च तेभ्यः
सुखादिभ्यो विविक्तं भिन्नमन्यत् किञ्चिद् बुद्धिरूपं विभाव्यते उपलभ्यते
यत् तत् प्रत्यक्षं ज्ञानं स्यात् ।
किञ्च—अन्येन ज्ञानेनान्यस्य ज्ञानस्य वित् वेदनं यदीष्यते, तदा
भोक्तृसन्तानवर्त्तिन एतान् सुखादीन् परः प्रतिपत्ताऽलभ्यमानो भुञ्जीत सुखा-
द्युपभोगवान् भवेत् भोक्तृपुरुषवत् ॥ ४५० ॥
तस्मात् सुखादेर्जाता तत्प्रतिभासा सुखादिप्रतिभासा वा तान् सुखादीन्
वेत्ति भोक्तृत्वेन, नापरा² काचिद्² बुद्धिरिति यदीष्यते, तदा भोक्तृसन्तान-
१. परोऽप्येनां—पाठा० । २-२. नापरायाः कश्चिद्—रा० ।
प्रत्यक्षपरिच्छेदः २३१
आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयम् ॥ ४५१ ॥
अथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी ।
सा धीर्निर्विषया प्राप्ता;
सामान्यं च तदग्रहे ॥ ४५२ ॥
न गृह्यत इति प्रोक्तम्;
न च तद्वस्तु किञ्चन ।
तस्मादर्थावभासोऽसौ नान्यस्तस्या धियस्ततः ॥ ४५३ ॥
सिद्धे प्रत्यक्षभावात्मविदो; गृह्णाति तान् १ पुनः ।
वर्तिनः सुखादीनालम्बमानस्यान्यस्य पुरुषान्तरज्ञानस्येदं तज्जत्वं तत्प्रति-
भासित्वं द्वयमालम्बनीयसुखाद्यपेक्षयाप्यवश्यमस्ति; ततः सोऽपि भोक्ता
स्यात् ॥ ४५१ ॥
अथान्यस्य धीर्भोक्तृसुखादेः सकाशान्नोत्पद्यते, नापि तत्प्रतिभासिनी-
ष्यते, तदा सा धीर्निर्विषया प्राप्ता । ग्राह्यस्य पररूपस्याभावेऽपि प्रकाशमाना
स्वप्रकाशैव स्यात् ।
स्यादेतत् । भोक्तुः सुखं यद्यपि स्वरूपेण परबुद्ध्या न गृह्यते, तत् सामा-
न्यमात्रं तु गृह्यते इति भोक्तृत्वनिरालम्बनत्वयोरभावः ? इत्याह — तस्य भोक्तृ-
सुखविशेषस्याग्रहे तत्समवायि सामान्यं न गृह्यत इति प्रोक्तम्— “अतत्स-
मानताव्यक्ती तेन नित्योपलम्भनम्” ( प्र० वा० २. २० ) इत्यादिना ।
न च तत् सामान्यं किञ्चन वस्तु । तथा २ हि — उपगतस्यानुपलम्भबाधितत्वात्
तस्मादनन्तरोक्ताद् युक्तिकलापात् अर्थावभासोऽसौ स्फुटं प्रकाशमान-
स्तस्याः परोक्षत्वेनेष्टाया धियो नान्यः, किन्तु तद्रूप एव ॥ ४५२–४५३ ॥
ततोऽर्थाभासज्ञानयोस्तादात्म्यात् प्रत्यक्षभावात्मविदो प्रत्यक्षत्वस्व-
संवित्ती सिद्धे; ज्ञानस्यापरोक्षतया परनिरपेक्षप्रकाशत्वाच्च ।
स्यादेतत् । स्वसन्तानवर्तिनः सुखादीनध्यक्षमालम्बते, ततः प्रीतिपरितापा-
दियोगाद् भोक्तृता । अन्यस्य पुनस्तान् सुखादीन् नाध्यक्षं गृह्णाति, किन्तु
१. तत्—रा० । २. यथा—रा० ।
२३२ प्रमाणवार्त्तिके
नाध्यक्षमिति चेदेष कुतो भेदः समार्थयोः ॥ ४५४ ॥
अदृष्टैकार्थयोगादेः संविदो नियमो यदि ।
सर्वथान्यो न गृह्णीयात् संविद्भेदोऽप्यपोदितः ॥ ४५५ ॥
