न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
३६८ न्यायमञ्जर्याम्
अन्विताभिधानवादोपसंहारः —
तस्मादन्विताभिधायीनि पदानीति स्थितम् , एष एव हि संसर्गपन्थाः ।
व्यतिषक्तार्थबुद्ध्या हि व्यतिषङ्गो ऽवगम्यते ।
अपरं तु न संसर्गप्रतीतेरस्ति कारणम् ॥
न खल्वानय गां शुक्लां संसर्ग इति कथ्यते ।
व्यवहारे क्व चिद्वृद्धैः पदं संसर्गवाचकम् ॥
प्रयुज्यमानमप्येतद्बालिशेन हि केन चित् ।
अनन्वितार्थमेव स्याद्दशदाडिमवाक्यवत् ॥
तस्मादन्वितानामेवाभिधानं युक्तम् ,
आह—
अङ्गुल्यग्रादिवाक्येषु कथं तव समन्वयः ।
उच्यते,
उक्तानामपि संसर्गे कथं तव समन्वयः ॥
आह,
नन्वत्र योग्यताभावादसंसर्ग उपेयते ।
आकाङ्क्षादित्रयाधीनः संसर्गो हि मयेष्यते ॥
उच्यते—
मयापि योग्यासन्नादिसंसृष्टस्वार्थवाचिता ।
पदानां दर्शिता सा च तेषु नास्तीत्यनन्वयः ॥
आह अन्विताभिधानवादी हि भवान् ततश्च—
भवतो ऽनभिधानं स्यादन्वयासंभवादिह ॥
अहं त्वभिहितान्वयवादी तेन
मम ह्यनन्वितत्वे ऽपि नाभिधानं विरुद्ध्यते ।
उच्यते—
कथं मीमांसकेनापि भवता सूक्ष्मदर्शिना ।
नाद्यापि शब्दव्यापारः सुस्पष्टमवधारितः ॥
प्रकाशकत्वं शब्दस्य व्यापारो हि निसर्गतः ।
पुंसस्तु गुणदोषाभ्यां तस्मिन्सदसदर्दर्थता ॥
क्रियाकारकसंसर्गबुद्धिरन्या ऽपि शब्दजा ।
तादृश्येवायथार्था तु नरबुद्धिप्रमादतः ॥
तदुक्तम्—"प्रमाणान्तरदर्शनमत्र बाध्यते" इति ।
अत एव प्रमाणत्वं शब्दे निष्प्रतिमं स्वतः ।
शब्दे कर्मणि तन्नापि बाधकानुपसर्पणात् ॥
तत्राङ्गुष्ठश्रमवाक्ये ऽपि शाब्दो ऽस्त्येव समन्वयः ।
आधाराधेयक्रियानिर्देशस्यात्र प्रतीयमानत्वात् ।
वस्तुतो ऽसम्भवो यस्तु तुल्य एव स आवयोः ।
अयोग्यत्वेन संसर्गप्रतीत्यर्थनिबर्हणात् ॥
यदि तु शाब्दो ऽन्वयो भवेत् कचटतपादिवर्णनिर्देशमात्रमिदं स्यात् दशदा-
डिमादिप्रवादवदत्रापि अन्विताभिधानं न विरुद्धं बाधकस्त्वन्यविषय एव न शब्द-
संसर्गविषय इत्युक्तम् , अत एव स्वसामर्थ्यसिद्धिनिर्निबन्धकव्यापारे शब्दे स्व-
तो वेदे प्रामाण्यमनाकुलं निर्वक्ष्यत्यपौरुषेयतया विप्लवासम्भवात् खव्यापारस्य
तत एव शुद्धत्वमित्यलमप्रसङ्गेन ।
इत्यन्विताभिधानेन वाक्यार्थज्ञानसम्भवात् ।
व्युत्पत्तिरहितः प्राज्ञैः प्रहेयो ऽभिहितान्वयः ॥
अन्विताभिधानखण्डनम्—
तदेतदपि नानुमन्यन्ते, यदुक्तं वृद्धव्यवहाराद्व्युत्पत्तिरिति तत्सत्यम् वाक्येन
व्यवहार इत्येतदपि सत्यम् , शिबिकोद्यच्छन्नरवत्सर्वाणि पदानि कार्ये संहत्य
व्याप्रियन्ते इत्येतदपि सत्यमेव, व्युत्पत्तिः चिन्त्यताम् किमेकघनाकारसंघातका-
र्यनिष्ठैव किं वा पदार्थपर्यन्तेति, पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपरिहा-
र्या सा च बहुप्रमादेत्युक्तम्, पदार्थपर्यन्तायां व्युत्पत्तौ नूनं निर्धारणीयमिया-
न्पदस्यार्थ इति, भवद्भिरपि शकटावयवदृष्टान्तवर्णनेन पदव्यापारनिर्धारणमङ्गी-
कृतमेव, इतरथा हि पदार्थनियमानपेक्षत्वे गामानयेति विवक्षावानश्वपदमपि
निमित्ततयोपाददीत, न हि भवतामनपेक्षितपदार्थ एव वैयाकरणानामिव वा-
क्यार्थप्रत्ययः, तदसौ यावान् आवापोद्वापपर्यालोचनया गोपदस्यार्थो निर्धा-
र्यते तावानेव सङ्घातकार्ये ऽपि व्याप्रियमाणस्य तस्यार्थः,
नन्वाकाङ्क्षितयोग्यसन्निहितार्थोपरक्तो ऽस्यार्थ इत्युक्तम् , न सर्वदा संहत-
व्याप्रियमाणमेतत्पदं पश्यतः तवायं भ्रमः, अर्थः तावानस्य यावत्यभि-
धात्री शक्तिः, कियति च तस्याभिधात्री शक्तिः कियति तस्यानभिधात्री शक्तिः,
यावन्तमर्थमन्योन्यमाकाङ्क्षितैश्च योग्यैश्च सन्निहितैश्च संयुज्यमानं न मुञ्चति,
कियन्तं च न मुञ्चति गोत्वमात्रं तद्वन्मात्रं वेत्यतस्तावत्येवाभिधात्री शक्तिर-
न्वयव्यतिरेकाभ्यामस्य निर्धार्यते, अतः परमेकस्य पदस्याप्रयोगात्सर्वदा सङ्घा-
तकार्यरहितकेवलस्वकार्याचतुरत्वानवधारणात्प्रधानकार्ये तात्पर्यशक्तिरस्य व्या-
प्रियते नाभिधात्री, तां च पृथग्विवेचयता भवता ऽन्विताभिधानम-
भ्युपगतं तच्च न युक्तं सर्वत्राभिधात्र्याः शक्तेरविशेषात् , पदार्थनियमान-
वधारणं पदान्तरोच्चारणवैफल्यमित्यादिदोषानपायात् , येनान्वितमर्थमभिदधा-
४७ न्या०
[Page ३७०]
न्यायमञ्जर्याम्
ति गोशब्दः तदनभिधाने तदन्वितानवगमाद्येन सह संसर्गः स न गृह्यते तत्संसृ-
ष्टश्च गृह्यते इति विप्रतिषिद्धं स्यात् , तदभिधाने वा तद्वत्सर्वाभिधानमित्येकमेव
गोपदं सर्वार्थं भवेत् , तस्मान्न सर्वत्राभिधात्री शक्तिः पदस्योपपद्यते इति
नान्विताभिधानम् ।
अन्विताभिधानपक्षे च कथमङ्गुल्यग्रवाक्ये ऽपि नान्त्रयस्यात् शब्दो ऽस्त्येव
समन्वय इति चेदर्थासंस्पर्शी शब्दः प्राप्नोति बहिरन्वयाभावात् , प्रकाशकत्वमात्रं
व्यापार इति चेद् बाढम् तत्तु अनन्वितविषयं वेदितुं युक्तं न पुनरन्वितविषयमेवे-
ति शक्यते नियन्तुम्, दशदाडिमादिवाक्यमनन्वितार्थप्रतिपादकमपि दृश्यते यतः,
न तद्वाक्यमिति चेत् तदङ्गुल्यग्रवाक्यमपि वाक्यमेव, आधाराधेयक्रियासंसर्गप्र-
तीतिस्तु भ्रममात्रं तस्मादनन्वितमर्थमभिदधति पदानीत्यसमीचीनम् ,
तत्किं शलाकाकल्पाः परस्परमसंसृष्टा एव पदार्थाः पदैरुच्यन्ताम् एतदपि
नास्ति तथाविधव्यवहाराभावात् , पश्चादन्वयस्य च दुरवगमत्वाद्धिरम्य व्या-
