सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 400, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 400

३७८ न्यायमञ्जर्याम्
यदपि पुण्यपापफलत्वं शब्दापशब्दप्रयोगयोरिति गीयते तदपि न पेशलं परि-
दृश्यमानमविवादसिद्धार्थप्रत्ययजननमपहाय परोक्षस्यादृष्टस्य पुण्यपापात्मनः क-
ल्पनाऽनुपपत्तेः, यश्चायं स्वर्गे लोके कामधुग्भवतीति साधुशब्दस्तुत्यर्थवादो यश्च
स वाग्वज्रो यजमानं हिनस्तीत्यपशब्दे निन्दार्थवादः तत्र परार्थत्वस्य विस्पष्ट-
दृष्टत्वादर्थवादमात्रपर्यवसितौ च “द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थ-
वादः स्यात्” इति (१) न्यायान्न फलार्थतेति, तदेवं साधुभिर्भाषितव्यमसाधुभिर्नेति
विधिनिषेधयोरनारभ्याधीतयोः श्रूयमाणयोरपि दौःस्थ्यात्तन्मूलतया लब्धप्र-
माणभावा व्याकरणस्मृतिरङ्गतामेष्यति वेदस्येति दुराशैव, प्रकरणविशेषपाठे तु
तयोस्तदुपयोगादेव न सार्वत्रिकी नियमार्थतेति सर्वथा न व्याकरणे तन्मूलत्वम्,
व्याकरणस्य निष्प्रयोजनत्वम्—
आह तर्हि निष्कारणः षडङ्गो वेदो ऽध्येयो ज्ञेयश्चेति विधेः शिक्षाकल्प-
सूत्रनिरुक्तच्छन्दोज्योतिः शास्त्रवद्व्याकरणमपि वेदाङ्गत्वादध्येतव्यमित्यवगम्यते,
नैतदप्यस्ति शिक्षादीनामनितरेतरसाध्यासंकीर्णविविधविषयेपेक्षितवेदोपकारनि-
र्वर्तकत्वेन तदङ्गता सुसङ्गता, व्याकरणस्य तु सुदूरमपि धावनप्लवने विदधतः
साधुशब्दप्रयोगनियमद्वारकमेव तदङ्गत्वं सम्भाव्यते न मार्गान्तरेण स च नियमो
दुरुपपाद इति दर्शितम् , अतो नाङ्गान्तराणि स्पर्धितुमर्हति व्याकरणम्, निष्का-
रणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजनशैथिल्यं सूचयति न
तथा प्रयोजनवत्ताम्, श्रुतिलिङ्गाद्यङ्गत्वप्रमाणापेक्षया षडङ्गता वर्णयिष्यते, एतेन
“तस्माद् ब्राह्मणेन न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द” इति “एकः
शब्दः सम्यक्प्रयुक्तः स्वर्गे लोके कामधुग्भवति” इति “आहिताग्निरपशब्दं प्रयुज्य
प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्” इति “तस्मादशेषा व्याकृता वागुच्यते”
इत्यादिवचनान्तरमूलता ऽपि व्याकरणस्मृतेः प्रत्युक्ता, शिष्टप्रयोगमूला तर्हि व्या-
करणस्मृतिरस्तु वैद्यकस्मृतिरिवान्वयव्यतिरेकमूलेति चेत् के शिष्टा इति पृष्टो वक्तु
मर्हसि, किमभिमतगवादिसाधुशब्दव्यवहारिणो गाव्याद्यपशब्दवादिनो द्वये वा,
आद्ये पक्षे दुरुत्तरमितरेतराश्रयत्वम् , शिष्टप्रयोगमूलं व्याकरणं व्याकरणवि-
दश्च शिष्टा इति, न ह्यशिक्षितव्याकरणास्तत्संस्कृतगवादिशब्दप्रयोगकुशला भव-
न्ति, मध्यमपक्षे गाव्यादिव्यवहारिणः शाकटिकाः शिष्टाः तत्प्रयोगमूलं गवादि-
शब्दसंस्कारकारि व्याकरणमिति व्याहतमिव लक्ष्यते, तृतीये तु पक्षे गोगाव्या-
दिशब्दप्रयोगसांकर्यात्किंफलं व्याकरणं भवेत्, वैद्यकस्मृतेस्तु युक्तमन्वयव्यतिरेक-
मूलत्वं तथा दर्शनादिति, तदनया ऽपि दिशा न प्रयोजनवत्तामुपयाति व्याकर-
णम् , अतश्च निष्प्रयोजनं व्याकरणं तत्सूत्रकृता स्वयं प्रयोजनस्यानुक्तत्वात् ,
( १ ) जैमिनिसूत्रम् अ० ४ पा० ३ सू० १ ।