न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
११२ न्यायमञ्जर्याम्
महमिति, भ्रान्तिज्ञानेषु तदर्थसन्निधानाद् भ्रान्तत्वमस्तु नात्मतत्त्वग्रहणमिति
यच्चोद्यते, तदन्तर्ज्ञेयरूपं हि बहिर्वदवभासते इति सेयं विपरीतख्यातिरेवाङ्गी-
कृता स्यात्, तद्वरमेव तपस्विनी साधीयसी ।
अथ कथ्यते ग्राहकात्सत्यं विच्छिन्नं ग्राह्यं तत्त्वज्ञानरूपमेवेति, तत्र विच्छि-
न्नमिति प्रियमात्रेदितं ज्ञानत्वे तु तस्य का युक्तिः, न च ज्ञानयोर्युगपदुत्पन्नयो-
र्वा क्रमभाविनोर्वा ग्राह्यग्राहकभाव उपपद्यते यौगपद्ये सव्येतरगोविषाणवद् ग्रा-
ह्यग्राहकनियमाभावात्, क्रमपक्षे ऽपि पूर्वमुत्तरस्य ग्राहकात्तदुत्पत्तिस्तद्ग्रहणका-
लप्रतीक्षणात् क्षणिकतां जह्यात्, उत्तरमपि यदि पूर्वस्य ग्राहकं तथा ऽपि सैव
वार्त्ता, तावत्कालस्थितिमन्तरेण तद्ग्राह्यताऽनुपपत्तेः, न च ज्ञानत्वं नाम सा-
मान्यं ग्राह्यग्राहकयोरनुगतं गोत्वमिव शाबलेयादौ भाति, अतो विच्छिन्नश्चे-
द् ग्राहकाद्ग्राह्यः सो ऽन्य एव भवेदिति न ज्ञानस्यायमाकारः,
यत्तु संसर्गधर्म आकारो न भवति इति भाषितं, तद्युक्तमेव, —
न कुण्डदधिवत्कश्चित्संसर्गो ऽस्त्यर्थबोधयोः ।
तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः ॥
तदेवं शाक्योक्तयुक्तिकौशलदौर्बल्यात्सर्वत्र विच्छेदप्रतिभासात्स्वच्छात्मन-
श्च ज्ञानस्य स्वतो विचित्रत्वानुपपत्तेः अर्थस्यैवायमाकार इति सिद्धम् ।
यत्त्वाकारपक्षे चोदितमेकत्रार्थे नक्षत्रं तारका तिष्य इति परस्परविरुद्धाका-
रसमावेशो न युक्त इति, तत्रोच्यते-अनुपपन्नमिति नः क संप्रत्ययो यन्न प्रमा-
णेनावगतं विरुद्धमपि तद् बुद्ध्यमहे यदेकत्र निविशमानं न पश्यामः, तदिह
यद्यबाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते तत्कथमनुपपन्नं स्याद्विरुद्ध-
मिति ।
अथैकं सम्यक्प्रमाणपरिनिश्चितरूपमितरतत्काल्पनिकमिति प्रतीयेतेत देव-
⬛स्तु को दोषः, दृष्टश्च चित्रादावनेकबलसमावेशः, न चैकत्र विरोधमविरोधं
वा दृष्ट्वा सर्वत्र तत्कल्पनमुचितमबाधितावगतिनिबन्धना हि वस्तुस्थितयो
भवन्ति न कल्पनानिर्मिताः ।
अपि वा वस्तुताद्रूप्यसदसत्तानपेक्षया ।
शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम् ॥
दारा इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वं बहुत्वं वा विद्यते शब्दस्त्वेष तत्र
प्रयुज्यमानः साधुर्भवति ।
नार्थासंस्पर्शिता चास्य तावतां व्यवतिष्ठते ।
असौ तदात्मकं वस्तु तथा शक्नोति भाषितुम् ॥
परिव्राट्प्रभृतीनां च कुणपादिप्रतीतयः ।
अर्थस्यानेकशतित्त्वाद्नावहन्त्यर्थशून्यताम् ॥
किं न भक्षयितुं शक्या नारी कौलेयकेन(१) सा ।
किं वा न शमयत्येषा कामिनो मदनज्वरम् ॥
शवाद्वा केन रूपेण सा विशिष्येत योगिनः ।
धीत्रयं तु न सर्वेषामभावात्सहकारिणः ॥
प्रतिप्राणिनियतानेकविधवासनासहकारिसापेक्षो हि तस्य ज्ञानस्यात्मलाभ
इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ।
यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति किमर्थकल्पनया, अयि
साधो किमद्यापि न परिहरसि सुचिरं गणितां कल्पनावाचोयुक्तिं न ह्यर्थः
कल्प्यतेऽपि तु प्रतिभासते एव, बहुरूपस्य तु वस्यैकतमरूपपरिच्छेदनियमे
किमपि वासनादि कारणं क्वचित्कल्प्यते कस्तावताऽर्थनिह्नवस्यावकाशः ।
यच्चोक्तं-वासनाभेद एव ज्ञानवैचित्र्यकारणमितरेतर कार्यकारणभावप्रब-
न्धश्च बीजाङ्कुरवदनादिर्ज्ञानवासनयोः-इति, तदप्यघटमानम्, केयं वासना नाम?
ज्ञानाद्व्यतिरिक्ता चेत्सा ऽपि स्वच्छरूपत्वान्न ज्ञानकालुष्यकारणं भवेत्, ज्ञान-
व्यतिरिक्ता चेद्वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् ।
अपि च वासना विषयानुभवसमाहितः संस्कार इति लोके प्रसिद्धिः, सं-
स्कारश्च यदनुभवघटितः तत्रैव क्वचिदवसरे स्मरणमनुभवति न पुनरसदेव
वैचित्र्यमिदमीदृशमावहति ।
किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्यवासक-
भावेऽपि निराकर्त्तव्यः , स्थायिनो हि भावास्तिलादयः स्थायिभिरेव चम्पका-
दिभिर्वास्यन्ते न तूत्पद्य सद्येव नश्यद्भिः ज्ञानैस्तादृशान्येव ज्ञानानीति ।
निरन्वयविनाशाच्च न तदंशो ऽनुवर्त्तते ।
यतः कथंचिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥
अपि चैकत्र देवदत्तसन्ताने वासना यतः सहस्राणि ज्ञानवैचित्र्यकारिणि
भवेयुः, न हि गोवासनातो हस्तिज्ञानमुदेति ।
अनन्तत्वे ऽपि खल्वासामारम्भे नियमः कुतः ।
असमञ्जसकारित्वे व्यवहारस्य विप्लवः ॥
धूमज्ञानसमुत्पादे धूमवासनया कृते ।
कं तदा न जलज्ञानं जनयेज्जलवासना ॥
वासनाश्च स्वसदृशवासनासन्तानारम्भहेतव एव भवेयुः न पुनरनुभवज्ञा-
नमाधातुमुद्यच्छेयुः , सदृशात्सदृशोत्पत्तिरिति हि भवतां दर्शनम् ।
अपि च न निराधारा वासना आसते न च भवत्पक्षे तदाधारः कश्चन स-
म्भवति भङ्गुरत्वेन ज्ञानस्य तदाश्रयत्वानुपपत्तेः , एकज्ञानाश्रितत्वे सर्वासां