पारस्य चासंवेदनात्तस्मात्पक्षद्वयमपि न क्षेमाय, तदुक्तम्—
मतद्वयमपीदं तु नास्मभ्यं रोचतेतराम् ।
कुतो ऽन्विताभिधानं वा कुतो वा ऽभिहितान्वयः ॥
मतान्तरं तत्खण्डनं च--
अन्या तु वाचोयुक्तिः कैश्चित्कृता अन्वीयमानाभिधानमभिधीयमानान्वय-
श्चेति सा ऽपि न हृदयङ्गमा—
न हि द्वे अनुभूयेते क्रिये एते पृथक्स्थिते ।
अभिधानक्रिया चान्या वाच्यस्था चान्वयक्रिया ॥
ते हि क्रमेण वा स्यातां युगपद्वा क्रमपक्षे पूर्वमन्वयक्रिया चेत्तदिदमान्वि-
ताभिधानमेव नान्वीयमानाभिधानम् , पूर्वं चेदभिधानमभिहितान्वय एव ना-
भिधीयमानान्वयः युगपत्तु क्रियाद्वयसंवेदनं नास्ति अर्थगतायाः क्रियायाः
शब्दप्रयोगकाले ऽनुपलम्भात् ।
अभिधानक्रियैवैका तदभिज्ञैः परीक्ष्यते ।
अन्वीयमानता ऽर्थानामभिधानाद्विना कुतः ॥
गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण कुतो
ऽन्वयमवगच्छामः ।
उक्तेर्नूतनतैवेयं न पुनर्वस्तु नूतनम् ।
न चात्रापि निवर्तन्ते दोषाः पक्षद्वयस्पृशः ॥
तात्पर्याच्छक्त्या ऽन्वितप्रतीतिः--
अन्ये मन्यन्ते सामान्येनान्विताभिधानं विशेषतश्चाभिहितान्वय इति,
गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रियासामान्यान्वितमभिधत्ते तावत्यन्वि-
ताभिधानम्, शुक्लादिगुणविशेषसम्बन्धस्तु पदान्तरादवगम्यते सो ऽयं विशेषो
ऽभिहितान्वय इत्येतदपि तादृगेव ।
दोषो ऽन्विताभिधाने यः सामान्ये ऽपि स तादृशः ।
दोषस्तुल्यो विशेषे ऽपि यश्चोक्तो ऽभिहितान्वये ॥
न चेदमपूर्ववस्तु वर्णितमभिहितान्वयवादिनो विशेषे एवाभिहितान्वय
आश्रीयते इति प्राक्तन एवेष्टः पन्था वेदितव्यः, कथं तर्ह्ययमभिधानिको व्य-
वहारः सङ्कुलमिवैनं पश्यामः सर्वत्र दोषसम्भवात् ।
उच्यते न कदा चिदत्र सङ्कुलता संहत्यकारिणि हि पदानीत्युक्तम्, समु-
दितैः पदैरेको वाक्यार्थः प्रत्याय्यते स च गुणभूतेतरपदार्थसंसृष्टः कश्चित्पदार्थ
एवेति किमत्र सङ्कुलम् ।
ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः, मैवम्, नेदमन्विता-
भिधानम्, कथं तर्हि संहत्यकारिता पदानाम्, उच्यते संहत्यकारिता ऽप्यस्ति
न चान्विताभिधानम्, अन्वितमर्थं पदानि संहत्य सम्पादयन्ति न त्वन्वितम-
भिदधति, किमिदानीं कुर्वन्ति वाक्यार्थं पदानि घटमिव मृदादीनि, एतदपि
नास्ति, ज्ञापकत्वात्तेषाम्, का तर्हीयं वाचोयुक्तिः संहत्यकारिणि पदानि न
चान्वितमभिदधतीति, इयं वाचो युक्तिः पदान्यन्वितं प्रत्याययन्ति नान्वितम-
भिदधति, नाभिधात्री शक्तिरन्वितविषया किं त्वन्वयव्यतिरेकावगतनिष्कृष्टस्वा-
र्थविषयैव, तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सह व्यापाराद्व्यापा-
रम्य च तदीयस्य निराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात् तथा हि—
अन्यथैव प्रवर्त्तन्ते प्रत्यक्षाद्युद्भवा धियः ।
अर्थं पूर्णमपूर्णं वा दर्शयन्त्यः पुरः स्थितम् ॥
अन्यथैव मतिः शब्दे विषयेषु विजृम्भते ।
प्रतिपत्तुर्निराकाङ्क्षप्रत्ययोत्पादनावधिः ॥
अत एव पदं लोके केवलं न प्रयुज्यते ।
न हि तेन निराकाङ्क्षा श्रोतुराधीयते मतिः ॥
नन्वभिधानव्यतिरिक्तः को ऽन्यः शब्दस्य कृत्स्नफलपर्यन्तः प्रत्यायनात्मा
व्यापारः, अस्ति कश्चिद्यः सर्वैरेव संसर्गावादिभिरप्रत्याख्येयः, न हि संसर्गो
ऽभिधीयते प्रतीयते च वाक्यात् ।
ननु संसृष्टाभिधाने सति संसर्गः प्रतीयते नान्यथा, नैतदेवं संहत्यकारि-
त्वादेव संसर्गावगतिसिद्धेः, न हि संहत्यकरणमसंसृष्टं च कार्यं क्व चिद्
दृश्यते, अपि च, प्रकृतिप्रत्ययौ परस्परापेक्षमर्थमभिदधाते न च प्रकृत्या प्रत्य-
यार्थो ऽभिधीयते नियोगस्य धातुवाच्यत्वान्न च प्रत्ययेन प्रकृत्यर्थो ऽभिधीयते
३७२ न्यायमञ्जर्याम्
यागादेः लिङ्वाच्यत्वानुपपत्तेः न च तौ पृथक्पृथक् स्वकार्यं कुरुतः ।
एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति न च परस्परम-
र्थमभिधास्यन्ति वाक्यान्यपि प्रकरणपतितान्येवमेव, तदुक्तम्—
प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम् ।
पदं पदान्तरं तद्वद्वाक्यं वाक्यान्तरं तथेति ॥
अयमेव च पक्षः श्रेयान् यत्संहत्यकारित्वं पदानामसंकीर्णार्थत्वं च—
निरपेक्षप्रयोगे ऽयः शलाकाकल्पना भवेत् ।
तदन्विताभिधाने तु पदान्तरमनर्थकम् ॥
संहत्यकारिपक्षे तु दोषो नैको ऽपि युज्यते ।
तेनायमुपगन्तव्यो मार्गो हि हतकण्टकः ॥
अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठता ।
तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः ॥
तेनान्विता
आह लोके प्रमाणान्तरपरिच्छेद्यत्वाद्वाक्यार्थस्य तदवगमोपायतवं शब्दानां
योजयितुं शक्यते, वेदार्थस्तु अतीन्द्रियो न च रागादिदोषकलुषमनसामस्मदा-
दीनामतीन्द्रियपदार्थदर्शनकौशलमस्ति, तद्दर्शिनां च तत्र वृद्धव्यवहाराद्व्यु-
त्पत्तिरेव न सम्भवति, सो ऽहमद्य वेदार्थं बुभुत्समानो वेदविदं कञ्चिदाचा-
र्यमभिगच्छेयं सो ऽप्यतीन्द्रियार्थदर्शी न भवतीति तस्यापि तथैव व्युत्पत्त्य-
भाव इति तेनाप्यन्यः कश्चिदभिगन्तव्यः, सो ऽप्यहमिव व्युत्पत्त्यभावादन्य-
मुपासीत सो ऽप्यन्यमित्यन्धपरम्परा प्राप्नोति, न च वेदे एव वृद्धिरादैजिति
पाणिनिरिव मस्त्रिगुरुरीति ब्रुवन् पिङ्गल इव हस्तः करः पाणिरिति कथयन्न-
