न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
' -> 'प्र'.
Then 'स' + 'त' -> 'स्त'.
Wait, what is "प्रस्तनिरस्त"?
Could it be "प्रशस्तनिरस्त"? Or "ग्रस्तनिरस्त"?
Look at the first letter:
Is it 'ग' + '्' + 'र' = 'ग्र'?
Look at 'ग्र' in 'ग्राह्यं' (line 31), 'ग्राह्यता' (line 29):
'ग' with a diagonal stroke '्र' = 'ग्र'!
In line 33, look at the first letter of that word:
Does it have a left vertical and a right vertical?
YES! It has two legs like 'ग'!
It is "ग्रस्त"!
"ग्रस्तनिरस्तरोमशाम्बुकृतादिदोषरहित..."!
YES! "ग्रस्त-निरस्त-रोमशाम्बू-कृतादि-दोष-रहित..."!
These are the phonetic faults (दोष) of pronunciation from the Śikṣā and Prātiśākhya / Mahābhāṣya!
In Patañjali's Mahābhāṣya (Paspaśāhnika):
The defects of sound/pronunciation are:
"ग्रस्तं निरस्तमवलम्बितं निर्हतमम्बूकृतमध्मातं विगीतं संदष्टमेणीकृतमर्द्धकं द्युष्टमेतावन्तः स्थानकरणदोषोत्थाः शब्ददोषाः..."!
प्रसिद्धानुपूर्वीकवर्णगुणात्मकपदप्रतिभासस्तावदस्ति स च न संदिग्धो न बाधक-
विधूतधैर्यो नाशुद्धकरणजन्मा न कल्पनामात्रस्वरूप इति तत्र परिस्फुटक्रमव-
र्णात्मकपदग्रहणमेव साधुत्वग्रहणं तद्विपरीतयथानिर्दिष्टदोषकलुषितशब्दग्रहण-
मेव चासाधुत्वग्रहणमिति प्रत्यक्षगम्ये एव साधुत्वासाधुत्वे इति ।
ननु यदि श्रोत्रकरणकेनैव प्रत्ययेन साधुत्वासाधुत्वे प्रतिपत्तारः प्रतिपद्य-
न्ते व्याकरणाध्ययनवन्ध्यबुद्धयो ऽपि प्रतिपद्येरन् न च प्रतिपद्यन्ते तस्मान्न ते
ते इन्द्रियविषये इति,
नैष दोषः , वैयाकरणोपदेशसाहायकोपकृतश्रोत्रेन्द्रियग्राह्यत्वाभ्युपगमात्
यथाब्राह्मणत्वादिजातिरूपदेशसव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यताम-
पोज्झति, यथा ऽऽह न यद्विरिष्टुङ्गमारुह्य गृह्यते तदप्रत्यक्षमिति, यथा वा
सविकल्पकप्रत्यक्षप्रामाण्यसिद्धौ शब्दानुविद्धबोधे ऽपि प्रामाण्यमुपपादितमादौ
किल संज्ञोपदेशिना पनसो ऽयमिति वृद्धवचसा चक्षुरिन्द्रियेण पनसज्ञानमुत्पद्यते
सङ्केतकरणकाले तदुभयजनितव्यत्यपदेशपदेन व्यपनीतं व्यवहारकाले पनसादि-
ज्ञानमुपदेशस्मरणापेक्षचक्षुर्जनितमपि चाक्षुषमेवेति वर्णितमेवमिहापि व्याकर-
णकोविदोपदेशसचिवश्रोत्रेणन्द्रियग्राह्ये अपि साधुत्वासाधुत्वे न प्रत्यक्षतामतिव-
र्तेते, यथा च ब्राह्मणत्वादि
..." OR "नीरपानोपदेश-कृशानुपाननिषेध इव..."!
WOW!
नीर-पान-उपदेश (instruction to drink water) vs कृशानु-पान-निषेध (prohibition to drink fire)!
Both are dwandwa or two separate words:
नीरपानोपदेशः कृशानुपाननिषेध इवानवकाशमिदं शास्त्रम्!
Or as a compound: नीरपानोपदेशकशानुपाननिषेध?
Wait, if it's separate words:
"नीरपानोपदेशकृशानुपाननिषेध इवानवकाशमिदं शास्त्रम्"
Wait, why would "नीरपानोपदेश" be anavakaasha?
Because everybody drinks water naturally (by thirst)! You don't need a shastra to say "drink water"! That's anavakaasha (has no purpose/scope)!
And nobody drinks fire, so "don't drink fire" is also anavakaasha!
BOTH ARE ANAVAKAASHA!
Instruction to drink water (नीरपानोपदेश) is uncalled for because it's naturally obtained (प्राप्त)!
Prohibition of drinking fire (कृशानुपाननिषेध) is uncalled for because it's never obtained (अत्यन्ता Sebast/अप्रसक्त)!
"न हि नीरपानोपदेशकृशानुपाननिषेध इवानवकाशमिदं शास्त्रम्"!
Or "नीरपानोपदेश-कृशानुपाननिषेध"!
That is
हि दर्शपूर्णमासप्रयोजनादन्यत्प्रयाजादिप्रयोजनमन्विष्यते इति मन्वानः स्वयं
सूत्रकृत्प्रयोजनं नाख्यत् ,
व्याख्यातारस्तु मुख्यानुषङ्गिकभेदभिन्नप्रयोजनप्रपञ्चं प्रयोजनातिशयव्यु-
त्पादनद्वारकश्रोतृजनोत्साहपरिषोषसिद्धये दर्शितवन्त इति न कश्चिदुपलम्भः।
कथं पुनरङ्गता व्याकरणस्य कमुपकारमावहत इति, क एव पर्य्यनुयो-
गो वेदवेदाङ्गानामनादित्वाद्दीश्वरप्रणीतत्वाद्वा पर्य्यनुयोजनानुपपत्तेः, संक्षेप-
विस्तरवविक्षया हि पाणिनिपिङ्गलपराशरप्रभृतयः तत्र तत्र कर्तारः प्रसि-
द्धि गताः, परमार्थतस्तु वेद इव तदर्थोपि तदर्थावगमो ऽपि प्रायो हि सर्व एवा-
नादयः प्रजापतिनिर्मिता वेत्येवमपर्य्यनुयोज्य एव, अत एव वेदैस्तदङ्गैश्च सह
चतुर्दश विद्यास्थानानि गण्यन्ते—
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
३९२ न्यायमञ्जर्याम्
व्याकरणस्यावश्याध्येयत्वनिरूपणम्—
तस्मात्पवित्रात्सर्वस्मात्पवित्रं जनबहुमतमधिगतचतुर्वर्गमप्राप्यमात्मानं क-
र्तुमध्येतव्यं व्याकरणम् , आह—
आपः पवित्रं परमं पृथिव्या अद्द्भ्यः पवित्रं परमं हि मन्त्राः ।
तेषां च सामर्थ्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः ॥
इहाप्युक्तम्—