( १ ) कौलेयकेन—शुना ।
१५
Here is the line-by-line transcription of the text from the image:
वासनानां तद्विनाशे नाशः स्यात् , प्रतिवासनमाश्रयभेदे तदानन्त्यमनियमश्च
शतशाखः , न चालयविज्ञानं नाम किंचिदस्ति, सत्यपि तस्मिन्नशेषवासनास-
हस्रसमाश्रये तत्क्षणिकत्वात्सकृदेव तथाविधवासनाकुशूलज्ञानविनाशः स्यात् ,
पुनरुत्पादे तथाविधमेव तज्ज्ञानमुत्पद्यते न तु गवाश्वादिकमनियमो भवेदिति
सर्वथा सङ्कटो ऽयं पन्थाः , तन्मान्मृगतृष्णैवा तपस्विनां वासनात एवं लो-
कयात्रासिद्धेः किं बाह्येनार्थेनेति ।
कृतमतिवाचालतया चिरमपि निपुणैर्निरूप्यमाणो ऽतः ।
अर्थस्यैव न बुद्धेः सिध्यति नीलादिराकारः ॥
एकश्च बाधः प्रमितिप्रमाणप्रमेयरूपाणि कथं बिभर्ति ।
भिन्नप्रमाणात्फलमभ्यधायि प्रत्यक्षचिन्तावसरे पुरस्तात् ॥
बाह्यार्थशून्यत्वनिरासः ।
[L12
अपवर्गनिरूपणम् । १.१५
तेप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षुभ्यः कृपणतरा इव लक्ष्यन्ते, अपूर्व
एष तर्कमार्गो यत्र प्रतीतिमुत्सृज्य तज्जनांविस्फोटनेन वस्तुव्यवस्थाः क्रियन्ते ।
दृढेन चेत्प्रमाणेण बाधाविरहितात्मना ।
गृहीत एवावयवी किमेभिर्बालवल्गितैः ॥
अथ नास्ति प्रमाणेन केनचित्तदुपग्रहः ।
एतदेवोच्यतां वृत्तिविकल्पैः किं प्रयोजनम् ॥
न च शक्नुमः पदे पदे वयमेभिरभिनवमल्पमपि किंचिदपश्यद्भिस्तदेव
पुनः पुनः प्रकुर्वद्भिः शाक्यनर्तकैः सह कलहमतिमात्रं कर्तुम् , अविकल्पं
प्रत्यक्षं प्रमाणमिति साधितम्, निर्विकल्पकेनापि शब्दोल्लेखमात्ररहितमवि-
कल्पकमात्रमेव वस्तु गृह्यते इति दर्शितम्, एकाकारविषयव्यतिरेकेण च तद्बु-
द्धेरेककार्यत्वैकदेशव्यवस्थानाद्यन्यथासिद्धिनिबन्धनमपि न किंचिदुक्तुं श-
क्यते इत्युपवर्णितम्, कचिद्वा पृतनादौ बाधको पनिपातादेवावगतिर्मिथ्या-
त्वान्न सर्वत्र मिथ्यात्वकल्पना युक्तेत्यप्युक्तम् , किं वा तदस्ति यत्सामान्यसम-
र्धनावसरे न कथितम् , तस्मात्तयैव नीत्याऽवयव्यपि सिद्ध एव तद्ग्राहिणः
प्रत्यक्षस्य निरपवादत्वात् ।
यत्तु देशभेदेनाग्रहणात्तदग्रहे तद्बुद्ध्यभावादिति, तत्रावयवाश्रितत्वमेव
निमित्तं नासत्त्वम् ।
देशभेदेन हि ज्ञानं तत्त्वे तस्य कथं भवेत् ।
न हि कश्चित्स्वसन्त्राऽसावपि त्ववयवाश्रितः ॥
यावतां ग्रहणे चास्मिन् बुद्धिर्भवति तावताम् ।
अपेक्षतेऽसौ ग्रहणं न सर्वेषामिति स्थितिः ॥
विविच्यमानेष्वंशेषु युक्तस्तदनुपग्रहः ।
तदावयविनाशो हि बुद्धौ विपरिवर्तते ॥
अवयवविभागो ह्यवयविनो विभागहेतुस्तस्मिन् बुद्ध्या समुल्लिख्यमाने-
ऽवयविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी तदानीं गम्यते ।
वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते ।
न प्रत्यवयवं तस्य समाप्तिर्व्यक्तिजातिवत् ॥
व्यासज्य वर्तमानोऽपि न खल्ववयवान्तरैः ।
वर्तते तदसंवित्तेः किन्तु वर्तत एव सः ॥
तथा चाहुः—'तत एव भ्रमः अनाश्रितस्यानुपलम्भात्' ।
वृत्तिरेवम्विधाऽन्यत्र क्व दृष्टेति यदुच्यते ।
प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥
११६ न्यायमञ्जरीम्
बाह्यार्थसाधनम् ।
तस्मात्प्रत्यक्षत एवावयववृत्तेरवयविन उपलब्धेर्न तद्वृत्तौ विकल्पाना-
मवसरः , स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता, तदियमवयविवृत्तिरपी-
दृशी दृश्यमाना किमिति निह्नुयते, न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदप-
वादः समस्ति ।
अदुष्टकरणोद्भूतमनविर्भूतबाधकम् ।
असन्दिग्धं च विज्ञानं कथं मिथ्येति कथ्यते ॥
न च सेनावनवदवयविग्रहणमभिधातुमुचितम् अबाधितत्वात्सेनादौ च
बाधकसंभवात् , अपि च गजवाजिपदातिपीलुपलाशशिंशपादिदर्शनस्य
तत्र घटमानत्वात्तत्समवाये सेनावनादिप्रतीतिरुत्पद्येतापि इह तु किं समुदा-
यविषयः पटप्रत्यय इति चिन्त्यम् , तन्तुसमुदायालम्बन इति चेत् , तन्तुप्रत्यय
इदानीं किमालम्बनः , सो ऽपि स्वावयवालम्बन इत्येवमवयवावयवनिरूपणे
परमाणवः पत्त्यश्वशमीशिंशपादिस्थानीया वक्तव्यास्तेषां च तद्ग्रहणमनु-
पपन्नमतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः , तस्मादवयवी प्रत्यक्ष-
ग्राह्योऽस्तीति सिद्धम् । परमाणऽवो ऽपि कार्यानुमानपरिनिश्चितनित्यनि-
रवयवस्वरूपाः सन्तीति पूर्वमेव समर्थितम् , अतो न षट्कयोगादिना सा-
वयवत्वमेषामुपपादयितुं पार्यते , मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्श-
यिष्यतेऽतः प्रमेयपर्यालोचनवर्त्मनाऽपि शून्यवादसमर्थनं न सुशकम् , प्रमेय-
विचारो ऽपि निष्प्रमाणवृत्तमेव निरूप्यते, ततश्च प्रमाणचर्चातो बिभ्यद्भिः
पलाय्य या प्रमेयकथावीथी तथागतैरवलम्बिता तस्यामपि सैव भीषणमुखी
प्रमाणचर्चैवोपनता ।
सर्वतो विपदां मार्गमादेशयितुमुद्यते ।
विधौ विधुरतां याते प्रपलाय्य क्व गम्यते ॥
तस्मात्प्रमाणतोऽशक्ये शक्ये वा वस्तुनिर्णये ।
एवम्प्रायमयुक्तं यत्कुशकाशावलम्बनम् ॥
तेन निष्फलमुत्सृज्य शून्यवादबकव्रतम् ।