भिधानमालाकार इव स्वयमुपदिशत्येषो ऽस्य मामकस्य शब्दस्यार्थ इति त-
स्मात्सर्वथा दुरवगमो वेदार्थः, तदाह—
स्वयं रागादिमान्नार्थं वेत्ति चेत्तस्य नान्यतः ।
न वेदयति वेदो ऽपि वेदार्थस्य कुतो गतिरिति ॥
अथ निगमनिरुक्तव्याकरणवशेन तदर्थकल्पना क्रियते तर्हि नानामति-
त्वादुपदेश्यानामनेकार्थत्वाच्च नाम्नामुपसर्गनिपातानां च न नियतः कश्चिदर्थो
व्यवस्थापयितुं शक्यते, अन्यथा तत्कल्पनासम्भवात्, आह च—
तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ ।
खादेच्छ्वमांसमित्येष नार्थ इत्यत्र का प्रमेति ॥
तदेतद् बधिरस्य रामायणं वर्णितमस्माभिः य एवमपि श्रुत्वा वेदार्थपरि-
गमाभ्युपायं मृगयते, अनेन हि पूर्वोक्तेन वाक्यार्थपरिगमोपायप्रकटनेन सर्वम-
पाकृतं भवति, उक्तं हि नाभिनवाः के चन वैदिकाः शब्दा रचनामात्रं वेदे
भिद्यते न तु पदानि, सर्गात्प्रभृति च प्रवृत्तो ऽयं वेदविदां व्यवहारः ततश्च दी-
र्घप्रबन्धप्रवृत्ताद्यत्वे वयसि व्युत्पद्यामहे व्युत्पद्यमानाश्च तं तमर्थं प्रतिपद्यामहे,
किं च वेदार्थस्य परिज्ञानौपयिकानि व्याकरणमीमांसाशास्त्राणि क्व गतानि
यदेषु जीवत्सु न वेदार्थो ऽवधार्यते, अपि च रे मूढ स्वयं रागादिमतः प्रत्यक्षम-
तीन्द्रिये ऽर्थे मा प्रवर्त्तिष्ट न तु रागादिमानग्निहोत्रं जुहुयात्स्वर्गकाम इति
वाक्यादपि अग्निहोत्राख्यं कर्म स्वर्गसाधनमिति नावगच्छेत्, अतीन्द्रिये ऽर्थे
नियता कुतो व्युत्पत्तिरिति चेद् उक्तमत्र वेदवत्तद्वृव्यवहारस्य तदर्थपरिगमो-
पायस्य सुचिरप्ररूढत्वात्, वेदश्चार्थश्च तदवगमश्च तदुपायश्च तदनुष्ठानं
च नाद्यत्वे प्रवृत्तानि किं तु केषां चिन्मते अनादीन्येवास्मन्मते तु जगत्सर्गात्प्र-
भृति प्रवृत्तानि कस्तेष्वद्य पर्यनुयोगावसरः, सेयमनेन पापकारिणा खादेच्छ्व-
मांसमित्याद्यपभाषणेन केवलमवीचिकेसरकुटुम्बिनमात्मानं कर्तुं वेदनिन्दैव
मन्दमतिना कृता न दूषणमभिनवं किं चिदुत्प्रेक्षितमिति,
अथापर आह किमेष तपस्वी पराणुद्यते किमनेनापराद्धं किमनेन विरुद्धम-
भिहितं, न हि लोकतो वेदार्थे व्युत्पत्तिरवकल्पते, कोऽयं लोको नाम किं यः
कश्चित्प्राकृत उत वैयाकरणः संस्कृतमतिरिति, तत्र शाकटिकाः साधुशब्दप्रयो-
गानभिज्ञमनसो निसर्गत एवात्तकण्ठा वराकाः संस्कारबाह्यैर्गोण्यादिभिरेव
शब्दैर्व्यवहरन्ति तैश्च व्यवहरन्तः कथमिव वैदिकेषु शब्देषु व्युत्पत्तिमाप्नुयुः,
यद्यपि चास्ति एषि एमि इति कश्मीरेषु गच्छेति दार्वाभिसारेषु करोमीति
मद्रेषु कतिपये साधुशब्दाः पामरैरपि प्रयुज्यन्ते तथा ऽप्यतीव प्रविरलसञ्चारो
ऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्दव्युत्पत्तेः ।
अथ व्याकरणस्य वेदाङ्गत्वात्तः साध्वसाधुशब्दविभागमवगच्छन्तः
साधुभिर्भावितव्यमसाधुभिर्नेति विधिनिषेधनियमितमतयः साधुभिरेव शब्दै-
र्व्यवहरन्तो विद्वांसस्तन्नीयसैव क्लेश
ध्यते तत्रापि स्वातन्त्र्येण वेदस्येव व्याकरणस्य शास्त्रत्वाद्युपपत्तेरङ्गसिद्धेश्च
वैदिकविषयेप्सितार्थसम्पर्कित्वं नूतनमस्येषितव्यम्, साधुभिर्भाषितव्यमसाधुभि-
र्नैत्यनयोरेव विधिनिषेधयोरिति चेद्—
नन्वेतावेव विधिनिषेधौ तावद्विचारयामः किं प्रकरणे पठितौ किमनार-
भ्याधीतौ क्लृप्ताधिकारौ कल्प्याधिकारौ वेति ।
साध्वसाधुशब्दविभागानुपपत्तिः--
आस्तां चेदं वितता खल्वियं चिन्ता, साध्वसाधुशब्दस्याप्रसिद्धत्वात्किवि-
षयाविमौ विधिनिषेधौ स्यातामितीदमेव चिन्त्यताम्, व्रीहिभिर्यजेत न कलञ्जं
भक्षयेदिति व्रीहिकलञ्जस्य स्वरूपस्य लोकतो ऽवगतौ तद्विषयविधिनिषेधबोधो
न दुर्घटः इह तु व्रीहय इव कलञ्जमिव न साध्वसाधुशब्दाः प्रविवेकेन लोकतो
ऽवगम्यन्ते, कृतश्रमश्रवणयुगलकरणिकासु प्रमितिषु शब्दस्वरूपमेव केवलं विष-
यतामुपयाति न जातु तद्गतं साधुत्वमसाधुत्वं वा, न हि शब्दत्वादिवज्जातिव-
दुदात्तादिधर्मवच्च साध्वसाधुतायां कस्य चिदपि श्रोत्रः प्रत्ययः प्रसरति, प्रत्य-
क्षप्रतिषेधे च सति तत्पूर्वकसम्बन्धग्रहणसम्भवादनुमानमपि निरवकाशमेव,
शब्दस्तु द्विविधः पुरुषप्रणीतो वैदिको वा, तत्र पुरुषप्रणीतः प्रत्यक्षानुमान-
विषयीकृतार्थप्रतिपादनप्रवण एव भवतीति तदपाकरणादेव पराकृतः, वैदिकस्तु
सम्प्रति चिन्त्यो वर्तते स हि सिद्धे साधुत्वे तद्विधौ सिद्धे चासाधुत्वे तन्निषेधे
व्याप्रीयते न पुनस्तत एव तत्सिद्धेर्युज्यते तथा ऽभ्युपगमे वा दुरुत्तरमितरेतरा-
श्रयमवतरति विधिनिषेधसिद्धौ साध्वसाधुशब्दसिद्धिः साध्वसाधुशब्दसिद्धौ च
विधिनिषेधसिद्धिरिति,
किं चेदं साधुत्वं नाम यदि वाचकत्वं गाव्यादयो ऽपि सुतरां वाचका इति
ते ऽपि कथं न साधवः, अर्थावगतिसाधनाद्धि साध
इति ते ऽपि साधवः स्युः, असाधुत्वमप्यवाचकत्वमुच्यते तच्च वायसवाशिता-
दिषु व्यवस्थितं न वर्णात्मकेषु व्यक्तवागुच्चार्यमाणेषु शब्देष्विति न ते ऽसाधवः,
अथ ब्रूयान्नार्थप्रतीतिसाधनत्वमात्रं साधुत्वं धूमादिभिरतिप्रसङ्गेरपि तु
विशिष्टक्रियाकारणत्वं वाचकत्वं तच्च गवादिष्वेवास्ति न गाव्यादिष्विति न ते
साधव इति ।
एतदपि असमीक्षिताभिधानम्, अभिधानक्रियाकारणत्वं हि वाचकत्वमिति
पूर्वमेव सुनिपुणमुपपादितम् एतच्च गवादिषु गाव्यादिषु समानमिति सर्वएव