येषां च योगिनोऽन्यस्य प्रत्यक्षेण सुखादिकम् ।
विदन्ति तुल्यानुभवास्तद्वत् तेऽपि स्युरातुराः ॥ ४५६ ॥
विषयेन्द्रियसम्पाताभावात् तेषां तदुद्भवम् ।
नोदेति दुःखमिति चेत् ? न वै दुःखसमुद्भवः ॥ ४५७ ॥
'दुखस्य¹ वेदनं' किन्तु दुःखज्ञानसमुद्भवः ।
बुद्धिमात्रम्, ततः प्रीतिपरितापाद्यभावात् न भोक्तृत्वमिति चेत् ? समार्थयो-
रैकविषययोः स्वपरसन्तानवर्त्तिनोर्ज्ञानयोरेष प्रत्यक्षाप्रत्यक्षलक्षणः कुतो भेदः;
सुखस्वरूपविषयत्वात् द्वयमपि प्रत्यक्षमप्रत्यक्षं वा स्यात् ! ॥ ४५४ ॥
अदृष्टाच्छुभाशुभादिलक्षणादेकार्थसमवायादेर्वा निमित्तात् स्वसन्तानवर्त्ति-
सुखग्राहिकायाः संविदो नियमो भोगरूपाववाधारणम्, तेनान्यस्य न भोक्तृतेति
यदीष्यते, तदाऽदृष्टेनैकार्थसमवायेन वा नियमितं सुखादि—अन्यो न गृह्णीया-
देवेत्यस्तु; स्वरूपप्रतिभासे भोक्तृत्वस्याप्रतिषेधात् । न हि आत्मसमवायितामात्रेण
सुखादेर्भोगः, किं तर्हि ? उपलम्भेन । स च परस्याप्यस्तीति भोक्ता स्यात् । एकस्य
विषयस्य संविद्भेदो ग्रहणभेदोऽपि व्यक्ताव्यक्ततया अपोदितो² निराकृतः;
ततः स्वरूपप्रतिभासस्यैकप्रकारत्वात् ॥ ४५५ ॥
येषां³ च परेषां कारणादीनां योगिनोऽन्यस्य सुखादिकं प्रत्यक्षेण
योगबलोत्पन्नेन विदन्तीति मतम्, तेषां मते परेण सुखिना दुःखिना च सह
तुल्यानुभवा योगिन इति तद्वत् दुःखिपुरुषवत् ते योगिनोऽप्यातुरा दुःख-
पीडिताः स्युः ॥ ४५६ ॥
विषयेन्द्रिययोः सम्पातस्य संसर्गस्याभावात् तदुद्भवं विषयेन्द्रिय-
संसर्गजं दुःखं तेषां योगिनां नोदेतीति चेत् ? न वै नैव दुःखस्य समुद्भव
१. दुःखसंवेदनं—पाठा० । २. उदितो—रा० ।
३. वैभाषिकाणामित्यर्थः ।
प्रत्यक्षपरिच्छेदः २३३
न हि दुःखाद्यसंवेद्यं पीडानुग्रहकारणम् ॥ ४५८ ॥
भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा ।
न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते१ ॥ ४५९ ॥
भिन्ने ज्ञानस्य सर्वस्य तेनालम्बनवेदने ।
अर्थसारूप्यमालम्ब आत्मा वित्तिः स्वयं स्फुटा ॥ ४६० ॥
अपि चाध्यक्षताऽभावे धियः स्याल्लिङ्गतो गतिः ।
तच्चाक्षमर्थो धीः पूर्वो मनस्कारोऽपि वा भवेत् ॥ ४६१ ॥
कार्यकारणसामग्र्यामस्यां सम्बन्धि नापरम्२ ।
सामर्थ्यादर्शनात् तत्र नेन्द्रियं व्यभिचारतः ॥ ४६२ ॥
उत्पत्तिः दुःखस्य वेदनं दुःखित्वम्, किन्तु दुःखविषयज्ञानसमुद्भवो दुःखिता।
न हि दुःखम्, आदिशब्दात् सुखम्, असंवेद्यम् अजायमानं पीडानुग्रहयोः
कारणं भवति, येन दुःखसुखयोरुत्पत्तौ दुःखितसुखिते स्याताम् ॥४५७-४५८॥