बाह्येनैवार्थजातेन व्यवहारो विधीयताम् ॥
अथास्थाशैथिल्यजननाय सर्वं शून्यं क्षणिकं सर्वं निरात्मकमित्युपदिश्यते,
तर्हि किमनेन मृषोद्येन, सत्यप्यात्मनि सत्स्वपि स्थिरेषु पदार्थेषु विषयदोष-
दर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति तदुपजननाय शून्यवादादिवर्णनं
वक्रः पन्थाः, प्रत्युत प्राज्ञो मुमुक्षुः क्षणिकनैरात्म्यशून्यवादिवचनं युक्तिबा-
धितमवबुध्यमानो वञ्चनामयमिव तदुपदेशमाशङ्कते ।
मूल-पाठ (प्रतिलेखन)
अपवर्गनिरूपणम् । [पृष्ठ ११७]
स एष बुद्धिशून्यानां शून्यवादपरिग्रहः ।
प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम् ॥
तस्मात्परीक्ष्यमाणोऽयं शब्दाद्वैतपक्षवत् ।
विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते ॥
अपवर्गनिरूपणोपसंहारः ।
तदेवमद्वैतदृशा न दृश्यते जनस्य निःश्रेयससम्पदागमः ।
अतो यथोक्तात्मसतत्त्वचिन्तया कृती व्यवस्येदपवर्गसिद्धये ॥
सांख्यैर्यस्त्वपवर्गसाधनविधावुक्तः प्रकृत्यात्मनो-
रन्यत्वाधिगमोऽभ्युपाय इति स प्रागेव निर्वासितः ।
अज्ञा शक्तिमती विकारबहुला बध्नात्यकिञ्चित्करं
भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः ॥
पुंसा न किंचिदपि बन्धननिदानभूत-
मत्यल्पमात्रमपि कर्म कृतं कदाचित् ।
मध्नाति तं प्रकृतिरेव निरङ्कुशैषा
मत्ता करेणुरिव पद्मवनानि भूयः ॥
कचनलुञ्चनदिक्पटधारणक्षितिपराक्रमणक्रमपूर्वकम् ।
क्षपणकास्त्वपवर्गमुशन्त्यमी अतितरां परमार्थविदस्तु ते ॥
लोम्नां नित्यमसम्भवात् खलतयो मोक्षं क्षणात्प्राप्नुयु-
स्संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत् ।
मुक्ताः स्युर्गिरिशृङ्गयायिन इमे शश्वत्तदारोहणा-
र्ज
११८ न्यायमञ्जर्याम्
संशयलक्षणम्
संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापि न्यायप्रवृत्तिप्रयोज-
नतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्प्रथमसूत्रे च प्रमेयानन्तरं
संशयादेशादुद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह—
समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च
विशेषापेक्षो विमर्शः संशयः ॥ ( गौ० अ० १ आ १ सू० २३ )
ननु संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन पञ्चविधत्वात्सामान्यलक्षणं
विभागो विशेषलक्षणानि च वक्तव्यानि, तत्र सामान्यलक्षणे विभागे च सूत्र-
द्वयं विशेषलक्षणार्थं च पञ्चानां तत्प्रभेदानां सूत्रपञ्चकमित्येवं सप्त सूत्राणि
प्रणेतुं युक्तानि एकं चेदं सूत्रं श्रूयते तत्कथमेतद्भवष्यति ?
उच्यते, सत्यमाह भवान् किन्त्वेकमेवेदं सूत्रमावृत्तिन्यायमाश्रित्य सप्तधा
कल्पयिष्यते ।
आचार्यव्याख्यानम् ।
तत्राचार्यास्तावदेवमाचक्षते समानधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो
विशेषापेक्षो विमर्शः संशयः इतीयत्सूत्रं सामान्यलक्षणप्रतिपादकम् , समानाने-
कधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थाता विशेषापेक्षो विमर्शः संशय
इत्यस्य विशेषलक्षणप्रतिपादकमिति,
नन्वेतदेव सूत्रं सामान्यलक्षणार्थमियदेव चेदमन्यूनानतिरिक्तं विशेषलक्षणा-
र्थमिति कथमेतत् ? उच्यते विशेषस्मरणकारणभूतसाधारणधर्मग्रहणाद्विशेषाप्र-
हणाद्विशेषस्मृतेश्च संशयो भवतीति प्रत्यात्मवेदनीयं तावदेतत् , तत्र विशेषापेक्ष
इत्यनेन पदेन विशेषस्मरणमुपदिष्टमुपलब्ध्यनुपलब्ध्यव्यवस्थापदेन च विशेषा-
ग्रहणमितीयता च द्वयोरपि समानविशेषसामान्यलक्षणयोः ( संग्रहः ? )
समानशब्दस्त्वाक्षिप्तसामान्यवचनः सस्सामान्यवचनमाह अनुगतसामान्यव-
चनस्तु विशेषलक्षणमिति,
कथं पुनरयमेवाक्षिप्तसामान्यवचनः कथं वाऽनुगतसामान्यवचन इति ?
उच्यते संशयोत्पत्त्यैव समानधर्ममात्रमाक्षिप्यते यद्गृह्यमाणं विशेषस्म-
रणबीजसंस्कारोद्बोधनिमित्ततां प्रतिपद्यते तद्व्यतिरेकेण संशयानुत्पादात् ।
तथा हि-विरुद्धविशेषावमर्शस्वभावस्तावत्संशयः, न च विरुद्धविशेषाणां पुरो-
ऽवस्थिते धर्मिणि सन्निहितानामवमर्शं विरुद्धतयैवैकत्र सन्निधा-
नाभावादतः स्मृत्युपारूढानामवमर्शं स्मृतिश्च नाकस्मादुद्भवतीति यत्स-
हचरितानां तेषां विशेषाणां पूर्वं पर्यायेण ग्रहणं वृत्तं तद्दर्शनसंस्कारप्रबो-
धद्वारेण स्मरणकारणमवश्यमेवाश्रयणीयम्, तच्चानुगतं वा भवतु व्यावृत्तं वि-
:
"णमुक्तम्,"
Let's compare "क्त" in "इत्युक्तं" (L8) and "णमुक्तम्" (L19):
In L8: "इत्युक्तं" -> 'क्त' has a loop for 'क' and 'त' attached below.
In L19: the letter has that exact same 'क्त'!
Yes! It is क्त!
And the letter after it: 'म्'!
And the letter before it: 'मु'!
So it is definitely "णमुक्तम्,"!
And L18 ends with "विशेषग्रह-" or "विशेषाग्रह-"?
Wait, if L19 is "णमुक्तम्", then L18+L19 is: "...विशेषग्रहणमुक्तम्," or "...विशेषाग्रहणमुक्तम्,".
Let's write "विशेषाग्रहणमुक्तम्," or "विशेषग्रहणमुक्तम्,"?