साधवः ।
अथ लक्षणानुगतत्वं तद्वाह्यत्वं च साधुत्वमसाधुत्वं च वर्ण्यते तदयुक्तं
पारिभाषिकत्वप्रसङ्गात्, न चान्यत्किमपि साध्वसाधुलक्षणमतिसूक्ष्मया ऽपि
दृष्ट्या शक्यमुत्प्रेक्षितुमतो वाचकावाचकावेव साध्वसाधू इति स्थितम्, तेन
तयोः प्रवर्तमानौ विधिनिषेधाविमौ व्यर्थौ भवेताम्, कथम्—
साधुभिर्भाषणं तावत्प्राप्तत्वान्न विधीयते ।
अवाचकनिषेधश्चाप्राप्तेरेव न कल्पते(१) ॥
न हि सलिलं पिबेदनलं न पिबेदिति विधिनिषेधौ संभवतः, सलिलपानस्य
स्वतः प्राप्तत्वादप्राप्ते च शास्त्रस्यार्थवत्त्वात्, ज्वलनपानस्य च कस्यां चिदवस्था-
यामप्राप्तेः प्रतिषेधानर्थक्यात्, प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति न हि ग्रीष्मे
ज्वालायोगपनीततृड्विकारः करभो ऽपि यतेत इति, तत्रैतस्याद् गवादेर्गा-
व्यादेश्च वाचकत्वाविशेषे साध्वसाधुशब्दोच्चारणकरणकपुण्यपातकप्राप्तिपरिहा-
रप्रयोजननियमविधानाय शास्त्रसाफल्यं भविष्यति, तदुक्तम् "वाचकत्वाविशेषे
ऽपि नियमः पुण्यपापयोः” इति ।
एतदपि दुर्घटम्, प्रविधेयांश्च निषेध्यांश्च शब्दानुपदर्श्य नियमो विधातव्यः
एभिर्भाषितव्यमेभिर्नेति तत्र यद्युच्यते ते शब्दाः प्रतिव्यक्ति नामग्रहणपरिगण-
नपुरःसरमुपदर्श्येरंस्तदयमर्थः कल्पशतजीविनो भगवतः परमेष्ठिनो ऽपि न
विषयः प्रविततवदनसहस्रसंकुलमूर्तेरनन्तस्यापि न गोचरो वाचस्पतेर्न भूमिः
सरस्वत्या अतिभारः तेषामानन्त्येन दर्शयितुमशक्यत्वात्,
अथ किं चिदुपलक्षणमवलम्ब्य तेषां वर्गीकरणमुपेयते हन्त तर्हि दृश्यतां
न च तत्सम्भवति,
( १ ) तन्त्रवार्तिके अ० १ पा० ३ सू० २४ । पूनामुद्रिते तन्त्रवार्तिके “वा-
चकैर्र्भाषितव्यं हि प्राप्तत्वान्न विधीयत” इत्येवंविधः स च युक्तः स्पष्टार्थोऽयं श्लोकः ।
type curve, or is it नाद्य? In यदीति यदि, य has a round top left. In नाद्य, the letter after ना is: wait, it looks like नाद्य! Wait, look at नाद्य इत्याह: yes, "तत्र नाद्य इत्याह" (na ādya ityāha - the first option is not acceptable).
Wait, let's look at नाय: actually it might be नाद्य. Let's look very carefully: the character is द्य (composed of द with य subjoined, or modern द्य). In line 30, it is नाद्य or नाय? It's नाद्य with broken type, or नाद्य.
Wait, what about line 31:
ह्येकार्थाः साध्वसाधवो विकल्पेन प्राप्नुयुस्तदा साधुनियमावकाशः स्यान्न चैवं न द्वितीयः
Line 32:
इत्याह नियतमिति । तथा च भाषणाभाव एव स्यादित्यर्थः ।
Bottom line:
४८ न्या०
- Check Verse in L1-2 again:
अविभक्ता हि शब्दस्त्वजातिः शब्दापशब्दयोः ।
Wait, in L1, is itशब्दत्वजातिःorशब्दस्त्वजातिः?
Look at the character
३७८ न्यायमञ्जर्याम्
यदपि पुण्यपापफलत्वं शब्दापशब्दप्रयोगयोरिति गीयते तदपि न पेशलं परि-
दृश्यमानमविवादसिद्धार्थप्रत्ययजननमपहाय परोक्षस्यादृष्टस्य पुण्यपापात्मनः क-
ल्पनाऽनुपपत्तेः, यश्चायं स्वर्गे लोके कामधुग्भवतीति साधुशब्दस्तुत्यर्थवादो यश्च
स वाग्वज्रो यजमानं हिनस्तीत्यपशब्दे निन्दार्थवादः तत्र परार्थत्वस्य विस्पष्ट-
दृष्टत्वादर्थवादमात्रपर्यवसितौ च “द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थ-
वादः स्यात्” इति (१) न्यायान्न फलार्थतेति, तदेवं साधुभिर्भाषितव्यमसाधुभिर्नेति
विधिनिषेधयोरनारभ्याधीतयोः श्रूयमाणयोरपि दौःस्थ्यात्तन्मूलतया लब्धप्र-
माणभावा व्याकरणस्मृतिरङ्गतामेष्यति वेदस्येति दुराशैव, प्रकरणविशेषपाठे तु
तयोस्तदुपयोगादेव न सार्वत्रिकी नियमार्थतेति सर्वथा न व्याकरणे तन्मूलत्वम्,
व्याकरणस्य निष्प्रयोजनत्वम्—
आह तर्हि निष्कारणः षडङ्गो वेदो ऽध्येयो ज्ञेयश्चेति विधेः शिक्षाकल्प-
सूत्रनिरुक्तच्छन्दोज्योतिः शास्त्रवद्व्याकरणमपि वेदाङ्गत्वादध्येतव्यमित्यवगम्यते,
नैतदप्यस्ति शिक्षादीनामनितरेतरसाध्यासंकीर्णविविधविषयेपेक्षितवेदोपकारनि-
र्वर्तकत्वेन तदङ्गता सुसङ्गता, व्याकरणस्य तु सुदूरमपि धावनप्लवने विदधतः
साधुशब्दप्रयोगनियमद्वारकमेव तदङ्गत्वं सम्भाव्यते न मार्गान्तरेण स च नियमो
दुरुपपाद इति दर्शितम् , अतो नाङ्गान्तराणि स्पर्धितुमर्हति व्याकरणम्, निष्का-
रणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजनशैथिल्यं सूचयति न
तथा प्रयोजनवत्ताम्, श्रुतिलिङ्गाद्यङ्गत्वप्रमाणापेक्षया षडङ्गता वर्णयिष्यते, एतेन
“तस्माद् ब्राह्मणेन न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द” इति “एकः
शब्दः सम्यक्प्रयुक्तः स्वर्गे लोके कामधुग्भवति” इति “आहिताग्निरपशब्दं प्रयुज्य
प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्” इति “तस्मादशेषा व्याकृता वागुच्यते”
इत्यादिवचनान्तरमूलता ऽपि व्याकरणस्मृतेः प्रत्युक्ता, शिष्टप्रयोगमूला तर्हि व्या-
करणस्मृतिरस्तु वैद्यकस्मृतिरिवान्वयव्यतिरेकमूलेति चेत् के शिष्टा इति पृष्टो वक्तु
मर्हसि, किमभिमतगवादिसाधुशब्दव्यवहारिणो गाव्याद्यपशब्दवादिनो द्वये वा,
आद्ये पक्षे दुरुत्तरमितरेतराश्रयत्वम् , शिष्टप्रयोगमूलं व्याकरणं व्याकरणवि-
दश्च शिष्टा इति, न ह्यशिक्षितव्याकरणास्तत्संस्कृतगवादिशब्दप्रयोगकुशला भव-