रूपान्तरेण देवास्ते विहरन्ति महीतले ।
ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥
किं च—
वरं हि जातास्तिमयो गभीरे जलाशये पङ्किनि नित्यमूकाः ।
न मानवा व्याकरणप्रयोगबुद्धसंस्कारविहीनवाचः ॥
मनुना च पङ्क्तिपावनत्वेनाधिगतव्याकरणो मीमांसकश्च स्वस्मृतौ पठितौ
“यश्च व्याकुरुते वाचं यश्च मीमांसते ऽध्वरम्” इति । पुष्पदन्तो ऽप्याह—
भ्रष्टः शापेन देव्याः शिवपुरवसतेर्वन्द्यहं मन्दभाग्यो
भाव्यं वा जन्मना मे यदि मलकलिले मर्त्यलोके सशोके ।
स्निग्धाभिर्दुग्धधारामलमधुरसुधाबिन्दुनिष्यन्दिनीभिः
कामं जायेय वैयाकरणभणितिभिस्तूर्णमापूर्णकर्णः ॥
एवं व्याकरणाभियोगसुलप्रौढोक्तिभिः पण्डितै-
रक्लेशेन विचित्रवैदिकपदव्युत्पत्तिरासाद्यते ।
अन्यैरप्युपबृंहिते दृढतरासङ्गैर्निरुक्तादिभि-
र्वेदे स्वार्थधियं वितन्वति कुतः प्रामाण्यभङ्गो भवेत् ॥
अङ्गभावनिरपेक्षयैव नः प्रत्ययो यदिह शब्दविद्यया ।
वैदिकार्थविषयो विधीयते तत् परास्तमितरेतराश्रयम् ॥
आदृतमस्खलितव्यवहारैर्भोगिमत्तं श्रुतसङ्गिभिरार्यैः ।
व्याकरणं कथमेतदनादि प्राकृतलक्षणतौल्यमुपेयात् ॥
आगमप्रामाण्योपसंहारः—
एवं मृषात्वमुद्गीतं येन येन च्छिद्रेण कल्पितपिशाचरवैरनार्यैः ।
तत्तत्समप्रमपसारितमित्यतश्च प्रामाण्यमप्रतिहतं स्थितमागमानाम् ॥
इति प्रमाणानि यथोपदेशमेतानि चत्वारि परीक्षितानि ।
प्रस्तन्वतां संव्यवहारमेभिः सिध्यन्तु सर्वे पुरुषार्थसार्थाः ॥
इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां षष्ठमाह्निकम् ॥
समाप्तं न्यायमञ्जर्याः प्रमाणप्रकरणम् ॥
श्रीविश्वेश्वरः शरणम् ।
जयन्तभट्टकृत-
न्यायमञ्जरी ।
तत्र प्रमेयप्रकरणम् ।
❖
प्रमेयपरीक्षारम्भः ।
एवं प्रमाणपदार्थे परीक्षिते सति यदर्थं तत्परीक्षणं तत्प्रमेयमिदानीं दर्श-
यितुमाह—
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्य-
भावफलदुःखापवर्गास्तु प्रमेयम् ॥(१)
प्रमाणवदिहाप्येतत्सूत्रं व्याख्यायि सूरिभिः ।
एवं विभागसामान्यलक्षणप्रतिपादकम् ॥
प्रमेयश्रुतिरात्मादिपदपर्यन्तवर्त्तिनी ।
तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥
यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्येवकारादिश्रुतिमन्तरेणापि
शब्दसामर्थ्यात्त एव भोजनक्रियायोगिनोऽवगम्यन्ते नान्ये तथेहाप्यात्मादयः प्र-
मेयमित्युक्ते तथैव तदितरप्रमेयनिषेधोऽवधार्यते,
ननु कथं द्वादशविधमेव प्रमेयमुपपद्यते यावता समानतन्त्रे (२)पृथिव्यादीनि
नव द्रव्याणि, रूपादयश्चतुर्विंशतिर्गुणाः, उत्क्षेपणादीनि पञ्च कर्माणि, परापरभे-
देन द्विविधं सामान्यं, नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, एकः समवाय, इति षट्-
पदार्थीमनुक्रम्य तदवान्तरविशेषैरानन्त्यं प्रमेयस्योपवर्णितमिति ?
उच्यते—किं पुनरिह प्रमेयं विवक्षितमिति तत्सामान्यलक्षणं तावत्परीक्ष्यताम् ?
आह—सूक्तमिदं कस्यापि 'कर्णे पृष्टः कटिं चालयती'ति द्वादशविधत्व-
माक्षिप्तं न प्रतिसमाधत्ते भवान् प्रमेयस्य सामान्यलक्षणं तु परीक्षत एव,
उच्यते—अलं केलिना, एतदेवात्र प्रतिसमाधानं भवति न हि प्रमाणविषय-
मात्रमिह प्रमेयमभिमतमेवंविधस्य प्रसिद्धत्वेन लक्षणानर्हत्वात् प्रमाणे एव
ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति ज्ञात एव किं तेन लक्षितेन; तस्माद्वि-
शिष्टमिह प्रमेयं लक्ष्यते,
( १ ) गौ० सू० अ० १ आ० १ सू० ९ । ( २ ) कणाददर्शने ।
२ न्यायमञ्जर्याम्
ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा ।
तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥
तच्च द्वादशविधमेव भवति न न्यूनमधिकं वेति समाहित इत्थं भवति वि-
भागाक्षेपः, कुतः पुनरेष प्रमेयविशेषो लभ्यते, निःश्रेयसार्थत्वाच्छास्त्रस्य,
प्रमेयज्ञानस्य(१) प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव मिथ्याज्ञाने
निवृत्त्यादिक्रमेणापवर्गे हेतुत्वप्रतिज्ञानात् तथाविधस्य चापवर्गोपायत्वस्यात्मादि-
ष्वेव भावात्,
भवत्वेवं, सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्थने सामर्थ्यं-विशेषात्तु-
शब्दप्रयोगसामर्थ्याच्च ? सत्यमाकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं-
भवति तत्तु न सप्रयोजनम्, आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफल-
दुःखापवर्गास्तु प्रमेयं निःश्रेयसहेतुत्वादित्याशयः, तदित्थमेष तुशब्दो निःश्रेय-
साङ्गभूतप्रमेयान्तरपरिहारद्वारेण विशिष्टमात्मादि प्रमेयमिह सूचयति,
तद्द्वादशविधत्वेऽपि हेयोपादेयभेदतः ।
द्विधोच्यते मुमुक्षूणां तथैव ध्यानसिद्धये ॥
तत्र देहादिदुःखान्तं हेयमेव व्यवस्थितम् ।
उपादेयोऽपवर्गस्तु, द्विधाऽवस्थितिरात्मनः ॥
सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥
आत्मनो हि भोगाधिष्ठानं शरीरं, भोगसाधनानीन्द्रियाणि, भोक्तव्या इन्द्रि-