Wait, look at L18: "विशेषग्रह-". Let's look at L15: "विशेषाग्रहणमुच्यते". In L15, there is clearly "विशेषाग्रहणमुच्यते". In L18, it is "विशेषग्रह-" (or maybe the print missed the aa-matra, or it's "विशेषग्रहणमुक्तम्" meaning "the [non-]apprehension of distinction is spoken of"). Let's look closely at L18: it has "विशेषग्रह-". Wait, actually between 'ष' and
न्तरे कालान्तरे वा चिरदृष्टानां . विशेषाणामिदानीमग्रहणं संशयकारणं न वि-
शेषाग्रहणमात्रम् , एवममुना पदत्रयेण संशयलक्षणमिदमुक्तम् ॥
ननु च 'संभूय कारकैः कार्यमारभ्यते' इति न्यायात्समानधर्मोपलब्धिवि-
शेषानुपलब्धितत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयौगपद्यमापद्यते, क्रमभा-
वित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद्व्यापारः समस्ति, विशेषाश्च बहवोऽपि
सम्भवन्तीति तत्स्मरणान्यपि युगपद्भूयांसि भवेयुः ।
नैतदेवम् , समानधर्मग्रहणानन्तरं पूर्वोपजातविविधविशेषानुभवपरम्परोप-
चितपीवरसंस्कारजमेव तद्विषयं स्मरणं भविष्यति यथा वर्णानामर्थप्रतीतौ व-
र्णितम् , उपलब्ध्व्यनुपलब्ध्यव्यवस्थापदसूचिता च विशेषानुपलब्धिरेव न सा
ज्ञानात्मिका किन्तु ज्ञानाऽनुत्पाद इति तत्तृतीयं कारणमपि भवन्न ज्ञानात्मकम् ,
ज्ञानात्मके कारणे समानधर्मग्रहणं विशेषस्मरणं च, तयोः प्रथमं समानधर्मग्र-
हणं विनश्यदवस्थं द्वितीयमविनश्यदवस्थं संशयमुपजनयतः, ईदृशोश्च ज्ञानयो-
र्यौगपद्यमविरुद्धमिति शास्त्रे स्थितम् , एवं समानधर्मग्रहणाद्विशेषाग्रहणाद्विशेष-
स्मृतेश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यते इति ।
सूत्रस्य व्याख्यान्तरम् ।
तदेतदाचार्या व्याख्यानमरोचयन्तः परेऽपरथा व्याचक्षते-सामान्यलक्षणं
तावद्द्विमर्शपदेनैव प्रतिपाद्यते, न हिपर्यायोच्चारणमात्रमिदं विमर्शः संशय इति
किन्तु संशय इति लक्ष्यपदं विमर्श इति लक्षणप्रवणपदम् , प्रमाणपदवच्च निर्व-
चनसंव्यपेक्षमेतत्पदं लक्षणप्रतिपादनक्षमं भवति, विरुद्धार्थावमर्शो विमर्शः
स्थाणुर्वा पुरुषो वेति, इयता च सजातीयसंशयपञ्चकानुगतं विजातीयेभ्यः प्रमा-
णादिभ्यो व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति, संशयोत्पादककारणपरि-
गणनं पुनरिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते कारणान्तराणाम-
प्यात्ममनःसन्निकर्षादीनामपरिहार्यत्वात्-(इति?)। अत्राप्यसाधारणकारणनिर्देश
श्चिकीर्षितस्तेनापि कोऽर्थः? सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात्तस्य च वि-
मर्शपदादेव सिद्धत्वात् , उपलब्ध्व्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहण
वर्णनं चातीव क्लिष्टमिति पुनश्च विशेषलक्षणप्रसङ्गे यथाश्रुतमेव तद् व्याख्ये-
यमित्यतिभारः , एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्यलक्षणे
वर्णिते समानधर्मोपपत्तेरित्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि
विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपयुज्यते इति , अत्र व्या-
ख्यानद्वयेऽपि कतरत्साध्विति तद्विदः प्रमाणम् ।
अनेकधर्मोपपत्तेरित्यत्रापि त्रिपदपरिग्रहेणैव लक्षणमाचार्या वर्णयन्ति
अनेकधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इत्यासाधारणधर्म-
ग्रहणाद्विशेषाग्रहणाद्विशेषस्मृतेश्च संशय इत्यर्थः , एकैकपदोपादानफलं च
पूर्ववदत्रापि दर्शयितव्यम्, न चेन्द्रियमनःसंयोगादिकारणान्तरपरिगण-
चोदनं युक्तम्, तेषां सर्वबुद्धिजन्मसु तुल्यत्त्वादिहासाधारणसंशयज्ञानकारणो-
पदेशप्रस्तावादिति ।
अन्ये तु सामान्यलक्षणसमुत्पादिते विजातीयव्यवच्छेदे केवलसजातीयव्यव-
च्छिन्नलक्षणप्रतिपादननिपुणमनेकधर्मोपपत्तिरूपमेव पूर्ववद्दर्शयांचक्रुः ।
“नन्वनेकधर्मशब्देन कथमसाधारणो धर्म उच्यते” समानजातीयमसमान-
जातीयमनेकं तस्मात्परावृत्तो धर्मोऽनेकधर्म इति, यद्वा किमनया क्लिष्टकल्पनया,
अस्त्ययमेकशब्दः समानपर्यायस्तत्र स्पष्ट एव नञ्समासेनासमानधर्मोऽनेकधर्मः
साधारणधर्म उच्यते एवेति ।
“भवत्वेवमसाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम्, विरु-
द्धविशेषानुस्मरणकारणं हि संशयमाहुः, विशेषाणां च स्मरणहेतोः संस्का-
रस्य तद्बोधकं भवति येन सहैते पूर्वपर्य्यायेणोपलब्धाः, असाधारणध-
र्मस्य त्वसाधारणधर्मत्वादेव न केनचित्सह पूर्वं दर्शनमभवद्भावे त्वासाधारण-
धर्मतैव हीयेतेत्यतः कथमसौ तत्स्मृतिहेतुः, व्यावृत्ततयैव तु स्मृतिहेतुत्वेऽस्य
त्रैलोक्यस्मरणनिमित्तता प्रसज्येत ततोऽपि व्यावृत्तत्त्वादि”ति ।
नैष दोषः, प्रकारान्तरेणास्य स्मृतिहेतुत्वात्, इह हि केषुचित्केषुचिदसा-
धारणधर्मा धर्मान्तरसहचरिता भवन्ति, तद्यथा पृथिवीत्वगन्धवत्त्वादयो धर्माः
पृथिव्यामसाधारणास्सन्तः स्नेहवत्त्वादिधर्मांश्च तथैवाप्सु द्रव्यत्वसहचारिणो
दृष्टाः, रूपादिषु रूपत्वादिधर्मा गुणत्वसहचारिणः, उत्क्षेपणादिषु उत्क्षेपणत्वा-
दिधर्माः कर्मत्वसहचारिणः, एवं प्रकृतेऽपि धर्मिणि कस्मिंश्चित्कश्चिदसाधारणो
धर्म उपलभ्यमानः केनापि साधारणधर्मान्तरेण सहचरितो भवेदिति विशेषा-
नुस्मृतिद्वारेण संशयसाधनम् ।
“नन्वेवं तर्हि व्यावृत्तत्त्वादेव समानधर्मादेष संशयो नानेकधर्मादि”ति, मै-
वम्, अनेकधर्म एवासौ तेन वर्त्मना विशेषान्स्मारयन्संशयजन्मने कल्पते,
सति हि तस्मिन्किमालम्बनं व्यावृत्तत्वं स्यादित्यलमतिसूक्ष्मेक्षिकया ।
तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम्, यथा हि पृथिव्यादौ