न्ति, मध्यमपक्षे गाव्यादिव्यवहारिणः शाकटिकाः शिष्टाः तत्प्रयोगमूलं गवादि-
शब्दसंस्कारकारि व्याकरणमिति व्याहतमिव लक्ष्यते, तृतीये तु पक्षे गोगाव्या-
दिशब्दप्रयोगसांकर्यात्किंफलं व्याकरणं भवेत्, वैद्यकस्मृतेस्तु युक्तमन्वयव्यतिरेक-
मूलत्वं तथा दर्शनादिति, तदनया ऽपि दिशा न प्रयोजनवत्तामुपयाति व्याकर-
णम् , अतश्च निष्प्रयोजनं व्याकरणं तत्सूत्रकृता स्वयं प्रयोजनस्यानुक्तत्वात् ,
( १ ) जैमिनिसूत्रम् अ० ४ पा० ३ सू० १ ।
प्रमाणप्रकरणम् ३७९
न ह्यथातो धर्मजिज्ञासा प्रमाणादिज्ञानात्साधर्म्यादिज्ञानाद्वा निःश्रेयसाधिगम इति-
वत्तत्र सूत्रकारः प्रयोजनं प्रत्यपीपदत् , सुज्ञानत्वान्न प्रत्यपादयदिति चेत् किमुच्यते
सुज्ञानत्वं यदद्यापि निपुणमन्वेषमाणा अपि न विद्मः यत्र चाद्यापि सर्वे विवदन्ते,
किं च धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाः तेषामन्यतमः किल
व्याकरणस्य प्रयोजनमाशङ्केत, तत्र न तावद्धर्मस्तस्य प्रयोजनं स हि याग-
दानहोमादिस्वभावः तज्जनितसंस्कारापूर्वरूपो वा वेदादेवावगम्यते चोदनैव धर्मे
प्रमाणमिति तद्विदः, चोदनामूलमन्वादिस्मृतिसदाचरणेतिहासगम्यो वा कामं
भवतु, व्याकरणस्य तु स्वतस्तदुपदेशसामर्थ्यासम्भवादङ्गस्वभावाख्यातत्वाच्च न
तत्प्रयोजनता युक्ता, प्रयोगनियमद्वारकस्तु धर्मस्तस्य प्रयोजनतया निरस्त एव,
अर्थप्रयोजनता वार्तादण्डनीत्योः प्रसिद्धा न व्याकरणस्य अधीतव्याकरणा
अपि दरिद्राः प्रायशो दृश्यन्ते न तस्यार्थः प्रयोजनम् , कामस्तु वात्स्यायनप्रणी-
तकामशास्त्रप्रयोजनतामुपगतो न व्याकरणसाध्यतां स्पृशति, मोक्षे तु द्वारमा-
त्मादिपरिज्ञानमाचक्षते क्लेशप्रहाणं चाध्यात्मविदः षत्वणत्वपरिज्ञानं पुनरपव-
र्गसाधनमिति न साधीयान् वादः, तदेवं धर्मादिचतुर्वर्गादेको ऽपि न व्याकर-
णसाध्य इति स्थितम् ।
अथोच्यते सकलपुरुषार्थसार्थसाधनोपदेशविधेर्वेदस्य व्याकरणमवलग्नक-
मङ्गमस्तत्प्रयाजनेनव प्रयोजनवदिति न पृथक् प्रयोजनान्तरमाकाङ्क्षतीति
तदपि परिहृतम् ,
या हि साधुशब्दोपदेशदिशा तस्य तदङ्गता सा व्युदस्तैव न चाङ्गस्यापि
सतस्तत्सेवाद्वारमपरमस्तीति, निष्प्रयोजनमेव चेदृशं न चानुपकारकमङ्गमपि
भवितुमर्हति न हि तत्प्रधानेनाङ्गीक्रियते नियोगगर्भो हि विनियोग इति
न्यायविदः,
यान्यपि रक्षादीनि प्रयोजनानि व्याकरणस्य व्याख्यातृभिरभिहितानि
तेषामन्यतो ऽपि सिद्धेर्न व्याकरणशरणता युक्ता, रक्षा तावदध्येतृपरम्परात
एव सिद्धा मनागपि स्वरतो वर्णतो वा प्रमाद्यन्तं किं चिदधीयानमन्ये
ऽध्येतारो मा विनीनशः श्रुतिमित्थमुच्चारयेदित्याचक्षाणाः शिक्षयन्तीति
रक्षिता भवति वेदः, ऊहस्तु त्रिविधो मन्त्रसामसंस्कारविषयः तत्र सामवि-
षयो यौक्तिकशास्त्रादवगम्यते याज्ञिकप्रयोगवादाद्वा मन्त्रविषयो ऽप्येवम् , प्रो-
क्षणादिसंस्कारविषये तु तस्मिन् व्याकरणमपि किं कुर्याद्, आगमस्त्वनन्तरमेव
परीक्षितः आगमगम्यं च प्रयोजनं भवति न चागमः प्रयोजनम् , लाघवं
तु किमुच्यते बाल्यात्प्रभृतिषु बहुषु वहत्स्वपि वत्सरेषु यन्नाधिगन्तुं शक्यते
व्याकरणं स चेल्लघूपायः को ऽन्यस्ततो गुरुर्भविष्यति, संदेहो ऽपि न कश्चि-
द्वेदार्थे व्याकरणेन पुराणुद्यते प्रतिवाक्य : उपप्लवमाननानाविधसंदेहसहस्रविध्वंस-
[३८०] न्यायमञ्जर्याम्
नफला मीमांसा दृश्यते न व्याकरणम्, तेन रक्षोहागमलघ्वसंदेहाः प्रयोजन-
मिति यदुच्यते तन्न सुव्याहृतम्,
यान्यपि प्रयोजनान्तराणि भूयांसि ते ऽसुरा हेलयो हेलय इत्युदाहरणदिशा
दर्शितानि तान्यपि तुच्छत्वादानुषङ्गिकत्वाच्चोपेक्षणीयानि, तदुक्तम्—
अर्थवत्त्वं न चेज्जातं मुख्यैरपि प्रयोजनैः ।
तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनीति(१) ॥
व्याकरणस्य शब्दादिसंस्कारकत्वानुपपत्तिः—
अथ कथ्यते किं प्रयोजनान्तरपर्येषणया शब्दसंस्कार एव व्याकरणस्य
प्रयोजनमिति तदपि व्याख्येयं कः शब्दस्य संस्कारः तेन वा को ऽर्थ इति, न
हि व्रीहीणामिव प्रोक्षणमाज्यस्येवावेक्षणमग्नीनामिवाधानं शब्दस्य कश्चन व्या-
करणकारितः संस्कारः संभवति, नैयायिकादिपक्षे च क्षणिका वर्णास्तेषामुच्चा-
रितनष्टानां कः संस्कारः शरादेरिव न वेगो नात्मन इव भावना न शाखादेरिव
स्थितिस्थापक इति, वर्णानां नित्यत्वपक्षे ऽपि क्षणिकाभिव्यक्तित्वमपरिहार्यम-
तस्तेष्वपि कः संस्कारः, संस्कारश्च वर्णस्य वा पदस्य वाक्यस्य वेति विक-
ल्प्यमानो न कस्य चिद्व्यवस्थापयितुं शक्यः, वैयाकरणानां तु निरवयववाक्य-
विदां पदवर्णयोः संस्कारः सुतरा मनालम्बनः, अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्र-
त्ययादिकमन्यान्येव पदानि संस्करिष्यन्ते इति चेन्न, असतां संस्कारस्यानुप-
पत्तेः, आह च—
वाक्येभ्य एव परिकल्पनया विभज्य
संस्कर्तुमिच्छति पदानि महामतिर्यः ।
उच्चित्य सौरभविभूषितदिशि कस्मा-
दाकाशरूढकुसुमानि न संस्करोतीति ॥
न च शब्दसंस्कारकर्तव्यतोपदेशे कश्चदनारभ्याधीतो वा प्रकरणपठितो
वा विधिरुपलभ्यते यमनुरुध्यमानाः शब्दस्योपयुक्तस्य चात्वाले कृष्णविषाणां
प्रास्यतीतिवदुपयोक्ष्यमाणस्य वा व्रीहिन्प्रोक्षतीतिवत्कं च न संस्कारमनुतिष्ठेम,
स्वाध्यायो ऽध्येतव्य इति विधिरामुखीकरणेन माणवकस्य वा ग्रन्थस्य वा