यार्थाः, भोगो बुद्धिः, आन्तरं हि भोगकारणं मनः, प्रवृत्तिः पुण्यपापात्मिका, रागा-
दयश्च दोषाः शरीरादिजन्महेतवः, एतत्कृतश्च शरीरादियोगाभ्यासः प्रेत्यभावः,
एतत्कृतमेव च संसारे सुखदुःखरूपं हि फलं, तच्च द्विविधमेव-विवेकवतः सर्वं
दुःखमेवेति, एवं शरीरादिदुःखान्ते हेयतयैव भावनीयम्, एतदनुषक्तश्चात्माऽपि
तथैव, एतद्वियुक्तस्त्वात्मैवापवर्ग उच्यते, स चोपादेयतया भावनीय इत्यत ए-
वात्मपदसंगृहीतस्याप्यस्य पुनर्निर्देशः स हि परमः पुरुषार्थ इति, एवमिदं द्वाद-
शभेदं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन्नभ्यासात्तद्विषयविपरीतमॊहात्मकं-
मिथ्याज्ञानं छिनत्ति,
तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते ।
रागद्वेषादयो दोषास्तन्मूलाः क्षयमाप्नुयुः ॥
क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका ।
तदभावान्न तत्कार्यं शरीराद्युपजायते ॥
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः ।
( १ ) 'प्रमेयस्य' इति ख० पु० पाठः ।
आत्मन्वाक्षेपः। ३
अशेषदुःखोपरमस्त्वपवर्गोऽभिधीयते ॥
तदित्थमेव द्वादशविधं प्रमेयमतिगहनसंसारमारवस्थल (१) प्रभवतीव्रसंता-
पनिर्वापणमहाह्रदतामुपयातीति तदेवादेशार्हमिति सिद्धम् ।
शरीरात्मवादिचार्वाकमतम् ।
विरक्तसं Rentasतावत्संजातफलोचिताः ।
आत्मैव त्वस्ति नास्तीति कथं न परिचिन्त्यते ॥
तथा च लौकायतिकार परलोकापवादिनः ।
चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते ॥
न तावदात्मा प्रत्यक्षतो गृह्यते घटादिवद् बाह्येन्द्रियेण, सुखादिवन्मनसा
परिच्छेत्तुमशक्यत्वाद्, अनुमानं तु न प्रमाणमेव चार्वाकाणां, न चात्मसि-
द्धौ किंचन लिङ्गमस्ति । ज्ञानादियोगस्तु भूतानामेव परिणामविशेषोपपादितश-
क्त्यतिशयजुषां भविष्यति, यथा गुडपिष्टादयः प्रागसतीमपि मदशक्तिमासा-
दितसुराकारपरिणामाः प्रपद्यन्ते तथा मृदाद्यवस्थायामचेतनान्यपि भूतानि श-
रीराकारपरिणतानि चैतन्यं स्पृक्ष्यन्ति । कालान्ते स्वव्याध्यादिना विशेषमव-
जहति तान्येव चैतन्यशून्यतामुपयास्यन्ति, चैतन्यत्वानपायाच्च तावन्तं कालं
तान्येव स्मृत्यनुसंधानादिव्यवहारनिर्वहणनिपुणतामनुभविष्यन्तीति कि-
मनुमानक आत्मा स्याद्, आगमास्तु मनोरथाधिरूढप्रामाण्याः कथमात्मा-
नमवबोधयितुं शक्ष्यन्ते, अयमपि चागमोऽस्त्येव ‘विज्ञानघन एवैतेभ्यो भूतेभ्यः
समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ती’ति तदात्मनो नित्यस्य परलो-
किनोऽभावात्कृतमेताभिरपार्थकपरिश्रमकारिणीभिः परलोककथाभिः ।
मीमांसक मतेनात्मप्रत्यक्षत्वनिरूपणम्-
तत्र प्रत्यक्षमात्मानमौपवर्षाः (२) प्रपेदिरे ।
अहं प्रत्ययगम्यत्वात्स्वयूथ्या (३) अपि के चन ॥
अस्त्ययमहं प्रत्ययः कश्चिच्छरीरसमानाधिकरणः स्थूलोऽहं कृशोऽहं, कश्चि-
ज्ज्ञातृसमानाधिकरणो जानाम्यहं स्मराम्यहमिति, तत्र स्थूलादिसमानाधिक-
रणस्तावदास्तामहंप्रत्ययः,
ज्ञानेच्छासुखदुःखादिसामानाधिकरणभाक् ।
यस्त्वहंप्रत्ययस्तत्र नात्मनोऽन्यः प्रकाशते ॥
(१) मरोरिदंमारवं तच्च तत्स्थलं मारवस्थलं संसार एव मारवस्थलं संसार-
मारवस्थलं, संसार एव मरुदेश इति यावत् तत्राधिकः सूर्यकृतस्तापो भवतीति ।
(२) उपवर्षो मीमांसासूत्रवृत्तिकारः पाणिनिगुरोर्वर्षस्य कनिष्ठभ्राता, औप-
वर्षाः = मीमांसकाः । (३) नैयायिकैकदेशिनः ।
४ न्यायमञ्जरीम्
न हि ज्ञानसुखेच्छाऽऽदियोगः कर्मेन्द्रियादिषु ।
न च ज्ञानादिशून्येऽर्थे जानामीत्यादिसंविदः ॥
ज्ञानमात्रावभासोऽपि वारितः प्रत्यभिज्ञया ।
ज्ञात(१)वानहमेवादावहमेवाद्य वेद्मि च ॥
नोत्तरस्य न पूर्वस्य न ज्ञानक्षणयोर्द्वयोः ।
न संतानस्य चतस्मिन्प्रत्ययेऽस्त्यवभासनम् ॥
नोत्तरो ज्ञातवान्पूर्वं पूर्वो जानाति नाधुना ।
न द्वयोर्द्वयमप्यस्ति संतानस्तु न वास्तवः ॥
अवस्तुत्वाच्च नासौ पूर्वं किं चिज्ज्ञातवान्न चाद्य किं चिज्जानातीति, त-
स्मादहमेव ह्यो ज्ञातवानहमेवाद्य जानामीत्यस्मिन्प्रत्यये ह्यश्चाद्य चानुवर्त्तमानो-
ज्ञाता प्रतीयत इति गम्यते, न चासौ कायो; (२) बाल्याद्यवस्थाभेदेन नानात्वाद-
चेतनत्वाच्च, एवं सप्रत्यभिज्ञाऽहंप्रत्ययग्राह्ये ज्ञातरि सिद्धे सोऽयं स्थूलादिसमाना-
धिकरणोऽहंप्रत्ययस्तदभेदोपचारेण शरीरे वर्त्तमानो मिथ्येति कल्पयिष्यते, न
पुनरेतदनुरोधेन ज्ञानादिसमानाधिकरणाऽहंप्रत्ययस्य मिथ्यात्वकल्पनं युक्तमबाधि-
तत्वाद्, न खल्वहं जानामीति प्रत्ययः केन चिदल्पीयसा दोषरेणुना धूसरीक-
र्तुं पार्यते तदस्यात्मैव मुख्यो विषयस्तदतिरिक्तं वस्तु भाक्तमिति; तस्मादहं-
प्रत्ययगम्यत्वादात्मा प्रत्यक्ष इति ।
ज्ञानात्मवादखण्डनम्-
अत्र वदन्ति--शब्दमात्रोच्चारणमेतदहं जानाम्यहमिच्छाम्यहं सुख्यहं-
दुःखीति न तु ज्ञानादिस्वरूपातिरिक्तस्तदाश्रयः कश्चिदेतासु बुद्धिषु परिस्फुर-
तीति, कथमेकस्यामेव संविदि कर्ता च कर्म चात्मा भवेत् ?