पृथिवीत्वादिः व्यावृत्तो धर्मो द्रव्यत्त्वाद्यनुगतधर्मसहचारी दृष्ट एवं शब्दे विभा-
गजत्वं धर्मः केन द्रव्यत्वादीनामन्यतनेन धर्मेण सहचरितः स्यादिति संशयः ।
“ननु विभागजत्वमसाधारणं न भवत्येव शब्दधर्मो विभागेऽपि भावात्,
तथा च प्रयोगः--गुणः शब्दो विभागजत्वाद्विभागजविभागवद्” इति ।
तत्र केचिदाहुः, सत्यमस्ति विभागेऽपि विभागजत्वं, शब्दे तु विशेषो वि-
वक्षितः, द्विविधो हि विभागजो विभागः--कारणविभागपूर्वकः कारणाकारण-
विभागपूर्वकश्च, कारणं समवायिकारणमत्राभिप्रेतम्, कारणविभागपूर्वकस्ता-
वत्तन्तुविभागात्तन्त्वाकाशविभागः, कारणाकारणविभागपूर्वकस्त्वङ्गुल्याका-
शविभागाद्धस्ताकाशविभागो हस्ताकाशविभागादपि शरीराकाशविभाग इति,
शब्दस्तु नियमेनैव कारणविभागपूर्वकविभागप्रभवः वंशदलविभागाद्दलाकाश-
विभागो दलाकाशविभागाच्च समवायिकारणाच्छब्दो निष्पद्यते इत्यनेन विशेषे-
णास्येदृशविभागजत्वस्यासाधारणत्वं शब्दधर्मस्योच्यते इति ।
प्रासङ्गिकं विभागजविभागखण्डनम् ।
अन्ये तु विभागजं विभागममृष्यमाणा यथाश्रुतस्यैव शब्दे विभागजत्वस्या-
साधारणधर्मतामाचक्षते ।
“ननु किमिति विभागजं ते विभागं न मृष्यन्ति ? अस्ति ह्ययं तत्सिद्धौ
न्यायः—यदा ह्यवयवे कर्मोत्पन्नमवयवान्तराद्विभागं करोति न तदाकाशादिदेशा-
द्यदा त्वाकाशादिदेशान्न तदाऽवयवान्तरादिति स्थितिः, किंकृता पुनरियं
स्थितिरिति चेत् , उच्यते—या ह्यवयवक्रिया नभोविभागकारिणी नासौ द्रव्या-
रम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते दिनकरकिरणपराम-
र्शोपजनितकमलदलविकासकारिक्रियावत् , तदेव कथमिति चेत्, कमलस्य
मुकुलविकासदशयोः प्रत्यभिज्ञायमानत्वेनाविनाशनिश्चयात् , इयन्तु पाट्यमान-
वंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूतविभागारम्भिकोपलभ्यते इति
नासौ नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना
क्रियते, संयोगान्तं कर्मेति(च?) तावत्स्थितम्, अन्यथा हि तस्य कालान्तरस्था-
यित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् , तस्मात्कर्मणोऽचिरजीवित्वात्त-
द्विनाशकेन संयोगेन भवितव्यम् , उत्तरश्च संयोगः पूर्वसंयोगोपरमे सति जायते
नान्यथा, न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति,
कर्म तूत्तरसंयोगजन्मनिर्ज्ञातकौशलम् ।
न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ॥
तस्माद्विभागेनैव संयोगनाशकारिणा भाव्यम्, स च यदधिकरणो विभागस्त-
दधिकरणमेव संयोगमुपशमयति न त्वङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय
प्रभवतीत्यतो न वंशदलवृत्तिर्विभागो दलाकाशसंयोगमपहन्तुमलमिति नूनं द-
लाकाशसंयोगेन भवितव्यम् , तदिदानीं तस्योत्पत्तिकारणचिन्तायां क्रियाया वं-
शदलविभागमात्रोपजनने चरितार्थत्वात्तं निर्माय विभागान्तरनिर्माणे विरम्य
व्यापारासंवेदनादवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागार-
म्भकोऽभ्युपगमनीयः, एवमनभ्युपगमे कर्मनित्यत्वप्रसङ्गादि”ति ।
अत्र वदन्ति—न कर्मनित्यत्वमनभ्युपगम्यमानेऽपि विभागजे विभागे भ-
विष्यत्युत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । “पूर्वसंयोगानुपरमे कथं तदु-
त्पाद” इति चेत्, बाढमुपरत एव पूर्वसंयोगः, “कस्तस्योपरमहेतुर्”ति चेत् ,
संख्याप्रकरणम् । १२३
कर्म ह्युत्तरसंयोगनिमित्तं यदुपैयते ।
तदेव पूर्वसंयोगध्वंसकारि भविष्यति ॥
न च यज्जनने शक्तमशक्तं तद्विनाशनै ।
हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ॥
यथा च विभागेऽधिकरणनियमो यदाधारो विभागस्तदाधारमेव संयोगं
निरुणद्धि तथा कर्मण्यपि नियमः कर्मापि स्वाश्रयस्य यदन्यदिक्सम्बन्धनिबन्धनं
तत्तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः, एवं कर्माविष्टस्योत्तर-
संयोगदर्शनमदूषणं दिगन्तसंयोगस्य तेनोपमर्दनात् , अपि च यदेव कर्म वंश-
दलविभागकारि कथ्यते तदेव दलाकाशविभागकारि भविष्यति को दोषः ।
“ननु व्योमविभागकारिकर्म न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभागार-
म्भकमम्भोरुहपल्लवकर्मवदि”त्युक्तम् , सत्यमुक्तम् , अयुक्तं तु शतपत्रपत्रकर्मणो
ऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात्तच्च कुङ्मलकमलाद्विकचक
कलस्यान्यत्वनिश्चयान्निश्रितम् ।
“ननु तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात्कथं
सङ्कोचविकासदशामात्रभेदात्तदन्यत्वमि”ति, कृतमनया दुराशया शरीरेऽपि
सुस्पष्टोपलभ्यमानैशैशवयौवनवार्धकादिदशाभेदभिन्नस्वरूपे प्रत्यभिज्ञानदर्श-
नात् , न च शरीरकुशेशयोर्विशेषलेशमपि पश्याम इति कुतस्तदेकत्वम् , भवतु
वा पुण्डरीकस्याविनाशो निदर्शनमात्रमिदं तु वर्णितं न तु प्रतिबन्धः ( द्धः ? )
कश्चन हेतुरभ्यधायि, येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत,
क्रियात्वं त्वप्रयोजकमेव कर्मणां विचित्रकार्यहेतुत्वात् , यदि वा नान्यो वंशद-
लविभागो नान्यश्च तत्कार्यो दलाकाशविभागः, किन्तु
एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः ।
एकत्र देशेऽवस्थानाद्योम्नो वंशदलस्य च ॥
समानदेशे वृत्तित्त्वं मूर्तानां हि विरुद्धयते ।
व्योम्नः सर्वगतत्वात्तु विद्यते तत्र सन्निधिः ॥
एकदेशाश्रयत्वे तु यदेकस्माद्विभागकृत् ।
तदेवान्यत इत्यस्ति न विभागो विभागजः ॥
प्रासङ्गिको विभागगुणान्तरत्वनिरासः ।
अपरे पुनर्विभागजविभागपराकरणापारूढरभसाः सङ्गिरन्ते-तिष्ठतु तावद्
दूरत एव विभागजो विभागः, कर्मजोऽपि न विभागो नाम कश्चिदस्ति, संयोग
विरोधििन तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत्पूर्वसिद्धताऽवश्यंभाविनी वत-