विधिः संस्कारमुपदिशतीति महती चर्चेषा तिष्ठतु, सर्वथा नायं व्याकरणनि-
र्बन्ध्यैः प्रत्ययागमवर्णलोपादेशादिद्वारकशब्दसंस्कारोपदेशशङ्कामपि च नयती-
त्यास्तामेतत्, न च शब्दप्रयोगोपायस्थानकरणादेः कोष्ठ्यस्य मातरिश्वनो वा
श्रोत्रेन्द्रियस्य वा तदुपलब्धिकरणस्य प्रयोक्तुरात्मनो वा मनसो वा बुद्धेर्वा
कश्चिद्व्याकरणेन संस्कारक्लेशः शक्यक्रिय इति तत्कारके ऽपि संस्कारे ऽनुपाय
( १ ) तन्त्रवार्तिके अ० १ पा० ३ सू० १८ ।
प्रमाणप्रकरणम् १८१
एव व्याकरणम्, न च स्थूलपृषतीत्यादिकतिपयशब्दव्युत्पादनमेव व्याकरण-
प्रयोजनतया वक्तव्यं तस्यापि कल्पसूत्राद्युपायान्तरलभ्यत्वात्,
यश्चाह “तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते” तस्य सोपहासमुत्तरं
वार्त्तिककार एव दर्शितवान्(१)“तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्दियादृते इति”
अपि च व्याकरणेन कृते ऽपि शब्दसंस्कारे तदुपदिष्टसंस्कारबहिष्कृतशब्द-
प्रयोगान् विदधतस्तत्र तत्र शिष्टाः पूर्वे ऽपि दृश्यन्ते, सूत्रकारस्तावज्जनिकर्तुःप्रकृतिः
तत्प्रयोजको हेतुश्च तृजकाभ्यां कर्त्तरीति प्रतिषिद्धं षष्ठीसमासं जनिकर्तुरिति
धातुनिर्देशैकविषयं जनिशब्दमर्थनिर्देशे ऽपि प्रयुक्तवान्, वार्त्तिककारो ऽपि दम्भे-
र्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमिति तथैव प्रयुक्तवानान्यभाव्यं तु काल-
शब्दव्यवायादिति च तेन समाससंज्ञया गुणवचन
१८२ न्यायमञ्जर्याम्
नमिति प्रश्नपूर्वकमुक्तं प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेने-
ति च, तथा हि कर्मण्यणिति सामान्यलक्षणं कर्मण्युपपदे धातुमात्रादण्प्रत्य-
यो भवतीति तेनानेन सामान्यविशेषवता लक्षणेन कुम्भकारो नगरकार इत्या-
दयो गोदः कम्बलद इत्यादयश्च भूयांसः शब्दा अक्लेशेनैव व्याकरिष्यन्ते इत्यु-
च्यते प्रकृत्यादिविभागकल्पनयेत्यत्र यद्वक्तव्यं तत्प्रागेव सविस्तरमभिहितं
सामान्यविशेषवता लक्षणेनेति तु संप्रति निरूप्यते, तदपि व्यवस्थितं लक्षणं
न दृश्यते ।
तथा हि धातोः परः प्रत्यया भवन्तीति लक्षणं कुर्वता वक्तव्यं कः पुनरयं
धातुर्नामेति, ननु भूवादयो धातव इत्युक्तमेव तत्स्वरूपं के चन शब्दाः कया
चित्परिपाट्या पठितास्ते धातुसंज्ञया लक्ष्यन्ते तेभ्यः परे तिङः कृतश्च प्रत्य-
या भवन्तीति, सत्यमुक्तमेतत् किं त्वेवं पाठे कृते ऽपि न धातुस्वरूपनिर्णय उप-
वर्णितो भवति, तथा च गण्डतीत्यपि प्राप्नोति धातोस्तिङ्प्रत्ययविधानात् ,
घटचेष्टायामिति धातुरस्ति च घट इति प्रातिपदिकम् अम रोगे इति धातुरनुब-
न्धत्यागादमिति भवति अस्ति च द्वितीयाया विभक्तेरेकवचनमिति, भूशब्दो
धातुः अस्ति भूप्रातिपदिकम् यती प्रयत्न इति लुप्तानुबन्धो यदिति धातुः अस्ति
च यदिति सर्वनामपाठप्रसिद्धरूपमत्राविशेषाद्धातोराप घटभूयच्छब्दरूपात्परे
तिङ्प्रत्यया भवेयुः, क्रियावचनो धातुरिति चेद् भवति तिष्ठतीत्यादीनामसा-
धुत्वं प्राप्नोति गमेश्चानर्थकः पाठः, उभयं तर्हि धातुलक्षणं पाठः क्रियावचन-
ता चेति भवितुमर्हति तदपि हि व्यस्तं वा लक्षणं समस्तं वा व्यस्तपक्षे भव-
त्यादौ क्रियावचनत्वस्य द्वितीयस्य लक्षणस्य चाभावादधातुत्वमेव स्यादिति एवं
धातोः प्रकृतेरनिर्णीतत्वात्कुतः परे तिङश्च कृतश्च प्रत्यया उत्पद्येरन् , समस्त-
पक्षे इत्यादिपतितम्(१) कि च के चन तिङ्प्रत्ययाः कालाद्युपाधयो न तद्वचनाः
अनुक्तेषु च कालादिषु तत्पूर्वकं वर्तमाने लड् भविष्यति लिङ्भूते लडिति
नियमरूपमशक्यम् , उच्यतां तर्हि तिङ्भिः कालादय इति चेन्न भाष्यविरो-
धादुक्तं हि भगवता भाष्यकारेण भूते धात्वथ इति न च धात्वर्थेनैव धात्वर्थो
व्यवस्थापयितुं शक्यते लिङादयश्च सुतरामनधिगम्यमानविषयास्ते हि विध्या-
द्यर्थं विधीयन्ते स च विधिरूपा ऽर्थः स्वरूपतश्चोपाधितश्च न शक्यो-
निर्णतुमिति ।
तथा कारकानुशासनमपि दुःस्थं ध्रुवमपाये ऽपादानमित्युच्यते तत्र ध्रुव-
स्य वृक्षाद्देवदत्तत्पतितो देवदत्त इति पतनक्रियायामवलग्नं कृशमपि न कार-
कत्वमुत्पश्यामः, क्रियायोगा हि कारकं सा च वृक्षे नोपलभ्यते इति सार्थाद्धी-
( १ ) अत्र ग्रन्थस्त्रुटित इति प्रतीयते ।
नो रथात्पतित इति सार्थरथयोः क्रियोपलभ्यते न, वृत्तवन्निश्चलत्वमिति चेत्
सत्यं स्वरसप्रवृत्ता तयोरस्ति क्रिया हाने याने च पादपनिर्विशेषावेव सार्थरथौ-
न च यदेकस्यां क्रियायां कारकं तत्सर्वासु क्रियासु कारकं भवत्यतिप्रसङ्गात् ।
कर्मणा यमभिप्रैति तत् संप्रदानमित्यत्र कर्मशब्दः क्रियावचनो वा स्यादी-
प्सिततमकारकवाची वा आद्ये पक्षे क्रियायाः सर्वकारकाण्यभिप्रयन्ते इति
संप्रदानतां प्रतिपद्येरन्, न चोपाध्यायस्य कं चिदभिप्रयमाणस्य व्यापारमु-
त्पश्याम इत्यसावकारकमेव तत्र स्यात्, प्रतिग्रहस्तु क्रियान्तरमेव तत्र चोक्तम्
क्रियया चाभिप्रयमाणं फलं भवति, न द्वितीयः कारकंसंबन्धित्वेन कारकस्य
कारकत्वानुपपत्तेः क्रियासंबन्धितया हि कारकं कारकं भवति न कारकसंब-
न्धितया करोतीति कारकमिति व्युत्पत्तेः ।
साधकतमं करणमिति तमबर्थानवधारणादनुपपन्नमनेककारकसंदर्भसं-
निधाने कार्यमात्मानं लभते तेषामन्यतमव्यपगमे ऽपि न लभते इति ततः कि-