ग्राह्यग्राहकतैकस्य ज्ञानस्यापाकरिष्यते ।
त्वयाऽपि नेष्यते चेति तथा सत्यात्मनोऽपि सा ॥
यच्चावस्थाकृतं भेदमवलम्ब्य ग्राह्यग्राहकभावसमर्थनमेकस्यैवात्मनः कृतं-
किल द्रव्यादिस्वरूपमात्मनो ग्राह्यं ज्ञातृरूपं च ग्राहकमिति, तदनुपपन्नं, द्रव्या-
दिस्वरूपे ग्राह्ये न ज्ञातरि ग्राहकता साधिता स्याद्, आत्मवर्त्तिनोऽपि द्रव्या-
दिरूपस्य घटादितुल्यत्वाद्,
यदपि निपुणमन्यैरूच्यते भवतु ज्ञातृतैव (३)ग्राहिका तथाऽपि विषयोपा-
धिकृतोऽस्त्येव भेदः, घटावच्छिन्ना हि ज्ञातृता ग्राह्या शुद्धैव तु ज्ञातृता ग्राहि-
(१) 'ज्ञातव्यमह' ख० पु० पाठः ।
(२) 'कायो' इत्यस्य स्थाने 'वयो इति । ख० पु० पाठः स चायुक्तः ।
(३) ज्ञातृतैव—ज्ञानमेव ग्राहकमित्यर्थः ।
आत्मन्याक्षेपः । ५
केति, अन्यत्र तु शुद्धविषयग्रहणमेव भवति घटोऽयमिति—तदेतदपि सरल-
मतिप्रतारणमात्रम्, तथा हि घटोऽयमित्यत्र घटमात्रप्रवणैव बुद्धिः; इयांस्तु
विशेषः पूर्वं केवलं घटग्रहणमधुना तु ज्ञानविशिष्टघटावमर्श इति ।
अहंप्रत्ययस्य शरीरालम्बनत्वेनात्मनः परोक्षत्वम्--
ननु विभज्यमानायां प्रतीतौ घटोऽयमिति तावद्विषयग्रहणं, जानामीति
ज्ञानग्रहणमपि भवतु नाम, अहमिति तु कस्य ग्रहणम् ? न चैकस्यामेव प्रतीता-
वंशविभागेन प्रामाण्यमप्रामाण्यं वा वक्तुं युक्तम्—घटमिति जानामीति च
प्रमाणमहमिति तु न प्रमाणमिति, तस्मादत्र ज्ञातुरवभासोऽभ्युपेयः, उक्तमत्र
नैकस्यां प्रतीतावात्मनः कर्मता कर्तृता च स्याद्, यस्तूपाधिस्त्वनयोर्नेतुमुप-
क्रान्तः सोऽयं न घटते घटप्रवणत्वादहं जानामीतिप्रतीतेर्विभज्यमानत्वेऽपि
घटमिति जानामीति चांशद्वयं विषयनिष्ठमेव जातम्-अहमिति त्वयमंशो यद्यात्म-
विषयो दृश्यते तर्हि स एव शुद्धोऽवशिष्यते ग्राह्यग्राहकश्चेति नावस्थाकृतस्त-
द्भेदः समर्थितः स्याद्, भेदाभावेन चैकस्यैव ग्राह्यग्राहकभावमुपाधि(१)मभिदधता
विज्ञानवादवर्त्म संश्रितं स्यात्तस्मादहंप्रत्ययस्य ग्राहकाद्भिन्नं ग्राह्यमभिधित्सता
शरीरमेव ग्राह्यमभ्युपगन्तव्यं ज्ञानसामानाधिकरण्यानुपपत्तेश्च चरमस्य ना-
त्मालम्बनता, अत एव कृशश्यामसामानाधिकरण्यधीः शरीरालम्बनत्वस्य
साक्षिणी न विरोत्स्यते,
ननु ममेदं शरीरमिति भेदप्रतिभासात्कथमहंप्रत्ययः शरीरालम्बनः
स्याद् ? भोः साधो ! नैवंविधेषु प्रत्ययेषु विश्वास्यत्वमर्हसि ममात्मेत्यपि
भेदप्रत्ययस्य दर्शनादवस्थाभेदादिना यथा तथा तत्समर्थनमास्थीयते त-
दिह शरीरालम्बनत्वेऽपि सैव सरणिरनुसरिष्यते; तस्मादहंप्रत्ययः शरीराल-
म्बन एवेति, स च ज्ञानादिसमानाधिकरणो मिथ्या स्थूलादिसमानाधिकरणस्तु
सम्यगिति, ये तु मम शरीरं ममात्मेति च बुद्धी ते द्वे अपि मिथ्या ममप्रत्य-
यस्याहंप्रत्ययवदात्मानालम्बनत्वाच्छरीरे च भेदानुपपत्तेः,
मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते ।
शरीरं तु ममेत्येषा कल्पना राहुमूर्धवन् ॥
तस्मादहङ्कारममकारयोर्द्वयोरप्यविषयत्वादात्मा परोक्ष इति सिद्धम् ।
अपरे पुनराहुः—न ग्राह्यग्राहकरूपाभयसम्पत्तेरेकस्य कर्मत्वं कर्तृत्वं च युग-
पदात्मनो मन्यामहे किन्तु चितिशक्तिस्वभावमपरसाधनमपरोक्षमात्मतत्त्वं प्रचक्ष्म-
हे न ह्यात्मा जन्येन(२) ज्ञानेन घटादिरिव प्रकाश्यतेऽपि तु स्वत एव प्रकाशते। चेत-
( १ ) 'अनुपाधिकम्' इति ख०पु०पा० । उपाधिकृतमिति तु युक्तः प्रतिभाति ।
( २ ) 'अन्यजन्येन' इति ख० पु० पाठः ।
६ ] [ न्यायमञ्जर्याम् ।
नत्वमपि तस्य नैसर्गिकमेव न करणोपजनितचितियोगनिबन्धनम् , चियोगाद्धि
चेतनत्वे घटादावपि तत्प्रसङ्गो न चास्ति नियमहेतुरनेककारकपरिघट्टिततनुरपि
चितिरात्मानमेव ज्ञातारं करोति न कारकान्तरमिति, तस्मात्स्वत एव चित्स्व-
भावताऽस्य भद्रिका, तदिदमात्मप्रकाशनं संविद्वदवगन्तव्यम्, यदाहुः 'संवित्सं-
वित्तयैव संवेद्या न वेद्यतये'ति । नास्याः कर्मभावो विद्यत इत्यर्थः एवमात्मा
ग्राहकतयैव प्रकाशते न ग्राह्यतयैवेति तद्द्वैरूप्यस्य चोदनमनुपपन्नमिति,
एतदपि न चतुरश्रम्—अपरसाधनमिति कोऽर्थ उपायान्तरनिरपेक्षमेव
प्रकाशमानमात्मतत्त्वमास्त इति, तदयुक्तमकरणायाः प्रतीतेरदृष्टत्वाद्, अपूर्वं च
तत्किमपि यथाऽभ्युपगतं प्रमाणातिरिक्तमेव प्रमाणं स्याद्, न च नियमकारण-
मत्र पश्यामः तथा प्रकाशमानः स एवात्मा प्रकाशते न परात्मेति, प्रकाश-
मानत्वेनात्मनो नूनमनुभूयमानता वाच्याऽनुभूयमानता चानुभवकर्मत्वमित-
रथाऽस्याः प्रत्यक्षतैव न स्यात् ।
अथोच्यते—न प्रत्यक्ष आत्मा किं त्वपरोक्षइति नेदमर्थान्तरवचनं शिशव-
एवं प्रतार्यन्ते न प्रामाणिकाः, प्रत्यक्षश्च न भवत्यपरोक्षश्च भवतीति चित्रम्