ननु बौद्धस्यापि मते योगिनः सुखाद्याकारेण ज्ञानेन परदुःखमालम्बमानाः
कस्मादातुरा न भवन्ति दुःखिन इव योगिनोऽपि, दुःखाकारं स्वसंवेदनञ्च ज्ञान-
मिति न कश्चिद् विशेषः ? इत्याह—दुःखं स्वयं परनिरपेक्षप्रकाशं स्वरूपेण
प्रकाशस्वभावेन भासमानं पीडा । तत् तस्मादुत्पन्नं तत्सरूपं तदालम्बनं
योगिनो ज्ञानं न पीडेति यदा बौद्धैरिष्यते, तदैवं योगिनोऽपि परदुःखालम्बका
दुःखिनः स्युरिति न युज्यते, येनायं भेदः ॥ ४५९ ॥
तेन सर्वस्य ज्ञानस्यालम्बनवेदने भिन्ने भिन्नलक्षणे । तथा हि—
अर्थसारूप्यमालम्ब आलम्बनार्थः, आत्मा स्वयं परनिरपेक्षः, स्फुटा
वित्तिर्वेदनार्थः ॥ ४६० ॥
अपि च—धियोऽध्यक्षताऽभावे लिङ्गतो गतिः स्यात् । तच्च लिङ्गं
भवदक्षमिन्द्रियमर्थो विषयो धीरनन्तरा पूर्वको मनस्कारो वा भवेत् ॥ ४६१ ॥
यस्मात् कार्यकारणसामग्र्यामस्यामेभ्योऽपरमात्मनः संयोगादिसम्ब-
न्धि नास्ति, सामर्थ्यादर्शनात् । तत्र तेष्विन्द्रियं तावन्न लिङ्गम्; व्यभि-
१. प्रसज्यते—पाठा० । २. नापराम्—रा० ।
२३४ प्रमाणवार्त्तिके
तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिध्यतः ।
नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चेन्मता ॥ ४६३ ॥
लिङ्गम्;
सैव ननु ज्ञानं व्यक्तोऽर्थोऽनेन वर्णितः ।
व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात् ॥ ४६४ ॥
अथार्थस्यैव कश्चित् स विशेषो व्यक्तिरिष्यते ।
नानुत्पादव्ययवतो विशेषोऽर्थस्य कश्चन ॥ ४६५ ॥
तदिष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते ।
स च ज्ञातोऽथ वाऽज्ञातो भवेज्ज्ञातस्य लिङ्गता ॥ ४६६ ॥
यदि ज्ञानेऽपरिच्छिन्ने ज्ञातोऽसाविति तत् कुतः ।
चारतः, सत्यपि तस्मिन् ज्ञानाभावात् ॥ ४६२ ॥
तथार्थोऽपि ज्ञानव्यभिचारान्न लिङ्गम् । धीमनस्कारौ बोधस्वभावत्वात्
ज्ञानम् । तौ च लिङ्गज्ञानात् प्राङ् न सिध्यतः; ज्ञानस्यानुमेयत्वात् । न चाप्र-
सिद्धस्य निश्चितस्य लिङ्गत्वम्; सत्तामात्रेण लिङ्गत्वेऽतिप्रसङ्गात् । अर्थस्य
व्यक्तिः स्फुटता बुद्धेर्लिङ्गं मता चेत् ? ॥ ४६३ ॥
ननु सैव व्यक्तिर्ज्ञानमर्थप्रकाशलक्षणत्वात् । न च तदेव लिङ्गि चेति
युक्तम् । अनेन व्यक्तेर्लिङ्गत्वकथनेन व्यक्तोऽर्थो वर्णितः प्रतिक्षिप्तः । तथा
हि—व्यक्तौ बुद्धिरूपायामननुभूतायामर्थसम्बन्धिनस्तद्व्यक्तत्वस्य व्यक्ति-
व्यक्तत्वस्याविनिश्चयान्न लिङ्गत्वम्; सत्तामात्रेण लिङ्गत्वेऽतिप्रसङ्गात् ॥४६४॥
अथार्थस्यैव स्वभावभूतः स कश्चित् स्वभावविशेषो व्यक्तिरिष्यते, न
ज्ञानम् ? तदप्यर्थस्य स्थिरैकरूपत्वादनुत्पादव्ययवतो विशेषो व्यक्तिरूपः
