न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 527, कुल 654 में से
संदर्भ में पढ़ेंकिं न भक्षयितुं शक्या नारी कौलेयकेन(१) सा ।
किं वा न शमयत्येषा कामिनो मदनज्वरम् ॥
शवाद्वा केन रूपेण सा विशिष्येत योगिनः ।
धीत्रयं तु न सर्वेषामभावात्सहकारिणः ॥
प्रतिप्राणिनियतानेकविधवासनासहकारिसापेक्षो हि तस्य ज्ञानस्यात्मलाभ
इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ।
यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति किमर्थकल्पनया, अयि
साधो किमद्यापि न परिहरसि सुचिरं गणितां कल्पनावाचोयुक्तिं न ह्यर्थः
कल्प्यतेऽपि तु प्रतिभासते एव, बहुरूपस्य तु वस्यैकतमरूपपरिच्छेदनियमे
किमपि वासनादि कारणं क्वचित्कल्प्यते कस्तावताऽर्थनिह्नवस्यावकाशः ।
यच्चोक्तं-वासनाभेद एव ज्ञानवैचित्र्यकारणमितरेतर कार्यकारणभावप्रब-
न्धश्च बीजाङ्कुरवदनादिर्ज्ञानवासनयोः-इति, तदप्यघटमानम्, केयं वासना नाम?
ज्ञानाद्व्यतिरिक्ता चेत्सा ऽपि स्वच्छरूपत्वान्न ज्ञानकालुष्यकारणं भवेत्, ज्ञान-
व्यतिरिक्ता चेद्वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् ।
अपि च वासना विषयानुभवसमाहितः संस्कार इति लोके प्रसिद्धिः, सं-
स्कारश्च यदनुभवघटितः तत्रैव क्वचिदवसरे स्मरणमनुभवति न पुनरसदेव
वैचित्र्यमिदमीदृशमावहति ।
किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्यवासक-
भावेऽपि निराकर्त्तव्यः , स्थायिनो हि भावास्तिलादयः स्थायिभिरेव चम्पका-
दिभिर्वास्यन्ते न तूत्पद्य सद्येव नश्यद्भिः ज्ञानैस्तादृशान्येव ज्ञानानीति ।
निरन्वयविनाशाच्च न तदंशो ऽनुवर्त्तते ।
यतः कथंचिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥
अपि चैकत्र देवदत्तसन्ताने वासना यतः सहस्राणि ज्ञानवैचित्र्यकारिणि
भवेयुः, न हि गोवासनातो हस्तिज्ञानमुदेति ।
अनन्तत्वे ऽपि खल्वासामारम्भे नियमः कुतः ।
असमञ्जसकारित्वे व्यवहारस्य विप्लवः ॥
धूमज्ञानसमुत्पादे धूमवासनया कृते ।
कं तदा न जलज्ञानं जनयेज्जलवासना ॥
वासनाश्च स्वसदृशवासनासन्तानारम्भहेतव एव भवेयुः न पुनरनुभवज्ञा-
नमाधातुमुद्यच्छेयुः , सदृशात्सदृशोत्पत्तिरिति हि भवतां दर्शनम् ।
अपि च न निराधारा वासना आसते न च भवत्पक्षे तदाधारः कश्चन स-
म्भवति भङ्गुरत्वेन ज्ञानस्य तदाश्रयत्वानुपपत्तेः , एकज्ञानाश्रितत्वे सर्वासां
( १ ) कौलेयकेन—शुना ।
१५