न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 534, कुल 654 में से
संदर्भ में पढ़ेंन्तरे कालान्तरे वा चिरदृष्टानां . विशेषाणामिदानीमग्रहणं संशयकारणं न वि-
शेषाग्रहणमात्रम् , एवममुना पदत्रयेण संशयलक्षणमिदमुक्तम् ॥
ननु च 'संभूय कारकैः कार्यमारभ्यते' इति न्यायात्समानधर्मोपलब्धिवि-
शेषानुपलब्धितत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयौगपद्यमापद्यते, क्रमभा-
वित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद्व्यापारः समस्ति, विशेषाश्च बहवोऽपि
सम्भवन्तीति तत्स्मरणान्यपि युगपद्भूयांसि भवेयुः ।
नैतदेवम् , समानधर्मग्रहणानन्तरं पूर्वोपजातविविधविशेषानुभवपरम्परोप-
चितपीवरसंस्कारजमेव तद्विषयं स्मरणं भविष्यति यथा वर्णानामर्थप्रतीतौ व-
र्णितम् , उपलब्ध्व्यनुपलब्ध्यव्यवस्थापदसूचिता च विशेषानुपलब्धिरेव न सा
ज्ञानात्मिका किन्तु ज्ञानाऽनुत्पाद इति तत्तृतीयं कारणमपि भवन्न ज्ञानात्मकम् ,
ज्ञानात्मके कारणे समानधर्मग्रहणं विशेषस्मरणं च, तयोः प्रथमं समानधर्मग्र-
हणं विनश्यदवस्थं द्वितीयमविनश्यदवस्थं संशयमुपजनयतः, ईदृशोश्च ज्ञानयो-
र्यौगपद्यमविरुद्धमिति शास्त्रे स्थितम् , एवं समानधर्मग्रहणाद्विशेषाग्रहणाद्विशेष-
स्मृतेश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यते इति ।
सूत्रस्य व्याख्यान्तरम् ।
तदेतदाचार्या व्याख्यानमरोचयन्तः परेऽपरथा व्याचक्षते-सामान्यलक्षणं
तावद्द्विमर्शपदेनैव प्रतिपाद्यते, न हिपर्यायोच्चारणमात्रमिदं विमर्शः संशय इति
किन्तु संशय इति लक्ष्यपदं विमर्श इति लक्षणप्रवणपदम् , प्रमाणपदवच्च निर्व-
चनसंव्यपेक्षमेतत्पदं लक्षणप्रतिपादनक्षमं भवति, विरुद्धार्थावमर्शो विमर्शः
स्थाणुर्वा पुरुषो वेति, इयता च सजातीयसंशयपञ्चकानुगतं विजातीयेभ्यः प्रमा-
णादिभ्यो व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति, संशयोत्पादककारणपरि-
गणनं पुनरिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते कारणान्तराणाम-
प्यात्ममनःसन्निकर्षादीनामपरिहार्यत्वात्-(इति?)। अत्राप्यसाधारणकारणनिर्देश
श्चिकीर्षितस्तेनापि कोऽर्थः? सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात्तस्य च वि-
मर्शपदादेव सिद्धत्वात् , उपलब्ध्व्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहण
वर्णनं चातीव क्लिष्टमिति पुनश्च विशेषलक्षणप्रसङ्गे यथाश्रुतमेव तद् व्याख्ये-
यमित्यतिभारः , एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्यलक्षणे
वर्णिते समानधर्मोपपत्तेरित्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि
विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपयुज्यते इति , अत्र व्या-
ख्यानद्वयेऽपि कतरत्साध्विति तद्विदः प्रमाणम् ।
अनेकधर्मोपपत्तेरित्यत्रापि त्रिपदपरिग्रहेणैव लक्षणमाचार्या वर्णयन्ति
अनेकधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इत्यासाधारणधर्म-
ग्रहणाद्विशेषाग्रहणाद्विशेषस्मृतेश्च संशय इत्यर्थः , एकैकपदोपादानफलं च