प्रत्यक्षज्ञानकर्मत्वमस्य नास्तीति चेत् , तर्ह्यपरोक्षत्वमपि मा भूत् । प्रकाशत्वादपरो-
क्षत्वमिति चेन्न, दीपादेः प्रकाशस्याप्यन्धादिभिरगृह्यमाणस्य प्रकाशमानत्वा-
योगात्तस्मात्प्रकाशते चिदात्मा नूनमनुभूयेतापीति बलात्कर्मत्वमपरिहार्यमतश्च
तदवस्थैव द्वैरूप्यचोदना, प्रकाशज्ञानपक्षं च प्रतिषेत्स्यामः, स चात्मन्यपि तुल्यो-
न्यायः, कल्पनाद्वैरूप्यं च भवतामात्मा च स्वप्रकाशः संविच्च स्वप्रकाशेति,
न च निपुणमतिरपि विवेकमीदृशमुपदर्शयितुं शक्नोति भवान् इयं स्वप्रकाश-
फलरूपा संविद्, अयं स्वप्रकाशो ज्ञातृरूप आत्मेति चित्रं चेदं यत्तयोर्द्वयोः
प्रकाशयोरन्तराले तद्व्यापारः परोक्षज्ञानाख्यः संपन्न इति,
ननु घटमहं जानामीत्यत्र त्रयप्रतिभासो घटमिति विषयः प्रकाशते;
अहमित्यात्मा; जानामीति संविदिति, उक्तमत्र घटं जानामीति ज्ञानविशेषण-
विषयप्रतिभासः, अहमिति तु शरीरे ज्ञातृत्वभ्रम एकस्यात्मनो ग्राह्यग्राहकत्वा-
नुपपत्तेः—
यदपि स्वतश्चेतनस्वभावत्वमात्मनः कथ्यते तदपि न सोपपत्तिकम्,
सचेतनश्चिता योगात्तद्योगेन विना जडः ।
नार्थावभासादन्यद्धि चैतन्यं नाम मन्महे ॥
यदि च स्वत एवार्थावभाससामर्थ्यपक्षे च सर्वस्य सर्वज्ञताऽऽपत्तिरतोऽ-
वश्यं ज्ञानसमवायनिबन्धनमेवात्मनश्चेतयितृत्वं, न च घटादिभिरतिप्रसङ्ग आ-
शङ्कनीयः, पदार्थस्वभावोपनतस्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वा-
च्छेदनादिक्रियाः कर्मसमवायिन्यो न भवन्ति गमनादिक्रियास्तु कर्तृसमवा-
यिन्य एव न च वस्तुशक्तिरनुयोज्या भवति,
आत्मनोऽनुमानागम्यत्वम् । ७
न जडत्वाविशेषेऽपि कर्मादौ समवैति चेत् ।
न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥
तस्मान्न प्रत्यक्ष आत्मा नापि स्वतश्चेतयितेति स्थितम् ।
नैयायिकमतेनात्मनः प्रत्यक्षत्वोपपादनम्-
स्वयूथ्यास्तु के चिदाचक्षते—यदेकस्य कर्तृत्वकर्मत्वमनुपपन्नमित्यप्रत्यक्ष-
आत्मेष्यते तदयमनुमानेनापि कथं ग्रहीष्यते ?
आत्मानमात्मनाऽऽत्मैव लिङ्गादनुमिनोति हि ।
तत्र नूनमुपेतव्या कर्तृता कर्मताऽस्य च ॥
तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् ।
तथाऽहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु ॥
देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।
तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥
न चात्मनः किं रूपं यत्प्रत्यक्षेण साक्षात्क्रियते ? यद्येवं सुखादेरपि किं रूपं-
यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ?
नन्वानन्दादिस्वभावरूपं प्रसिद्धमेव सुखादेः, तर्हि तदाधारत्वमात्मनोऽपि
रूपमवगच्छतु भवान्,
सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते ।
मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥
इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥
अपि च—
ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत् ।
स्वयं प्रादीदृशत्तच्च किं वा युक्तमुपेक्षितुम् ॥
विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम् ।
पूर्वं चाननुभूतस्य स्मरणं नावकल्पते ॥
न चानुमानतः पूर्वं ज्ञात्वाऽऽत्मानं विशेषणम् ।
तद्विशिष्टार्थबुद्धिःस्यात् स्मरणानवधारणात् ॥
तस्मात्प्रत्यक्ष आत्मा ।
सामानाधिकरण्यं च स्मरणानुभवादिषु ।
अनुसन्धीयमानं यद् दृश्यते तत्कथं भवेत् ॥
आत्मनोऽनुमानगम्यत्वनिरूपणम् -
पूर्वमहममुमर्थमनुभूतवानहमेवाद्य पुनरनुभवामीति तुल्यविषयतावत्तु-
ल्यकर्तृकताऽपि तत्र प्रकाशते, इतरथा त्वनुमातुमप्यात्मा न शक्यते
८ न्यायमञ्जर्याम् ।
ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः ।
एकाश्रयतया ज्ञातमनुसंधातृबोधकम् ॥
तथात्वेन च तज्ज्ञानमाश्रयज्ञानपूर्वकम् ।
ज्ञाते तत्राफलं लिङ्गमज्ञाते तु न लिङ्गता ॥
तस्मात्प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् ।
बृद्धागमानुसारेण संविदालोकनेन च ॥
अथ वाऽभिनिवेशेन किमनेन प्रयोजनम् ।
अनुमेयत्वमेवास्तु लिङ्गेनेच्छाऽऽदिनाऽऽत्मनः ॥
तदाह सूत्रकारः—'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्'(१), इच्छा
नाम तावदित्थमुपजायते यज्जातीयमर्थमित्थमुपयुञ्जानः पुरुषः पुरा सुखमनुभू-
तवान् पुनः कालान्तरे तज्जातीयमुपलभ्य सुखसाधनतामनुस्मृत्य तमादातुमि-
च्छति सेयमनेन क्रमेण समुपजायमानेच्छा पूर्वापरानुसंधानसमर्थमाश्रयमनुमा-
पयति कार्यस्य निराधारस्यानुपपत्तेराश्रयमात्रप्रतीतौ चान्वयव्यतिरेकवानेव हे-
तुर्भवति, इच्छा धर्मियाश्रितेति साध्यो धर्मः कार्यत्वाद् घटादिवद् गुणत्वा-