कश्चन न सङ्गतः ॥ ४६५ ॥
तस्य विशेषस्येष्टौ वा प्रतिज्ञानमर्थस्य पूर्वस्वभावनाशे सति स्वभावा-
न्तरोत्पादात् क्षणभङ्गः प्रसज्यते । स चार्थस्वभावविशेषो ज्ञातोऽज्ञातो
वा भवेत् लिङ्गं ज्ञानस्य ? तत्र ज्ञातस्य यदि लिङ्गत्वेष्यते । तदा ज्ञाने-
ऽपरिच्छिन्ने तदुपाधिर्ज्ञातोऽसावर्थो लिङ्गमिति यदिष्टं तत् कुत उपपद्यते !
प्रत्यक्षपरिच्छेदः २३५
ज्ञातत्वेनापरिच्छिन्नमपि तद् गमकं कथम् ॥ ४६७ ॥
अदृष्टदृष्टयोऽन्येन द्रष्ट्रा दृष्टा न हि क्वचित् ।
विशेषः सोऽन्यदृष्टावप्यस्तीति स्यात् स्वधीगतिः॥ ४६८ ॥
तस्मादनुमितिर्बुद्धेः स्वधर्मनिरपेक्षिणः ।
केवला न्नार्थधर्मात् कः स्वधर्मः स्वधियो परः ॥ ४६९ ॥
प्रत्यक्षाधिगतो हेतुः तुल्यकारणजन्मनः ।
तस्य भेदः कुतो बुद्धेर्व्यभिचार्यन्यजश्च सः ॥ ४७० ॥
अथाज्ञातस्य लिङ्गता ? तदा ज्ञातत्वेनापरिच्छिन्नमपि तद्वस्तु कथं गमकं
लिङ्गम् ; सत्तामात्रेण गमकत्वेऽतिप्रसङ्गादित्युकम् । न च ज्ञानादर्शने दृष्टता
युक्ता ॥ ४६६-४६७ ॥
हि यस्माददृष्टा दृष्टिर्ज्ञानं येषां तेऽर्थाः कचिदन्येन द्रष्ट्रा दृष्टा इति न
निश्चयविषयाः स्युः ।
रूपादीन् पञ्चविषयानिन्द्रियाण्युपलम्भनम् ।
मुक्त्वा न कार्यमपरं तस्याः समुपलभ्यते ॥ ४७१ ॥
तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेकोऽपि नेक्ष्यते ।
रूपदर्शनतो जातो योऽन्यथा व्यस्तसम्भवः ॥ ४७२ ॥
यदेवमप्रतीतं तल्लिङ्गमित्यतिलौकिकम् ।
विद्यमानेऽपि लिङ्गे तां तेन सार्धमपश्यतः ॥ ४७३ ॥
कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम् ।
तत एवास्य लिङ्गात् प्राक् प्रसिद्धेरुपवर्णने ॥ ४७४ ॥
दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थितिः ।
उक्तमेवार्थं संगृह्णाह-- रूपमादिर्येषां तान् शब्दगन्धरसस्पर्शान् पञ्च
विषयान् पञ्चेन्द्रियाणि चक्षुःश्रोत्रादीनि उपलम्भनं ज्ञानं मुक्त्वा तस्या
बुद्धेर्न कार्यमपरं समुपलभ्यते; इयतैव सर्वस्य संग्रहात् ॥ ४७१ ॥
तत्र तेषु मध्ये
प्रत्यक्षपरिच्छेदः २३७
इत्यर्थस्य धियः सिद्धिः नार्थात् तस्याः कथञ्चन ॥ ४७५ ॥
तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः ।
प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ॥ ४७६ ॥
परचित्तानुमानं च न स्यादात्मन्यदर्शनात् ।
सम्बन्धस्य, मनोबुद्धावर्थलिङ्गाप्रसिद्धितः ॥ ४७७ ॥
प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध्यन्तरेण वः ।
अप्रकाशात्मनोः साम्याद् व्यङ्ग्यव्यञ्जकता कुतः ॥ ४७८ ॥
विषयस्य कथं व्यक्तिः ?