श्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभा-
गयोरेकत्र युगदुपलब्धिर्भवेन्न चैवमस्ति, तस्मात्संयोगाभावविषय एव विभ-
क्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते, सत्यपि विभागे तस्मिन्क्षणे
संयोगस्य विनाशान्न भवति विभक्तप्रतिभासः, क्षणान्तरे च संयोगविनाशे
सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगाभावविषय एवावसीयते न प्रत्यक्ष-
गम्यता विभागस्य, संयोगभङ्गलिङ्गेन च तत्परिकल्पनक्रियैव तं हिनस्तीति
पुरस्तात्प्रतिपादितम् ।
“कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ?” उच्यते त्रिविधं-
कारणं कार्योत्पत्तिं विधत्ते—समवायिकारणम् असमवायिकारणं निमित्तकारणं
चेति, तत्र समवायिकारणं तदुच्यते यत्राश्रितं कार्यमुपलभ्यते यथा पटस्य तन्त-
वः, असमवायिकारणन्तु द्विविधं कार्यैकार्थसमवायलक्षणप्रत्यासत्त्या प्रत्यासन्नं
कारणैकार्थसमवायलक्षणया वा, तत्र कार्यैकार्थसमवायेन प्रत्यासन्नं यथा पटस्य
तन्तुसंयोगः, कारणैकार्थसमवायेन तु प्रत्यासन्नं यथा पटरूपस्य तन्तुरूपमि-
ति, अवधृतसामर्थ्यं च तदसमवायिकारणमाश्रयणीयमतो बुद्धिजन्मनि सत्य-
प्येकार्थसमवाये नान्येषामात्मगुणानामिच्छादीनामसमवायिकारणत्वमपि त्व-
वधृतसामर्थ्यस्यात्ममनःसंयोगस्यैवेति, समवाय्यसमवायिव्यतिरिक्तं तु कार्यो-
त्पत्तौ निर्ज्ञातसामर्थ्यं यत्कारणं तन्निमित्तकारणमुच्यते,—इत्येवं स्थिते शब्दस्य
नित्यत्वे निरस्ते कार्यत्वे च साधिते तदुत्पत्तौ आकाशं समवायिकारणं निमि-
त्तकारणानि तु भूयांसि सन्त्येवासमवायिकारणं तु चिन्त्यम्, तच्चाकाशाश्रितम-
वश्यमन्यथा प्रत्यासत्त्यभावात् तद्गुणान्तराणां च विभुत्वादीनामनवधृतश-
क्तित्वाद्वंशदलपाटनसमनन्तरं च शब्दोत्पाददर्शनादेवं मन्यामहे—
क्रिया यदैव संयोगं हन्ति वंशदलाश्रितम् ।
तदैव गगने कञ्चित्करोत्यतिशयं ध्रुवम् ॥
आकाशातिशयो यश्च क्रियाजः शब्दकारणम् ।
असौ विभागनामेति शब्दे तज्जन्यतोच्यते ॥
तदेतमेतद्यथागममाचार्यमतमभिहितमस्माभिः । एतच्च मतिमद्भिर्विचारणी-
यम्—किमाकाशातिशयमात्रमसमवायिकारणमुत यथा भेरीदण्डसंयोगकार्ये शब्दे
भेरीगगनसंयोगस्यासमवायिकारणत्वमेवं वंशदलविभागकार्ये तस्मिन्दलगगन
विभागस्येति, दलाकाशविभागोऽपि किं दलविभागज उत कर्मण एवेति,
सर्वथा कश्चिदसाधारणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता नः प्रयोजनम् ।
विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः, अस्यात्मेत्येके नास्यात्मेत्यपरे, सेयं विप्र-
तिपत्तिरुपलभ्यमाना विशेषस्मरणद्वारेण संशयमावहति, न चेह कश्चिदनुगतो
व्यावृत्तो वा धर्मः संशयकारणमपि तु विप्रतिपत्तिरेवेति, अत्रापि त्रिरूपपरि-
ग्रहेण लक्षणवर्णनमेकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनुसरणीयम् ।
उपलब्ध्यव्यवस्थातः खल्वयं भवति संशयः, सच्चोदकमुपलभ्यते यथा ह्रदादिषु
कचिदसच्च भास्करकरनिकरप्रतिफलतरलितासु मरुस्थलीषु, तदेवमुपलब्धेर-
व्यवस्थितत्वात् कचिदुपलभ्यमाने भवति संशयः—‘किमिदं सदुपलभ्यते किम-
सदिति, अनुपलब्ध्यव्यवस्थातश्च भवति संशयः—‘किंचिदसदेव नोपलभ्यते
नभःकुसुमादि किंचित्सदपि नोपलभ्यते मृदन्तरितशङ्खमूलकादितदन्य-
त्रानुपलभ्यमाने संशेते पुमान्किमिदमसदेव नोपलभ्यते उत सदिति’ अव्यवस्था-
शब्देनात्र पूर्वं पर्यायेण वृत्तसदसदाश्रितविशेषादर्शनं सूचितम्, इदानीं पु-
नरर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसामुपलब्ध्यनुपलब्ध्यदर्शनमात्रोपपत्ते-
स्संशयो वर्ण्यते, न चैवं सति सर्वत्रानाश्वास इति शङ्कनीयम्, यथानुभवं संश-
याभ्युपगमात्, सर्वत्र च तदुत्पादकविशेषाग्रहणतत्स्मरणादिकारणसन्निध्या-
संभवादिति, अत्रापि पदत्रयेणैकेन वा पदेन लक्षणोपपादनं पूर्ववद् द्रष्टव्यम्।
“ननु चोपलब्ध्यनुपलब्धी सदसतोः समान एव धर्म इति पूर्वेण गतार्थत्वम्”
नेतन् पूर्वनिर्दिष्टयोर्ध्वत्वादेर्धर्मस्य ज्ञेयस्थत्वादुपलब्ध्यनुपलब्ध्योश्च ज्ञातृस्थ-
त्वात्, अत एव च मानसमिमं संशयमाचक्षते न बाह्यधर्मिसंबद्धसाधारणोर्ध्व-
तादिधर्माधिगमाधीनसंशयवद्वाह्येन्द्रियजम् । “ननु चोपलब्धित्वमनुपलब्धित्वं
वाऽत्र संशयकारणं तद्धि न ज्ञातरि वर्तते किन्तु बुद्धाविति कथमयं विशेषः ?”
सत्यमेवं किन्तु समानधर्मोप्युपलब्धितादिको यदाश्रितो तद्धि बोद्धरि वर्तते
अतो विशेषात्पृथगेव कथ्यते यथा ह्यसाधारणतासमाश्रयः, एवं प्रकारमेव च
विशेषमाश्रित्य किञ्चित्पञ्चविधत्वं विपश्चूयते, परमार्थतस्तु सर्वत्रानुगतसंबन्धो
दुष्परिहरः विशेषस्मरणजन्यत्वात्संशयस्य विशेषाणां च येन सह पूर्वं दर्शनम-
भूत्तस्मिन्ननुपलभ्यमाने स्मरणासंभवात् , अतस्तस्यानेकविशेषानुगामित्वात्स-
मानत्वात्समानत्वमपरिहार्यम् , अत एवाक्षिप्तसामान्यवाचिसमानशब्दं सामा-
न्यलक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण ।
इति पञ्चविधः प्रपञ्चतो मुनिना दर्शित एष संशयः ।
फलद्व्यवहारहेतुतामनुमानाङ्गतया बिभर्ति यः ॥
अनुमानिरपेक्ष एव वा किल दृष्टे विषयेऽर्थसंशयः ।
वहति व्यवहारवर्त्तिनीमिति पूर्वं च विचारितं बुधैः ॥
इति (३) संशयपदार्थः ।
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥
( गौ० अ० १ आ० १ सू० २४ )
‘यमि’त्यत्र देशकालपुरुषद्शाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्ट-
ष्ट्या। अर्थोऽर्थ्यमान उच्यते न वस्तुरूप एव अभावस्यापि प्रयोजनत्वसम्भवात्,
अधिकारोऽर्थस्य व्यवसायः, यं यमर्थमाप्तव्यं हातव्यं वाधिकृत्य व्यवसाय-