दिति वा हेतुर्वक्तव्यः, गुणत्वं चेच्छाऽऽदीनामचाक्षुषप्रत्यक्षत्वादिनो रसादिवद्-
र्शितमाचार्यैः(२), एवमन्वयव्यतिरेकवताऽमुना हेतुनाऽधिष्ठानमात्रेऽनुमिते तद-
धिष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसंधानसन्यपेक्षत्तदुत्पा-
दनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमाच्छरीरादिविलक्षणाश्रया(३), श-
रीरादिषु बाधकोपपत्तौ सत्यां कार्यत्वादित्यत्र च साधर्म्यदृष्टान्तो न संभवतीति वैध-
र्म्यदृष्टान्तः—कार्यत्वे निर्विशेषणे य एव साधर्म्यदृष्टान्तो घटः स एव वैधर्म्यदृष्टान्तः
सविशेषणे, यत्र विलक्षणाश्रितत्वं नास्ति तत्र सविशेषणं कार्यत्वमपि नास्ति
यथा घटादाविति तु शक्यते वक्तुम्, तत्र कार्यमात्रयोगेऽपि सविशेषणानां
कार्यत्वाभावाद्दिलक्षणाश्रितत्वं नास्ति भूताश्रितत्वेन प्रत्यक्षमुपलभ्यमानत्वात् ।
ननु चान्वयदर्शनमन्तरेण केवलव्यतिरेकः प्रतीयमानः संदिग्धो भवति
किं तत्साध्याभावकृतैव तस्य तस्माद्व्यावृत्तिरुत निमित्तान्तरकृतेति, संदि-
ग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचारहेतुवदिति तार्किकाः,
उच्यते—स्यादेतदेवं यदि प्रथममनवगतान्वय एव केवलव्यतिरेकशरणो हेतुः
प्रयुज्यते, यतस्त्वन्वयव्यतिरेकताऽवकाशं लभते घटो हि भूतलाश्रितत्वेन प्रत्य-
क्षमुपलभ्यते तदस्य विशेषाणाश्रयविरहादेव सविशेषणहेतुशून्यता जाता निर्वि-
शेषणावस्थायां तद्योगदर्शनादिति न संदिग्धो व्यतिरेकः, अथ वा शरीरत्वं सा-
मान्यमिह वधर्म्यदृष्टान्तीकर्तव्यं, तत्र हि सर्वात्मना कार्यत्वस्पर्शोऽपि नास्ति
( १ ) गौतमसूत्रम् अ० १ आ० १ सू० १०॥
( २ ) वल्लभाचार्यैः। ( ३ ) इच्छेति शेषः ।
न च तद्विलक्षणाश्रितं ; शरीराश्रितत्वस्य प्रत्यक्षत उपलम्भादिति, तदियमिच्छा
प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयाऽवगम्यमाना शरीरादिविलक्षणमा-
श्रयमवगमयति सविशेषणात्कार्यत्वादिति स्थितम्, यश्च स विलक्षण आश्रय-
स्तत्रात्मसंज्ञाऽऽगमिकी,
एवमेव द्वेषादेरात्मलिङ्गतता वक्तव्या, यज्जातीयस्यार्थस्य सन्निधानाद्
दुःखमनुभूतवान् पुरुषः तज्जातीयमर्थ पुनरुपलभमानो दुःखसाधनतामनु-
संधाय तं द्वेष्टीति सोऽपि प्रतिसंधातारमेकमन्तरेण नोपपद्यते, आभ्यामिच्छा-
द्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते सोऽपि यथोक्तेन क्रमेणानुसंधानपूर्वक एव
प्रयतमानस्य सुखदुःखे भवतः, ते अपि तथैव द्रष्टव्ये, ज्ञानं यद्यपि प्रथममनु-
संधाननिरपेक्षमपि भवति तदपि च शक्यत एवात्मलिङ्गमभिधातुं तथाऽप्यनुसं-
धानपूर्वेच्छाऽऽदिकार्यप्रकरणाभिर्णायात्मकमिह ज्ञानमुदाहर्त्तव्यं, तत्र हि बुभु-
त्साविमर्शादिपूर्वकत्वमुपकल्पते तदेवमिच्छाऽऽदीन्यात्मलिङ्गानीति स्थितम् ,
शास्त्रे चानेकहेतूक्तिर्न दोषाय कथास्विव ।
शिष्यः कश्चित्क चित्किंचिदनुस्मृत्याभिधास्यति ॥
इति कारुणिको मुनिरनेकमिह हेतुमार्गमुपदिष्टवान्,
नन्वत्र चोदितमनुसंधातारमन्तरेण तदेतदिच्छाऽऽदिकार्य नावकल्पत इति
कथं ज्ञायते ? एकत्र प्रमातरि तद्दर्शनादिति यदुच्यते तदिदमेकप्रमातृग्रहणा-
दात्मप्रत्यक्षत्वमङ्गीकृतं स्यादिति व्यर्थमनुमानम्; अग्रहणे तु प्रमातुरेकम्य
तत्पूर्वेच्छाऽऽदेः प्रतिबन्धाग्रहणादशक्यमनुमानमिति, परिहृतमेतत् कार्य-
त्वेनैव लिङ्गत्वमिच्छाऽऽदेरुपवर्णितमस्माभिर्न स्मरणादिसमानाश्नयतयेति,
किमर्थस्तर्हि प्रतिसंधानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषेधार्थः, न त्वेवं-
व्याख्यातवन्तो वयमेकस्य प्रमातुरिच्छाऽऽदिकार्याश्रयत्वदर्शनादेकाश्रयत्वानु-
मानमिति तस्मान्न दोषः, शरीराश्रयत्वप्रतिषेधसाधनत्वेऽपि हेतोर्व्याप्तिग्रहणा-
सम्भवाद् , ग्राह्क(१)बुद्धिदर्शनस्मरणेच्छाऽऽदिकार्यजातमेकत्र प्रमातृनियतत-
याऽनवधारितम्, तत्कथमस्मदवस्थाऽऽदिभिन्नशरीराद्याश्रयत्वनिषेधस्य तत्पु-
र्वकस्य वाऽऽत्माश्रितत्वस्य सिद्धिः,
क एवमाह न गृहीतमेककर्तृकतया कार्यमिच्छाऽऽदीति, ? यदि गृहीतं तर्हि
वक्तव्यं क्व गृहीतं केन वा प्रमाणेन गृहीतमिति ? स्वात्मन्येवेति चेत्सोऽयं-
प्रत्यक्ष आत्मा भवेद् एवमनभ्युपगमे न व्याप्तिग्रहणमिति,
उच्यते-न च प्रत्यक्ष आत्मा न च व्याप्तेरग्रहणं न चैव धर्म्मन्तरे व्याप्तिर्गृ-
ह्यते किं तु स्वसंतान एव तथाऽपि न सिद्धयति प्रमातृनियतानुमानं; कथमिव
सिद्धयति संतानान्तरेषु प्रतिसंधानस्य दृष्टत्वात् ,
( १ ) 'ग्राह्क' इत्यस्य स्थाने 'यावद्' इति क० पु० पा० ।
२ न्या०
: किं च काऽत्र व्याप्तिग्रहणकालः प्रमातृवृद्धि तद्भेदेन भवितव्यं, ततः किम् ?