प्रकाशे रूपसंक्रमात् ।
सिद्धिः प्रसज्यते । इति तस्मादर्थस्य धियः सकाशात् सिद्धिर्नार्थात् तस्या
धियः कथञ्चन सिद्धिरिति न्याय्यम् ॥ ४७३-४७५ ॥
तस्मात् तस्या१ धियोऽप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः कथं लिङ्गता !
स्वप्रकाशत्वात् प्रत्यक्षां धियं तस्याश्च चेष्टाऽभिधा आदिर्यस्य मुखप्र-
सादवैवर्ण्यादिस्तं दृष्ट्वा गृहीतव्याप्तिकस्यान्यसम्बन्धिचेष्टादिदर्शनात् परचित्ता-
नुमानञ्चेष्टं न स्यात्; बुद्धेरात्मनि स्वसन्ततौ चेष्टादिभिः सह सम्बन्ध-
स्यादर्शनात् ।
अपि च—वासनामात्रबलभाविन्या मनोबुद्धौ विकल्पबुद्धौ विषयभूता-
स्यार्थस्याभावात् अर्थस्य लिङ्गस्यासिद्धितो बुद्ध्यन्तराल्लिङ्गादनुमानं स्यात् ॥
४७६-४७७ ॥
कथं वा बुद्ध्यन्तरेणाप्रत्यक्षेण बुद्धिः प्रकाशिता स्यात् । वो
युष्माकं दर्शनं यस्मादप्रकाशात्मनोर्लिङ्गलिङ्गिनोरसिद्धत्वेन साम्यात् व्यङ्ग्य-
व्यञ्जकता कुतः ॥ ४७८ ॥
यद्यप्रकाशात्मनोर्न व्यङ्ग्यव्यञ्जकता, तदर्थज्ञानयोरपि कथं व्यङ्ग्य-
व्यञ्जकताभाव इति विषयस्य कथं व्यक्तिरिति ?
उत्तरमाह—प्रकाशे स्वसंविदिते ज्ञाने विषयस्य रूपसंक्रमात् सारूप्य-
१. तस्य—रा० ।
२३८ प्रमाणवार्त्तिके
॥ स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते ॥ ४७९ ॥
तथाभ्युपगमे बुद्धेर्बुद्धौ बुद्धिः स्ववेदिका ।
सिद्धान्यथा तुल्यधर्मा विषयोऽपि धिया सह ॥ ४८० ॥
इति प्रकाशरूपा नः स्वयं धीः सम्प्रकाशते ।
अन्योऽस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते ॥ ४८१ ॥
सादृश्येऽपि हि धीरन्या प्रकाश्या न तया मता ।
स्वयं प्रकाशमाना१;
ऽर्थस्तद्रूपेण प्रकाशते ॥ ४८२ ॥
सम्भवात् ज्ञानेनार्थप्रकाशित इत्युच्यते । स च प्रकाशस्तद्रूपो विषयस्वरूपः
स्वयमेवापरोक्षप्रकाशात्मनोत्पन्नः प्रकाशते, न त्वन्येन प्रकाइयते ॥ ४७९ ॥
स्यादेतद् । बुद्धिरपि बुद्ध्यन्तरस्वरूपोत्पन्ना प्रकाशमाना बुद्धेर्व्यञ्जिका
मतेति चेत् ? आह—बुद्धेः प्रकाश्यायाः बुद्धौ व्यञ्जिकायां तथा संक्रान्तसा-
रूप्यप्रकाशद्वारेण वेदनाभ्युपगमे व्यञ्जिका बुद्धिः स्वसंवेदिका सिद्धा ।
धीस्वरूपाया बुद्धेः स्वप्रकाशत्वे पूर्वबुद्धिः प्रकाशिता स्यात् । अन्यथा स्वप्रका-
शत्वानभ्युपगमे विषयोऽप्यप्रकाशस्वभावतया धिया सह तुल्यधर्मेति सोऽपि