प्रवर्तते तत्प्राप्तये परिहाराय वा चेष्टते पुरुषस्तत्प्रयोजनमिति, तच्च गौणमु-
ख्यभेदेन द्विविधम्—मुख्यं सुखप्राप्तिर्दुःखपरिहारश्च, तत्साधनं गौणम्, सुख-
साधनमपि चन्दनघनसारमहिलादि प्राप्तव्यत्वान्मुख्यत्वेन यदा विवक्षितं भवति
तदा तदवाप्युपाये गौणता द्रष्टव्या।
तच्च प्रयोजनं देशकालपुरुषदशाभेदाद्व्यवस्थितम्, तद्यथा ग्रीष्मे मरुस्थले
निशातमलातनिकरमिव किरति किरणमिषेण पूषणि तृषातुरस्य तुषारकणोत्क-
रदन्तुरमम्बु परमं सुखसाधनं तदेव शिशिरे सकलजगत्कम्पकारिणि दारुणस-
मीरणशिथिलीकृतनीरेषु कश्मीरेषु श्लेष्मोपचयजनितजठरशिखिनः खेदाय
जायते, तस्मादनियत एवायं सुखदुःखसाधनभावो भावानाम्, यद्यपि च यदै-
कदा सुखसाधनमिति विदितमुपयुक्तमतिक्रान्तं वस्तु तथापि तज्जातीयत्वलिङ्गा-
वधृतसुखसाधनभावे भावान्तरेऽपि प्रवर्तन्त एव तदर्थिनः।
“ननु प्रयोजनस्य प्रवर्तकत्वमयुक्तं सदसद्विकल्पानुपपत्तेः—सत्त्वे कर्णनासा-
दिवन्न तदर्था प्रवृत्तिरसत्त्वे तु खपुष्पादिवन्नतराम्”। नैष दोषः, ईप्साजिहासावि-
षयीकृतस्य प्रवर्तकत्वात्, न हि तत्खपुष्पादिवदसाध्यं नापि शिरःपादायादिव-
त्सिद्धमेव अपि तु साध्यत्वेन बुद्ध्युपारूढं तत्प्रवर्तकमिति युक्तम्, तदेव च
वाक्यार्थ इति पूर्वमुक्तम्।
इत्थं प्रवर्तकत्वे प्रयोजनस्योपपादिते मुनिना।
भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः॥
प्रयोजनमतोऽखिलैर्विधिवचोभिरादिश्यते
प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः।
क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः
प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते॥
वैतण्डिकः प्रयतते निजपक्षसिद्धये
तां चैष वेद परपक्षनिषेधलभ्याम्।
तस्मादियं स्वमतसाधनवर्जिताऽपि
युक्ता प्रयोजनवती भवितुं वितण्डा॥
इति(४) प्रयोजनपदार्थः॥
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः॥
गौतमसूत्रम् अ० १ आ० १ सू० २५।
लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्तप्रस्तावलक्षणाद्वेदितव्यौ न
तु मूर्खपण्डितौ प्रकृतासङ्गतेस्तयोश्च सङ्गस्यभावात्, तयोर्यस्मिन्नर्थे भावस्व-
भावेऽभावात्मके वा बुद्धिसाम्यं—प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधन-
धर्माधिकरणत्वे साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः
स दृष्टान्तः, तस्य तथाविधधर्माधारत्वं तद्रहितत्वं वा लक्ष्यमाणान्मन्तव्यं,
यथा चानुमानलक्षणे 'तत्पूर्वकमि'ति प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितं तत्स्व-
रूपं त्ववयवलक्षणे निर्णीतं 'उदाहरणसाधर्म्यात्साध्यसाधनं हेतुस्तथा वैधर्म्या-
दिति, एवमिह वादिप्रतिवादिप्रसिद्धिमात्रं दृष्टान्तस्य दर्शितं, रूपं तु तस्य द्विवि-
धमपि तत्रैव वक्ष्यते—'साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् , तद्विपर्यया-
द्वा विपरीतमिति' अनित्यः शब्दः कृतकत्वाद् यत्कृतकं तदनित्यं दृष्टं यथा घट
इति साधर्म्यदृष्टान्तः, यत्पुनरनित्यं न भवति तत्कृतकमपि न भवत्येव यथा-
ऽऽकाश इति वैधर्म्यदृष्टान्तः, यथोक्तलक्षणवैकल्यात्तु दृष्टान्ताभासता इति ।
आभासभेदविभवात्कथयिष्यते तु तेषामुदाहरणलक्षणवाक्प्रसङ्गे ।
आभासता वचनदोषकृताऽपि काचिदस्तीति साऽवयवलक्षणएव वाच्या ॥
द्विविधोऽपि च दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः ।
स हि निश्चलः फलनिधेरनुमानमहातरोः स्कन्धः ॥
इति (५)दृष्टान्तपदार्थः ॥
तन्त्राधिकरण।भ्युपगमसंस्थितिः सिद्धान्तः ॥
(गौ० अ० १ आ० १ सू० २६)
तन्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते, अधिकरणमाश्रयः,
तन्त्रमधिकरणं यस्य स तन्त्राधिकरणः प्रमाणमुल इत्यर्थः, अभ्युप-
गमः स्वीकारः तस्य संस्थितिरित्थम्भावव्यवस्था धर्मनियमः, इदमिति
सामान्यनिर्देश इत्थमिति विशेषः, एवं च तन्त्राधिकरणाभ्युपगमसंस्थितिः
प्रमाणमूलाभ्युपगमव्यवस्था सिद्धान्त इत्युक्ते प्रमाणमूलाभ्युपगमविषयीकृतः
सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षणमुक्तं भवति । अन्ये तु
व्याचक्षते—तन्त्रमितरेतरसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् , अधिक्रियते
इत्यधिकरणं पक्ष उच्यते, अभ्युपगमो यथोक्त एव, संस्थितिशब्दः प्रत्येकम्-
भिसंबध्यते, तन्त्रसंस्थितिरधिकरणसंस्थितिरभ्युपगमसंस्थितिरित्यनेन तन्त्र-
निर्देशसाम्यात्सर्वतन्त्रसिद्धान्तयोः सूचनमितराभ्यां पदाभ्यामुत्तरयोरधिकर-
णाभ्युपगमसिद्धान्तयोः—इति, एतत्त्वपव्याख्यानम् , न ह्येवं सिद्धान्तचतुष्टया-
नुगतं किञ्चित्सामान्यलक्षणमुक्तं भवति—न चेदं विभागार्थं विशेषलक्षणार्थं वा
सूत्रम्, तत्प्रतिपादनस्योत्तरसूत्रैः करिष्यमाणत्वादुक्तस्य च पुनर्बचने योज-
नाभावादतः पूर्वक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः
तस्य स्वकण्ठेन विभागमाह—
स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्था-
न्तरभावात् ॥ ( गौतमसूत्रम् अ० १ आ० १ सू० २७ ) वति ।
चतुष्प्रकारो हि सिद्धान्तः सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधि
सिद्धान्तः अभ्युपगमसिद्धान्तः । तत्र—
सर्वतन्त्राविरुद्धः स्वन्त्रेऽधिकृतोऽर्थः ( सर्वतन्त्रसिद्धान्तः १) ॥
( गौतमसूत्रम् अ० १ आ० १ सू० २८ )
अत्र तन्त्रशब्देन शास्त्रमुच्यते, स्वशास्त्रे य उपदिष्टोऽर्थः सर्वशास्त्रावि-
रुद्धश्च स सर्वतन्त्रसिद्धान्तः, यथा चाक्षुषं प्रमाणमिति, “नन्वत्रापि विवद-
ब्रह्मवादिनां हि सर्वे वेयमविद्या अविद्या च कथं प्रमाणमिति” न व्यवहाराव
स्थायां तैरपि तत्प्रामाण्याभ्युपगमात् , संख्यालक्षणविषयविप्रतिपत्तिस्तु