इदं ततो भवति कथं स्वसंतान एव व्याप्तिर्गृह्येत। कथं च तत्रैव प्रमातृनिय-
माऽनुमीयतामिति सेयमुभयतः पाशा रज्जुः,; आत्मा वा प्रत्यक्षो व्याप्तिर्वा दुर-
वगमेति, नैतदेवं, यथा शाक्यपक्षे सत्त्वात्क्षणिकत्वानुमाने व्याप्तिग्रहणं तथै-
हापि भविष्यति, तत्र हि यैव क्रमयौगपद्यव्यावृत्त्या सत्त्वस्य नित्येभ्यो व्या-
वृत्तिः स एव क्षणिकैरन्वय इति धर्म्यन्तरनिरपेक्षतयैव साध्येऽपि धर्मिणि प्रति-
बन्धग्रहणं चानुमानं च दर्शितं, तद्वदिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसंधानस्य
धर्म्यन्तरे यद्यपि ग्रहणं नास्ति तथाऽपि संतानान्तरभेदे यदस्य दर्शनं तदेवै-
ककर्तृकत्वदर्शनमिति कोऽनयोर्हेतुत्वे विशेषः,
ननु तत्र (१)चित्येभ्यः क्रमयौगपद्यव्यावृत्त्या व्यावृत्तं सत्त्वं शक्यग्रहण-
मिह तु प्रमातृभेदेन प्रतिसंधानव्यावृत्तिर्दुरवगमा स्वसंतानेऽपि ज्ञा-
नक्षणा भिन्ना एव प्रमातारः, न च तेभ्यो व्यावृत्तं प्रतिसंधानमिति, तिष्ठत्व-
न्वयो व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते स्वसंताने संतानान्तरवत्प्रमा-
तृभेदाग्रहणात् तद्भेदग्रहे हि स्वसन्तानविवेको न स्यान्न चैवं प्रमातृभेदाग्रहणा-
भावात्पुनरप्यात्मा प्रत्यक्ष आयातः,
मैवम्—नात्मा प्रत्यक्षः प्रमातृभेदो हि स्वसंताने न गृह्यते, अन्यश्च भेदाप्र-
हणमन्यश्च तदैक्यग्रहणं भेदाग्रहवदेव च व्याप्तिसिद्धेर्न कष्टमनुमानम्,
ननु च स्वसन्ताने प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वादुत ज्ञानानां कार्य-
कारणभावादिति न निश्चीयतेः ततश्च संदिग्धो व्यतिरेकः यथा ज्ञानानां-
कार्यकारणभावो नास्ति यथा च न तत्कृतोऽयं व्यवहारस्तथाऽनन्तरमेव
वक्ष्यामः, तस्मादिच्छाऽऽदिकार्येण युक्तमेकप्रमातृनुमानम् ,
ननु चाश्रितमिच्छाऽऽदि देह एव भविष्यति ।
भूतानामेव चैतन्यमिति प्राह बृहस्पतिः ॥
उक्तं च मदशक्तिवद्विज्ञानमिति, उच्यते—शरीरं तावन्नेच्छाऽऽदेराश्रयः
शैशवयौवनवार्धकादिदशामेदेन भिन्नत्वात् ,
तथा हि नान्यदृष्टोऽर्थः स्मर्तुमन्येन शक्यते ।
न चान्येन स्मृते तस्मिन्नन्यस्येच्छोपजायते ॥
तेनाद्यादर्थविज्ञानात्प्रभृतीच्छासमुद्भवात् ।
एकस्य कार्यचक्रस्य वक्तव्यः कश्चिदाश्रयः ॥
शरीरं च बाल्याद्यवस्थाभेदेन भिन्नमतस्तस्य नाश्रयो भवितुमर्हति संता-
नान्तरवद् यथा हि देवदत्तदृष्टेऽर्थे यज्ञदत्तस्य न स्मरणमेवं बालशरीराद्यनुभूते
युवशरीयस्य तन्न स्यात् ,
( १ ) ‘चित्येभ्यः’ इत्यत्र ‘नित्येभ्यः’ इति० क० पु० पा० ।
नन्ववस्थामात्रमेव भिन्नमवस्थातृशरीरस्वरूपमभिन्नमेव प्रत्यभिज्ञाप्रत्यय-
प्रामाण्यादवगम्यते, न चेयं प्रत्यभिज्ञा लूनपुनर्जातनखादिप्रत्यभिज्ञावदन्यथा-
सिद्धो विनाशास्यासम्भवात्, स्तम्बादौ हि क्षणभङ्गित्त्वप्रतिषेधः प्रत्यभिज्ञयैव
करिष्यते सा चेहापि तादृश्येव, तदयुक्तम्-स्तम्बादौ नानात्वकारणाग्रहणाद् इह
तु रूपपरिमाणपरिवेशाद्यन्यत्वदर्शनात्साद्दश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा
न खलु शिशुशरीरे तरुणशरीरे जरच्छरीरे च तुल्यमेव परिमाणमुपलभ्यते,
आहारपरिणामाच्च देहभेदोऽवगम्यते ।
पाकजोत्पत्तिमार्गेण न जीर्येतान्नमन्यथा ॥
न भवेत्परिपोषो हि दधिक्षीरादिभक्षणे ।
काञ्चनाद्युपयोगेन दृश्यते तस्य रक्तता ॥
क्षीणैरवयवैः कैश्चित्कैश्चित्तच्चाभिनवोद्गतैः ।
अभिन्न एवावयवी कथ
१२ न्यायमञ्जर्याम्
ष्पन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पाद-
विनाशौ सम्भवत इति स्थैर्याभावात्कथमनुसन्धानादिकार्ययोगोऽस्येति ।
पिठरपाकवादिमतम्-
अपरे-पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य मन्यन्ते सुषिर-
रद्रव्यारम्भाच्चान्तर्बहिश्च पाकोऽप्युपपद्यते दृश्यते च पक्केऽपि कलशे निषि-
क्तानामपां बहिः शीतस्पर्शग्रहणमतश्च पाककाले ज्वलदनलशिखाकलापानुप्रवे-
शकृतविनाशबलादपि शिशिरतरनीरकरणनिकरानुप्रवेशकृतनाशप्रसङ्गः, न चेदृशी
प्रमाणदृष्टिरतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भदान्तरन्तस्तेजःक-
णानुप्रवेशकृतपाकोपपत्तेरलं विनाशकल्पनया पिठरपाकपक्ष एव पेशलः,
यादृगेव हि निक्षिप्तो घटः पाकाय कन्दुके(१) ।
पाकेऽपि तादृगेवासावुद्गतो दृश्यते ततः ॥
क्व चित्तु संनिवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते पावकसंपर्क-
स्य तत्कारित्वे तु सर्वत्र तथाभावः स्यात्, तस्मादविनष्टा एव घटादयः पच्य-
न्ते सोऽयं तु घटादिन्यायः शरीरे नेष्यते,
न ह्यन्नपाकस्थैर्येऽपि तत्र कुम्भादिपाकवत् ।
चयापचययुक्तं हि शरीरमुपलभ्यते ॥
तस्मात्परिमाणादिभेददर्शनान्नैकं शरीरमिति ज्वालाऽऽदिप्रत्यभिज्ञावत्तत्प्र-
त्यभिज्ञेति स्थितम् ।
यदप्युच्यते-अवस्थानामेव नानात्वमवस्थाता पुनरेक एव देहाख्य इति तद-
प्ययुक्तम्, भेदाभेदविकल्पानुपपत्तेः, यदि शरीरादव्यतिरिक्ता एव तदवस्थाः तदा-
ऽवस्थानामप्यन्योन्यं भेदो न स्याद्, अथ व्यतिरिक्ताः शरीरादवस्थाः तर्हि भेदेन
तदुपग्रहो दर्शयितव्यः, न चासावस्ति गोत्वादावनुवृत्त्या बुद्धिरनन्यथासिद्धा