बुद्धेर्व्यञ्जकः स्यात् । सरूपयोर्धीविषययोरन्योन्यं व्यञ्जकता भवेत् ॥४८०॥
इति तस्मान्नोऽस्माकं मते धीः स्वयमात्मना प्रकाशरूपोत्पन्ना सती
प्रकाशते, न त्वन्येन प्रकाइयते इति युक्तम् । अन्यः पुनरन्योऽस्यां बुद्धौ
प्रकाशायां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते । ततोऽर्थवेदन-
व्यवहारः ॥ ४८१ ॥
सादृश्ये सारूप्येऽपि सति तया सरूपया धियाऽन्या पूर्विका धीर्न
प्रकाश्या मता; प्रकाशस्वभावस्य परेण प्रकाशयोगात् । किन्तु स्वयं प्रकाश-
स्वभावतया प्रकाशमाना प्रकाशत इत्यभ्युपेयम् ।
एवं तर्ह्यर्थस्याप्रकाशात्मनः कथं प्रकाशता ? इत्याह—अर्थः सारूप्य-
संक्रान्तेस्तद्रूपेण ज्ञानरूपेण प्रकाशते, न तु साक्षात् स्वरूपेण ॥ ४८२ ॥
१. प्रकाशनाद्—पाठा० ।
प्रत्यक्षपरिच्छेदः २३९
यथा प्रदीपयोर्दीपघटयोश्च तदाश्रयः ।
व्यङ्ग्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते ॥ ४८३ ॥
विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः ।
तस्माद् यतोऽयं तस्यापि वाच्यमन्यस्य दर्शनम् ॥ ४८४ ॥
स्वसंवित्तिसिद्धिः
स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्या;
ऽन्येन वेदने ।
दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थितेः ॥ ४८५ ॥
दृष्टान्तमाह—यथा प्रदीपयोः प्रकाशात्मनोर्न प्रकाश्यप्रकाशकभावः,
तथा बुद्धयोरपि । यथा दीपघटयोः प्रकाशाप्रकाशस्वभावयोरेकः प्रकाशकोऽन्यः
प्रकाश्यः, तथा ज्ञानार्थयोरपि । तदाश्रयोऽप्रकाशप्रकाशात्मनिष्ठो व्यङ्ग्यव्य-
ञ्जकभेदेन व्यवहारो लोके प्रतन्यते ॥ ४८३ ॥
यतश्च विषयमात्रेण इन्द्रियमात्रेण वेदं दृष्टमिति न निश्चयः; तस्माद्
यतस्तद्व्यतिरिक्ताज्ज्ञानादिदं दृष्टमिति निश्चयः, तस्यापि विषयेन्द्रियाभ्यामन्यस्य
ज्ञानस्य दर्शनमपरोक्षत्वं वाच्यमिति बुद्धिपरोक्षतावादो न युक्तः ॥ ४८४ ॥
स्वसंवित्तिसिद्ध्यर्थमुपपत्त्यन्तरमाह—ज्ञानस्यातीतस्य स्मृतेरप्यात्मवित्
स्वसंवित्तिः सिद्धा । प्रतीतमेव हि स्मर्यते यथार्थः ।
स्यादेतत्—ज्ञानं प्रतीतमन्येन चेतसा, न स्वसंवेदनेन ? इत्याह—अन्येन
ज्ञानेन पूर्वकस्य ज्ञानस्य वेदनेऽभिधीयमाने दीर्घादेः स्वरस्य ग्रहणं न
स्यात्; क्षणिकस्य ज्ञानस्य एकाण्वत्ययकालमात्रस्थायिनोऽनेकक्षणनिर्वर्त्त्यासु बह्वीषु
