सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 402, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 402

[३८०] न्यायमञ्जर्याम्

नफला मीमांसा दृश्यते न व्याकरणम्, तेन रक्षोहागमलघ्वसंदेहाः प्रयोजन-
मिति यदुच्यते तन्न सुव्याहृतम्,
यान्यपि प्रयोजनान्तराणि भूयांसि ते ऽसुरा हेलयो हेलय इत्युदाहरणदिशा
दर्शितानि तान्यपि तुच्छत्वादानुषङ्गिकत्वाच्चोपेक्षणीयानि, तदुक्तम्—
अर्थवत्त्वं न चेज्जातं मुख्यैरपि प्रयोजनैः ।
तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनीति(१) ॥
व्याकरणस्य शब्दादिसंस्कारकत्वानुपपत्तिः—
अथ कथ्यते किं प्रयोजनान्तरपर्येषणया शब्दसंस्कार एव व्याकरणस्य
प्रयोजनमिति तदपि व्याख्येयं कः शब्दस्य संस्कारः तेन वा को ऽर्थ इति, न
हि व्रीहीणामिव प्रोक्षणमाज्यस्येवावेक्षणमग्नीनामिवाधानं शब्दस्य कश्चन व्या-
करणकारितः संस्कारः संभवति, नैयायिकादिपक्षे च क्षणिका वर्णास्तेषामुच्चा-
रितनष्टानां कः संस्कारः शरादेरिव न वेगो नात्मन इव भावना न शाखादेरिव
स्थितिस्थापक इति, वर्णानां नित्यत्वपक्षे ऽपि क्षणिकाभिव्यक्तित्वमपरिहार्यम-
तस्तेष्वपि कः संस्कारः, संस्कारश्च वर्णस्य वा पदस्य वाक्यस्य वेति विक-
ल्प्यमानो न कस्य चिद्व्यवस्थापयितुं शक्यः, वैयाकरणानां तु निरवयववाक्य-
विदां पदवर्णयोः संस्कारः सुतरा मनालम्बनः, अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्र-
त्ययादिकमन्यान्येव पदानि संस्करिष्यन्ते इति चेन्न, असतां संस्कारस्यानुप-
पत्तेः, आह च—
वाक्येभ्य एव परिकल्पनया विभज्य
संस्कर्तुमिच्छति पदानि महामतिर्यः ।
उच्चित्य सौरभविभूषितदिशि कस्मा-
दाकाशरूढकुसुमानि न संस्करोतीति ॥
न च शब्दसंस्कारकर्तव्यतोपदेशे कश्चदनारभ्याधीतो वा प्रकरणपठितो
वा विधिरुपलभ्यते यमनुरुध्यमानाः शब्दस्योपयुक्तस्य चात्वाले कृष्णविषाणां
प्रास्यतीतिवदुपयोक्ष्यमाणस्य वा व्रीहिन्प्रोक्षतीतिवत्कं च न संस्कारमनुतिष्ठेम,
स्वाध्यायो ऽध्येतव्य इति विधिरामुखीकरणेन माणवकस्य वा ग्रन्थस्य वा
विधिः संस्कारमुपदिशतीति महती चर्चेषा तिष्ठतु, सर्वथा नायं व्याकरणनि-
र्बन्ध्यैः प्रत्ययागमवर्णलोपादेशादिद्वारकशब्दसंस्कारोपदेशशङ्कामपि च नयती-
त्यास्तामेतत्, न च शब्दप्रयोगोपायस्थानकरणादेः कोष्ठ्यस्य मातरिश्वनो वा
श्रोत्रेन्द्रियस्य वा तदुपलब्धिकरणस्य प्रयोक्तुरात्मनो वा मनसो वा बुद्धेर्वा
कश्चिद्व्याकरणेन संस्कारक्लेशः शक्यक्रिय इति तत्कारके ऽपि संस्कारे ऽनुपाय


( १ ) तन्त्रवार्तिके अ० १ पा० ३ सू० १८ ।