तिशास्त्रं भवतु, चाक्षुषं प्रमाणमितीयति सर्ववादिनामविवादः ।
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
( गौतमसूत्रम् अ० १ आ० सू० २९ )
तन्त्रेऽधिकृतोऽर्थ इति वर्तते, यथा ऽस्माकमीश्वरेच्छाप्रेरितपरमाणुनिर्मिता
नि पृथिव्यादीनि समानतन्त्रे कणव्रतमते तथैव सिद्धानि परतन्त्रे च सांख्यादि
शास्त्रे तथा नाभ्युपगम्यन्त इति , यथा वा गुणत्रयात्मिकायाः प्रकृतेर्महदहङ्का-
रादिक्रमेण भूतसर्ग इति सांख्यानां स्वतन्त्रसिद्धोऽर्थः समानतन्त्रेऽपि पातञ्जले
योगशास्त्रे सिद्ध एव परतन्त्रे तु वैशेषिकादिमते न सिद्ध इति । “नन्वस्य कथं
प्रमाणमूलता?” स्थाने प्रश्नः सत्यमेतत् आस्माकीने हि प्रवितन्त्रसिद्धान्ते प्रमा-
णमूलत्वं यथार्थमेव सांख्यसिद्धान्तस्तु प्रमाणमूलत्वाभावेऽपि परतन्त्रत्वख्या-
पनायोदाहृतः तदभिप्रायेण मूलता वक्तव्येति ।
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥
( गौतमसूत्रम् अ० १ आ० १ सू० ३० )
प्रक्रियते इति प्रकरणं पक्ष उच्यते, यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्-
सिद्धिर्भवति सोऽधिकरणसिद्धान्तस्तदधिकरणानामर्थान्तराणां सिद्धेः ।
“कः पुनर्यत्सिद्धाविति सर्वनाम्ना प्रत्यवमृश्यते पक्षो हेतुर्वा ? किं चात
पक्षः कथं पक्षान्तरसिद्धये कल्पते, हेतुना हि पक्षसिद्धिः क्रियते पक्षेण,
हेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देश-
प्रयोजनं वर्णितम्, न्यायो हि हेतुरेव स एव चाधिकरणसिद्धान्तो न च हेतु-
र्हेत्वाश्रय” इति ।
उच्यते-उभयथा ऽप्यदोषः हेतुरपि क्वचित्पक्षीभवति, पक्षो हि हेतुर्भव-
न्न तत्र तावदाञ्ज्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नाऽवमृश्यते
तत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः ।
“कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ?” उच्यते-हेतुरपि तदन्यतराभिन्न इव
साध्यमानत्वात्पक्षीभवन्न्यायान्तराश्रयतां प्रतिपत्स्यते ऽपि वा पक्ष एव सर्वनाम्ना-
ऽवमृश्यमाणो भवत्वधिकरणसिद्धान्तः, स च स्पष्ट एव न्यायस्याश्रयः, स च
सिद्धयै पक्षान्तराण्याक्षिपन्नेव सिद्धयतीत्यधिकरणसिद्धान्ततां भजते, तस्यो-
दाहरणम्-‘इन्द्रियव्यतिरिक्तो ज्ञाता
तस्मादेवं व्याख्यायते-अपरीक्षिताभ्युपगम एव स्वमतिकौशलेन क्रियमाणे-
ऽभ्युपगमसिद्धान्तः अस्तु द्रव्यं शब्द इति, प्रमाणमूलाभ्युपगमविषयीकरणं तु
सामान्यलक्षणे प्रौढवाद्यभिप्रायेण योज्यम्, द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु
तथाऽपि तस्यानित्यत्वमिति किल निरवयवं द्रव्यमनित्यं नास्त्येव शब्दस्य तु
तादृशस्याप्यनित्यत्वमहं साधयामीति, कथं तर्हि पञ्चमी? किं पञ्चम्या वस्तु
तावदीदृशं यथा व्याख्यातमस्माभिः, पञ्चम्यपि चेत्थं योज्यते-किमर्थं पुनर-
यमपरीक्षित एव शब्दद्रव्यत्वाभ्युपगमः क्रियत इति पृच्छत उत्तरं पञ्चम्या-
भिधीयते यस्मादपरीक्षिताभ्युपगमात्तद्विशेषानित्यत्वपरीक्षणमवकल्पते तस्मा-
दपरीक्षिताभ्युपगमोऽभ्युपगमसिद्धान्त इति, न तु तद्विशेषपरीक्षणमेव सामाना-
धिकरण्यनिर्देशादभ्युपगमसिद्धान्त इति मन्तव्यं परीक्षणस्य सिद्धान्ताश्रि-
तत्वात्, तस्माद्विशेषपरीक्षणार्थोऽपरीक्षिताभ्युपगमः प्रौढवादिना क्रियमाणो
ऽभ्युपगमसिद्धान्त इति सूत्रार्थः, इत्थमेव च तत्र तत्र प्रावादुकानां व्यवहारः।
इमाश्च सिद्धान्तभिदाश्चतस्रो न्यायप्रवृत्तेः प्रथमं निमित्तम्।
प्रवर्तते नैव परीक्षकाणामनाश्रया न्यायकथा कदाचित्॥
इति ( ५ ) सिद्धान्तपदार्थः।
इह
अवयवप्रकरणम् । १३१
किन्त्वेनमनुमानेन बोधयामीति मन्यते ।
सोऽपि तद्वचनान्नैव तमर्थमवबुध्यते ॥
किन्तु व्याप्तिमतो लिङ्गात्स्वयं तत्तु न पश्यति ।
तत्प्रतीत्यभ्युपायतवात्परार्थमिदमुच्यते ॥
अतश्च श्रातुः स्वार्थानुमानमेवेदं वक्ता तु तथा परं प्रतिपादयन्यरार्थम-
नुमानं प्रयुङ्क्त' इत्युच्यते ।
न चानुवादमात्रं तद्वक्तुरित्युपपद्यते ।
यतो व्याप्रीयते सम्यक्परस्य प्रतिपत्तये ॥
तेनानधिगतार्थोपदेशकत्वान्नानुवादमात्रं स्वागमापेक्षया त्वनुवादत्वे नेदानी-
मात्रवचनमनुवादरूपं किञ्चिद्भवेत्सर्वस्य स्वोपलब्धिपूर्वकत्वादिति, तस्मात्परा-
र्थानुमानवाक्योपपत्तेस्तदेकदेशा अवयवा युक्ता इति लक्ष्यन्ते—
प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः॥ (अ० १ आ० १ सू० ३२)
एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते, विभागं च प्रमा-
णानामिव प्रत्यक्षानुमानोपमानशब्दास्साधनीयार्थप्रतिपत्तिपर्यन्तवचनकलापैक-
देशत्वमवयवानां सामान्यलक्षणमाचष्टे । यद्यपि चैकवक्तृवचननिर्गतानां निस-
र्गभङ्गुराणामदीर्घायुषामपरिहार्यक्रमजन्मनां द्रुमाणामिव पारमार्थिकस्समूहो
न समस्त्येव, तथाऽपि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृता-
त्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तद्भा-
गा अपि सम्भवन्त्येव । न च पदानामेवानुमानवाक्यावयवत्वम् , अपि तु खण्ड-
वाक्यानामेकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् , हेतुवचनं
त्वेकमपि पदं क्वचिद्भवति कृतकत्वादिति, तदपि वा सविशेषणं प्रयुज्यमानं
पदसमुदायेनैव प्रतिपाद्यते वस्तुत्वे सति कृतकत्वादिति, उदाहरणवचनमपि
पटवदित्येवमालस्यादेव प्रयुज्यते तद्धि व्याप्तिदर्शनायैव वक्तव्यं यत्कृतकं त-
दनित्यं दृष्टं यथा घट इति, तस्मादवयवानामवयवत्वमेव लक्षणं न पदत्वम् ,
विभागो ऽपि प्रतिज्ञादिपदसन्निधाववयवश्रुतेरेवावगम्यते प्रतिज्ञादयः पञ्चावयवा
न न्यूनातिरिक्ता इति । “न