मात्रासु दीर्घादिनिर्वर्त्तनिकासु ग्राहकत्वेनानवस्थितेः । न ह्येकक्षणमात्रस्थायि
ज्ञानमनेकक्षणकलापनिर्वर्त्तनीयमात्रासञ्चयात्मकं दीर्घादिकं शक्नोति ग्रहीतुम्;
किन्त्वकाराद्येकैकमात्रावयवलेशं गृह्णाति । तद्ग्राहकत्वेन द्वितीयज्ञानेन तत् प्रतीयते ।
एवमपरावरैर्ज्ञानैरवयवलेशग्राहकैः स्वस्वग्राहकज्ञानान्तरितैर्ग्रहणक्रमे केन मात्रा-
ग्रहणम्, मात्राप्रचयदीर्घादिग्रहणं वा स्यात् ! ॥ ४८५ ॥
२४० : प्रमाणवार्त्तिके
अवस्थितावक्रमायां सकृदाभासनान्मतौ ।
वर्णः स्यादक्रमोऽदीर्घः ;
क्रमवानक्रमां कथम् ॥ ४८६ ॥
उपकुर्यादसंश्लिष्यन् वर्णभागः परस्परम् ।
आन्त्यं पूर्वस्थितादूर्ध्वं वर्धमानो ध्वनिर्भवेत्¹ ॥ ४८७ ॥
अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत् ।
अथानेकमात्राकालमेकैव बुद्धिरस्तीत्युच्यते, तदानेककालमवस्थितौ सत्या-
मक्रमायां मतौ सर्वमात्राणां सकृदाभासनाद्दीर्घादिवर्णोऽक्रमः स्यात् ;
प्रतीतिनिबन्धनत्वाद् वस्तुव्यवस्थायाः । तथा चादीर्घो भवेत् । न ह्येककालमुच्चै-
रुच्चार्यमाणोऽप्येकमात्रिको दीर्घः ।
ननु क्रमवन्तो वर्णा अवयवक्रमेणोत्पद्यमाना दीर्घादिवुद्धिमुत्पादयिष्यन्ति ?
इत्याह—क्रमवान् वर्णभागः स्वस्वकालस्थायी परस्परमसंश्लिष्यन्नसम्ब-
ध्यमानो दीर्घबुद्धिमक्रमां कथमुपकुर्यादुत्पादयेत् ! क्रमवति ज्ञेये ज्ञानमपि
तथैव युक्तम् ॥ ४८६ ॥
अथोत्पन्ना वर्णावयवा अन्त्यावयवोत्पत्तिपर्यन्तमनुवर्तन्ते, ततः क्रमग्रहणं
सर्वग्रहणं चास्तीति युक्तं दीर्घादिग्रहणम् ? इत्याह—आ अन्त्यमन्त्यं वर्णावयवं
यावत् पूर्वपूर्वेषां वर्णावयवानां क्रमोत्पन्नानां स्थितौ सत्यां प्रथमवर्णावयवादूर्ध्वं
पूर्वोत्पन्नस्यानुवृत्तावपूर्वस्य चापरस्योत्पत्तौ वर्धमानो ध्वनिर्भवेत्, न
चैतदस्ति; अवयवक्रमग्रहणेन दीर्घबुद्धेरनुत्पादात् ॥ ४८७ ॥
स्यादेतत् । क्रमेणोत्पन्नानामवयवानान्त्यावयवकाले ग्रहणमिति न वर्धमान-
ध्वनिर्भवति पूर्वं कस्यचिद् ग्रहणाभावाद् ? इत्याह—अक्रमेण ग्रहणादन्त्यवर्ण-
निष्पत्तिकाले च तद्ग्राहिका क्रमवती धीर्नो भवेत्, ततश्च न दीर्घग्रहणम् ।
न ह्येककालमनेकैरुच्चार्यमाणेऽनेकस्मिन्नकारादौ दीर्घबुद्धिर्भवेत् ।
१. "नादैराहितबीजायामन्त्येन ध्वनिना सह ।
आवृत्तपरियाकायां बुद्धौ शब्दोऽवधार्यते" ॥ (वा० प० १. ८४)
इति वैयाकरणाः, तान् प्रत्याह आचार्यः ।