न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 536, कुल 654 में से
संदर्भ में पढ़ेंवत्तन्तुविभागात्तन्त्वाकाशविभागः, कारणाकारणविभागपूर्वकस्त्वङ्गुल्याका-
शविभागाद्धस्ताकाशविभागो हस्ताकाशविभागादपि शरीराकाशविभाग इति,
शब्दस्तु नियमेनैव कारणविभागपूर्वकविभागप्रभवः वंशदलविभागाद्दलाकाश-
विभागो दलाकाशविभागाच्च समवायिकारणाच्छब्दो निष्पद्यते इत्यनेन विशेषे-
णास्येदृशविभागजत्वस्यासाधारणत्वं शब्दधर्मस्योच्यते इति ।
प्रासङ्गिकं विभागजविभागखण्डनम् ।
अन्ये तु विभागजं विभागममृष्यमाणा यथाश्रुतस्यैव शब्दे विभागजत्वस्या-
साधारणधर्मतामाचक्षते ।
“ननु किमिति विभागजं ते विभागं न मृष्यन्ति ? अस्ति ह्ययं तत्सिद्धौ
न्यायः—यदा ह्यवयवे कर्मोत्पन्नमवयवान्तराद्विभागं करोति न तदाकाशादिदेशा-
द्यदा त्वाकाशादिदेशान्न तदाऽवयवान्तरादिति स्थितिः, किंकृता पुनरियं
स्थितिरिति चेत् , उच्यते—या ह्यवयवक्रिया नभोविभागकारिणी नासौ द्रव्या-
रम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते दिनकरकिरणपराम-
र्शोपजनितकमलदलविकासकारिक्रियावत् , तदेव कथमिति चेत्, कमलस्य
मुकुलविकासदशयोः प्रत्यभिज्ञायमानत्वेनाविनाशनिश्चयात् , इयन्तु पाट्यमान-
वंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूतविभागारम्भिकोपलभ्यते इति
नासौ नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना
क्रियते, संयोगान्तं कर्मेति(च?) तावत्स्थितम्, अन्यथा हि तस्य कालान्तरस्था-
यित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् , तस्मात्कर्मणोऽचिरजीवित्वात्त-
द्विनाशकेन संयोगेन भवितव्यम् , उत्तरश्च संयोगः पूर्वसंयोगोपरमे सति जायते
नान्यथा, न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति,
कर्म तूत्तरसंयोगजन्मनिर्ज्ञातकौशलम् ।
न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ॥
तस्माद्विभागेनैव संयोगनाशकारिणा भाव्यम्, स च यदधिकरणो विभागस्त-
दधिकरणमेव संयोगमुपशमयति न त्वङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय
प्रभवतीत्यतो न वंशदलवृत्तिर्विभागो दलाकाशसंयोगमपहन्तुमलमिति नूनं द-
लाकाशसंयोगेन भवितव्यम् , तदिदानीं तस्योत्पत्तिकारणचिन्तायां क्रियाया वं-
शदलविभागमात्रोपजनने चरितार्थत्वात्तं निर्माय विभागान्तरनिर्माणे विरम्य
व्यापारासंवेदनादवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागार-
म्भकोऽभ्युपगमनीयः, एवमनभ्युपगमे कर्मनित्यत्वप्रसङ्गादि”ति ।
अत्र वदन्ति—न कर्मनित्यत्वमनभ्युपगम्यमानेऽपि विभागजे विभागे भ-
विष्यत्युत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । “पूर्वसंयोगानुपरमे कथं तदु-
त्पाद” इति चेत्, बाढमुपरत एव पूर्वसंयोगः, “कस्तस्योपरमहेतुर्”ति चेत् ,