मिव कारकमतिशयशबलितवपुरिति कं तमबर्थं मङ्गलकलशेनाभिषिञ्चामः,
प्राचुर्येण प्रधानं कार्यं प्रति व्यापारयोगित्वमित्यादि सर्वसाधारणं न काष्ठै-
कनिष्ठमिति काष्ठैः पचतीति कथं तेषामेव करणत्वम्,
आधारो ऽधिकरणमिति यदुच्यते तत्र वक्तव्यं कस्याधार इति क्रियायाः
कारकस्य वा यदि क्रियाधारत्वमधिकरणलक्षणमशेषकारकाणामधिकरणसंज्ञा
प्रसज्येत क्रियायोगाविशेषादथ यत्र स्थाल्यादौ कर्मादि श्रितं तण्डुलादि तद-
धिकरणं समे देशे पचतीति न स्यादप्सु पचतीति स्यात् कटे स्थितो भुङ्क्ते
इति चापभ्रंशो भवेत्, कर्तुर्हि तदधिकरणं न कर्मणः, कर्तृकर्मणोः क्रियाश्रय-
योर्धारणाधिकरणत्वे अधिकरणमिति चेदुभयाधारत्वं न कटस्य न स्थाल्या इति
द्वयोरप्यधिकरणता हीयते एकैककारकाधारत्वे तु तल्लक्षणे परस्परापेक्षया पुन-
स्तत्स्वरूपसांकर्यं भवेत्, यदि तु सकलकारकाधारत्वमधिकरणलक्षणं स्था-
ल्यामोदनं पचतीति न स्यात्सकलकारकानधिकरणत्वात्स्थाल्या अधिकरणस्य-
चाकारकत्वप्रसक्तिः न ह्यधिकरणमधिकरणाश्रितं भवति मध्याह्ने स्नाति रात्रा-
वश्नाति पूर्वस्यां दिशि विहरतीति कालादीनामव्यापारत्वादकारकत्वमेव भवेत्
तथा च सत्येते प्रयोगा असाधवः स्युः ।
कर्तुरीप्सिततमं कर्मेति साधकतमवदिहापि न वाचको ऽयमतिशयानः
सर्वकारकाणां क्रियार्थितया कर्तुरीप्सिततमत्वादर्थं यदर्थं क्रिया तदर्थं कर्तु-
रीप्सितं तदर्थं त्वन्यदिति तत्र संप्रत्यय इत्युच्यते तर्हि तस्य कारकत्वमेव न
युक्तम्, क्रियासम्पादकं हि कारकमुच्यते क्रियासम्पाद्यं तु फलं भवति न का-
रकं कारकं च क्रियया चाप्तुमिष्टतममिति च विप्रतिषिद्धम् ।
अथाभिधीयते क्रियोपयोगयोग्यतानिबन्धनो ऽयं कारकव्यपदेशः स च त्रि-
चित्रक्रियोपयोगः अन्यथा करणस्यान्यथाधिकरणस्यान्यथा संप्रदानादेः, इह च
क्रियासाध्यत्वे ऽप्योदनस्य तत्क्रियोपयोगित्वमनिवार्यम् तमनुद्दिश्य क्रियायाः
प्रवृत्त्यभावादितीत्थमनेन रूपेण तस्य क्रियासाधनत्वात्कारकत्वमिति, नैतदेवं
साध्यैकस्वभावस्य सुखादेरपि कारकत्वप्रसङ्गात् , कारकत्वव्यपदेशो हि न पा-
रिभाषिकः किं तु क्रियासम्बन्धनिबन्धनः क्रियासम्बन्धश्चेदृशो यदुपेयक्रियायाः
उपायाः कारकमिति विपर्यये तु कीदृशः कारकभावः, अस्तु तर्हि तण्डुलान्प-
चतीति मा च भूदोदनं पचतीति ओदनस्य फलदशानुप्रवेशादिति, उक्तमत्र
तण्डुलेष्वपि तमबर्थो न वाचकस्तेषामपि फलसाधनोपयोगविशेषादिति, स्वत-
न्त्रः कर्तेति किमिदं स्वातन्त्र्यं यदिच्छातः प्रवर्तनमिति चेत्कुलं पचतीति चैत-
प्रमाणप्रकरणम् ३८५
वृक्षमूलादागते आकुलिको वार्त्तमूलिक इति न वक्तारो भवन्तीति एतदप्यसम-
ञ्जसमनुशासनम् ,
तथा अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति संज्ञालक्षणमतिव्यापकं
वाक्यस्यापि प्रातिपदिकसंज्ञाप्रसङ्गात् ।
अथ कृत्तद्धितसमासाश्चेतिसूत्रान्तरे समासग्रहणं विशेषविधित्वेन वर्ण्य-
मानं तदितरवाक्यप्रतिषेधाय भवतीति ततो वाक्यनिवृत्तिः सेत्स्यति, यद्येवम-
धातुरप्रत्यय इति न वक्तव्यं धातुप्रत्ययोरपि तत एव प्रतिषेधसिद्धेः ।
अथैकार्थतया समानशीलस्य वाक्यस्यैव प्रतिषेधे प्रभवति समासग्रहणं
न धातुप्रत्ययोरपि तदपि दुराशामात्रम् , वाक्यसमासयोरपि वावच-
नानर्थक्यकथनेन सार्थशक्तद्यव्यवस्थापनादिति,
तदेवं प्रातिपदिकसंज्ञाविषयस्यानिश्चयात्तत्प्रकृतिकानां ङ्याप्प्रातिपदिका-
दित्यधिकृत्य स्वादिप्रत्ययानां विधानमनुपपन्नमित्यलं प्रसङ्गेन, सर्वथा दुर्व्य-
वस्थितं शब्दानुशासनम् ,
यश्च व्याख्यातृणामुक्तानुक्तदुरुक्तनिरूपणप्रयत्नो यश्च वाचक्रमा-
त्रावर्णाधिक्यमिषपुरःसरलक्षणपरिचोदनप्रकारो यच्चेदं व्याख्यातृवचनमिह
न भवत्यनभिधानादिति यच्च व्याप्तिसिद्धौ सरलमुपायमपश्यतामाकृतिगणप्र-
दर्शनं यच्च पदे बहुलवचनं तत्सुतरामपरिशुद्धिमनुशासनस्य दर्शयतीति ।
अन्ये तु शोभेति चीर्णमिति न याति प्रतिभेत्तमिति मातुरनुहरतीति फ-
लर्हिणौ घासीति कांदिशीक इति आजिष्णुरिति गणेय इति वरेण्ड इति
चासंप्लवबहिष्कृतस्मृतिसन्देहविपर्ययप्रतिपादकत्वलक्षणस्खलितं विप्लुतं पा-
णितन्त्रं मन्यमानाः तत्र महान्तमाक्षेपमतानिषुः स तु स्थूलोदरप्राय इतीह
ग्रन्थगौरवभयान्न लिख्यते ।
ननु यदि लक्षणस्य प्रणेता पाणिनिः न सम्यग्दर्शयत्यत्र विवरणकाराश्च
नातिनिपुणदृशः काममन्यः सूचीकृतबुद्धिर्भविष्यति वृत्तिकाराश्च प्रौढतरदृष्टयो
भविष्यन्ति तेभ्यः शब्दलक्षणमविप्लुतभवभोत्स्यामह इति,
नैतदस्ति तेषामप्यभियुक्ततराः के चिदुत्प्रेक्षन्ते एव दोषं तेषामपरे तेषा-
मप्यपरे, तदेवमनवस्थाप्रसङ्गान्नास्ति निर्मलमनुशासनमिति क्लेशायैव व्याक-
रणाध्ययनमहाव्रतग्रहणम् , तथा च बृहस्पतिः प्रतिपदमशक्यत्वाल्लक्षणस्यापि
अव्यवस्थानात्तत्रापि स्खलितदर्शनादनवस्थाप्रसङ्गाच्च मरणान्तो व्याधिर्व्याकर-
णमित्यौशनसा इति । इहाप्युक्तम्—
दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः ।
पितृभ्यामभिशप्तो वा कुर्याद्व्याकरणे श्रमम् ॥
४९ न्या०
३८६ न्यायमञ्जर्याम्
अन्यैरप्युक्तम्—
वृत्तिसूत्रं तिला माषाः कपन्त्री कोद्रवौदनः ।
अजडाय प्रदातव्यं जडीकरणमुत्तममिति ॥
एवं व्याकरणावगाहनकृतोद्योगेऽपि विद्वज्जने।
व्युत्पत्तिं लभते न वैदिकपदग्रामे मनुष्योक्तिवत् ।
अन्यत् किं चन तत्प्रतीतिशरणं नास्तीति च व्याकृतं
तस्मादप्रतिपत्तिमन्थरमुखो वेदः प्रमाणं कथम् ॥
साधुशब्दानां वाचकत्वव्यवस्थापनम्—
अत्राभिधीयते, यत्तावदिदमवादि गवादिशब्दवदनादिप्रबन्धसिद्धमेव गा-
व्यादेरपि वाचकत्वमिति तत्राऽमुं पक्षं संशयदशामेव तावदारोपयामः, पूर्वप-
क्षिकोक्त्युक्तिसमुत्थापितस्थिरतरविपर्ययज्ञानसमनन्तरं सहसैव सम्यग्ज्ञानोत्पा-
दनातिभराद्द्वारादेकदेशावतरणन्यायेन संशयस्तावदुपपद्यते, ततः तर्कात्परिशोधि-
ते ऽध्वनि सुगमे सुखं विहरिष्यति सम्यङ्निर्णयोपायो न्याय इति तदुच्यते,
यदि गाव्यादीनां गवादीनामिव शब्दानां प्रयोगे गतिरन्या न काचित्सम्भावना-
भूमिमनपेति(?) तत्सत्यमादिसत्तायाः कल्पने कोऽवसरो यथा हि स्वाध्यायाध्यय-
नसमये यादृशमेव शब्दं यथोचितमात्रानुस्वारस्वरादिरूपसमुत्थितमुच्चारयत्या-
चार्यः तादृशमेव शिष्यः प्रत्युच्चारयति प्रमाद्यन्तं वा गुरुरेवैनमनुशास्ति आत्त-
दुच्चारणसामर्थ्योपजनं तावन्न मुञ्चति शिक्षयति सोऽपि शिष्टो यदा गुरुर्भवि-
ष्याति तदा स्वशिष्यं तथैव शिक्षयिष्यति आचार्यो यदा शैशवे शिष्य आसी-
त्तदान्येन गुरुणा शिक्षितो ऽभूत् सोपि तदन्येन सोपि तदन्येनेत्येवमनादित्वं
जैमिनीयपक्षे आसर्गात्प्रभृति प्रवृत्तत्वं नैयायिकपक्षे वेदाध्ययनस्य व्यवस्थितम् ,
इत्थमेव यदि गाव्यादीनां गवादिवत् प्रमादतः सुपरिरक्षितः प्रयोगस्तथैव
तेभ्योऽर्थप्रतिपत्तिपूर्वको व्यवहारस्तदाऽनादिगवादिशब्दसमानविषया एव गा-
व्यादय इति तदा कस्य किं ब्रूमः, अस्ति त्वत्रान्यः प्रकारो न ह्येकान्तेन यादृ-
ग्वेव वक्त्रा शब्दः प्रयुज्यते तादृगेव श्रोत्रा प्रत्युच्चार्यते किं तु प्रमादालस्यादिवि-
विधापराधविगुणकरणोच्चार्यमाणो ऽपभ्रंशतां स्पृशन् दृश्यते इत्यस्ति संशया-
वसरः, अपभ्रंशतयाऽपि ये स्थिताः स्थास्यन्त्यपि वा शाकटिकभाषाशब्दास्ता-
नपि गोपालबालाबलासु प्रयुञ्जाना जरत्पामराः प्रयत्नेनापि न यथोच्चारितानेव
तान्पठितुं शक्नुवन्तीति अशक्तिजशब्दबाहुल्यदर्शनात्संशयाना कुशाग्रीयबुद्धे-
रपि बुद्धिर्भवितुमर्हति किमेते गवादिशब्दा एवानादिसिद्धवाचकाः शक्तिभाज-
स्तेभ्योऽन्ये विगुणकरणप्रयोज्याः प्रमादप्रभवाः अपभ्रंशाः किं वा सर्वे एव तु-
ल्यकक्षा इति, सर्वेषां तुल्यकक्षत्वे य एते अद्यत्वे ऽपि प्रमादजाः प्रमदादारका-
प्रमाणप्रकरणम् ३८७
दिवचनेष्वपभ्रष्टा अभ्यधिकतरामपभ्रंशदशां स्पृशन्तस्तेऽपि तामेव गवादिश-
ब्दमधुरमधिरोहेयुः न चैवमस्त्विति शक्यमभ्यनुज्ञातुमिदानीमेव अश्यतां तेषां
प्रत्यचत उपलब्धेरिति, तस्मादवश्यं तावदद्यत्वे परिदृश्यमानापभ्रंशदशा दुर्ब-
लबालाब्रलादिशब्दानां न गवादिशब्दान्स्पर्धितुमर्हति, ते चेन्न स्पर्धन्ते तदधुना-
गाव्यादयोपि प्रकारान्तरोपपत्तिसम्भावनाङ्कुरप्रभवाः सन्तो न गवादिशब्दसमा-
नविधित्वमध्यवसातुं शक्नुयुरिति तर्कयामः, तदुक्तं भगवता जैमिनिना, “शब्दे
प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्” इति(१) भाष्यकारेणापि व्याख्यातं “महता
प्रयत्नेन शब्दमुच्चरन्ति वायुः नाभेरुत्थितः उरसि विस्तीर्णः कण्ठे विवर्त्ति-
तो मूर्द्धानमाहत्य परावृत्तो वक्त्रे चरन्विविधान् शब्दानभिव्यनक्ति तत्रापराध्ये-
ताऽप्युच्चारयिता यथा शुष्के पतिष्यामीति कर्दमे पतति सकृदुपस्पृक्ष्यामीति
द्विरुपस्पृशति” इत्यादिना।
अपभ्रंशानामनादित्वाभावप्रतिपादनम्—
आह तर्हि विशेषे प्रमाणं वक्तव्यं यदेते गाव्यादयः प्रमादाद्यपराधनिबन्ध-
ना एव न गवादिशब्दसमानविधय इत्युच्यते, भवतु नः समीहितं संशयदशां
तावदानीतः ऽयमनादिगाव्यादिशब्दवाची महापुरुषः सम्बोध्यते भो महात्मन्नि-
त्थं पूर्वोक्तनीत्या संशये सति चिन्त्यतां किमेते गाव्यादयो गवादि समानयोग-
क्षेमा एव हस्तः करः पाणिरितिवद्भवन्तु किं वापराधसम्भावनया मार्गान्तर-
मालम्बन्तामिति, तत्रैकस्मिन्वाच्ये बहवस्तुत्यकक्ष्या वाचका इति नैष न्यायः,
कथं प्रत्यर्थं शब्दन्निवेशात्तेनैव सम्बन्धकरणसौकर्यादन्यसम्बन्धे यत्नगौरवप्रस-
ङ्गात्प्रत्यर्थं शब्दनिवेशे हि सति परस्परमव्यभिचारिणौ शब्दार्थौ भवतः स श-
ब्दस्तस्य वाचकः सोऽर्थस्तस्य वाच्य इति, अनेकशब्दवाच्यस्त्वेकोऽर्थस्तं वाच-
कं शब्दं न जहादपि तमन्तरेण शब्दाभिधेयतामपि यतः प्रतिपद्यते इति व्य-
भिचारः, अनेकार्थवाचिनि चैकस्मिन्वाचके इष्यमाणे शब्दोऽर्थं व्यभिचरेत्-
स्येवार्थान्तरस्यापि ततः प्रतिपत्तेरीत्थमनियमो ऽयमपप्लवेत, हस्तः करः पा-
णिरित्यादौवक्षाः पादा माषा इत्यादौ तु गतिरन्या नोपलभ्यते तेनानेकशब्दत्व-
मनेकार्थत्वं च दैवबलवत्तया ऽङ्गीकृतं प्रथमः पुनरेष ऋजुः पन्था यदेकस्य
वाचकस्यैको वाच्योऽर्थ इति च, इह गत्यन्तरमतिस्पष्टमस्ति प्रमादप्रभवत्वं नाम
तस्मिन्सति किमिति प्रथमप्राप्तो ऽयं प्रतिवाच्यं वाचकनियमक्रमो लङ्घ्यते, तेन
प्रमादापराधनिबन्धना गाव्यादयो न गवादिसमानमहिमान इत्युक्तम्,
किं च वाचकशक्तिः नाम सूक्ष्मा परमर्थापत्तिमात्रशरणावगमा न तन्मन्दता-
यामन्यतः कुतश्चिदवगन्तुं पार्यते, सा चेयमन्यथा ऽप्युपपद्यमाना गवादिभ्यो ऽर्थ-
( १ ) जैमिनिसूत्रम् । अ० १ पा० ३ सू० २९ तत्रैव शाबरभाष्ये ।