सती न केन चित्प्रतिहन्यते, इह पुनरवस्थान्तरैकत्वग्राहिणी बुद्धिः पूर्वनि त्या
प्रमाणबाधितत्वाद् भ्रान्तेति, तस्माच्छरीरस्य भिन्नत्वात्संतानान्तरवत् स्मृत्यनु-
संधानादिकार्ययोगो दुर्घट इति न तस्येच्छाऽऽदिकार्याश्रयत्वम्, इतश्च न शरीर-
स्य ज्ञानादियोगः परिणामित्वात्क्षीरादिवत् रूपादिमत्त्वात्तद्वदेव, अनेकसमूहस्व-
भावत्वात् त्रिदण्डादिवत् सन्निवेशविशिष्टत्वाच्च बाह्यभूतवत्, चैतन्यशून्यं-
शरीरं शरीरत्वान्मृतशरीरवत्, न शरीरधर्मश्चैतन्यमयावद्द्रव्यभावित्वात्,
न च कण्ड्वादिभिर्व्यभिचारः तदुपजनापाययोर्निमित्तान्तरजन्यत्वदर्शनादिह
च तदभावाद्विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः, तद्विशेष-
गुणत्वे हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङ्गः ।
(१) कन्दुकम्-'पजावा' इति प्रसिद्धः ।
आत्मन्याक्षेपः । १३
यत्तु मदशक्तिवदित्युक्तम् तत्र मदशक्तेर्दृष्टत्वादभ्युपगमो न ज्ञानस्य तत्र दर्शनम् ।
भूतचैतन्यवादनिरासः-
ननु ज्ञानमपि तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते भूतेष्व-
न्नपानाद्युपयोगपुष्टेषु पट्वी चेतना भवति तद्विपर्यये विपर्ययः, ब्रा-
ह्मीघृताद्युपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते, वर्षासु च स्वेदा-
दिनाऽतिदवीयसैव कालेन दृष्याद्यवयवा एव चलन्तः पूतनादिक्रिमि-
रूपा उपलभ्यन्ते, चैतन्यगुरुलाघवव्यवहारोऽपि भूतातिशयसदसत्त्वकृतो-
भविष्यतीति भूतचैतन्यवादपक्ष एव युक्तियुक्तो लक्ष्यते,
नैतच्चारु--चेष्टेन्द्रियार्थाश्रयः शरीरं(१) वक्ष्यते तत्र तदनुग्रहादिन्द्रियानुग्रहे
सति पटुकरणत्वाद्विषयग्रहणपाटवं, न हि विषयग्रहणादन्यच्चैतन्यं नाम, एतेन
ब्राह्मीघृतोपयोगोऽपि व्याख्यातः, व्यापकत्वादात्मनः सर्वत्र भावे सति भोगायत-
नत्वेन कदा चित्केषां चिद् भूतावयवानां समुपादानतः शुक्रशोणितादिवृद्ध्यव-
यवान्विकृतानूपादास्यते तथा च स्वेदजादिभेदे बहुभेदो भूतसर्गः प्रवर्त्तते विचित्र-
कर्मपरिपाकापेक्षयेति यत्किंचिदेतत्, तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ।
इन्द्रियचैतन्यवादनिरासः-
नापीन्द्रियाणि यथोक्तस्य ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते दर्शनस्पर्शा-
नाभ्यामेकार्थग्रहणाद्(२) यमर्थमद्राक्षं चक्षुषा तमेवैतर्हि स्पर्शनेन स्पृशामि यम-
स्प्राक्षं स्पर्शनेन तमधुना चक्षुषा पश्यामीति कतरदिन्द्रियमेवमनुसन्दधीत न चक्षु
स्पर्शाविषयत्वात् , न त्वगिन्द्रियं रूपाविषयत्वात्तस्मादुभयविषयग्रहणसमर्थः
कश्चिदनुसंधाताऽस्तीति स इन्द्रियव्यतिरिक्तो गम्यते,
अमुनैव प्रसङ्गेन रूपादिव्यतिरेकिणः ।
वक्तव्या गुणिनः सिद्धिरेतद्बुद्धिनिबन्धना ॥
रूपादिषु स्वतन्त्रेषु न ह्येष प्रत्ययो भवेत् ।
न रूपमस्य विषयो न स्पर्शो न च तद् द्वयम् ॥
अतश्च न गुणव्यतिरिक्तो गुणी भेदेनाग्रहणादित्यसिद्धः परोक्तो हेतुः
भेदग्रहणस्य दर्शितत्वात् , वृत्तविकल्पादीनां तु प्रतिसमाधानं सामान्यसमर्थ-
नावसरे कथितमवयविसिद्धौ वक्ष्यते चेत्यलमवान्तरचिन्तया, इतश्च नेन्द्रि-
याणां चैतन्यं करणत्वाद्वास्यादिवत्, भौतिकानि चेन्द्रियाणि वर्णयिष्यामः,
तेन य एष भूतचैतन्यनिराकरणे न्यायो वर्णितः स तेष्वपि योजनीयोऽतश्चैव-
मिन्द्रियान्तरविकारात् ,(३)
( १ ) गौतमसूत्र अ० १ आ० १ सू० ११ ।
(२) गौ० सू० अ० ३ आ० १ सू० १ (३) गौ० सू० अ० ३ आ० १ सू० १२
१४ न्यायमञ्जर्याम्
आम्रे हि चक्षुषा दृष्टे रसनिष्यन्दसुन्दरे ।
रसनस्य विकारः स्यान्नुर्दन्तोदकविप्लवः ॥
बहूनामिन्द्रियाणां च भिन्नाभिप्रायता भवेत् ।
तेनैकत्रैव सन्ताने नानाचेतनता भवेत् ॥
अतितुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते ।
मनश्चैतन्यवादनिरासः-
ननु मनस्तर्हीच्छाऽऽदेरधिष्ठानं भविष्यति तद्धि नित्यमेकं सर्वविषयमभौतिक-
मिति न प्राक्तनदोषैः स्पृश्यते ? उच्यते-मनसोऽपि तदाश्रयत्वमनुपपन्नं, कुतो ?
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् मनसो हीच्छाऽऽद्याश्रयत्वे ज्ञानादौ कर्तृ-
त्वात्तस्यापि बाह्यगन्धादिविषयज्ञानायौगपद्यानुपपत्तेस्तद्ग्रहणे घ्राणाद्यधिष्ठान-
पटुना केन चिदान्तरसुखदुःखादिविषयग्राहिणा स्मृत्यादिक्रियाकारिणा च क-
रणेन भवितव्यमिति तत्रात्मसंज्ञा भवेदात्मनि च कर्तरि मनः संज्ञेति,
न चास्य बाह्यकरणैः सिध्यन्ति सकलाः क्रियाः ।
न च स्मृतिसुखेच्छाऽऽदौ (१) शक्ताः स्युश्चक्षुरादयः ॥
चैतन्याश्रयतयाऽऽत्मनः साधनम्-
तेनेच्छासुखकृतिदुःखवेदनानामाधारो न खलु मनो न चेन्द्रियाणि ।
देहोऽपि व्रजति न तत्समाश्रयत्वं तेनान्यं पुरुषमतः प्रकल्पयामः ॥
दिक्प्रदर्शनमिदं कृतमिच्छाद्वेषयत्नसुखदुःखमतीनाम् ।
लिङ्गताकथनमात्मनि तत्र त्वस्ति हेतुनिवहो बहुरन्यः ॥
कर्तृप्रयोज्यता खलु दृष्टा दात्रादिकरणजातस्य ।
त्वक्श्रोत्राद्यपि करणं तथैव कर्त्रा प्रयुज्येत ॥
हिताहितप्राप्तिविमर्शयोग्या चेष्टा च दृष्टा नियता शरीरे ।
तच्चेतनाधिष्ठितताममुष्य गन्त्रीरथादेरिव कल्पयामः ॥
प्राणादिमारुतानामन्तश्चलतां चलाचलगतीनाम् ।
सहजनिजकर्मविकृतौ कारणमनुमीयते किञ्चित् ॥
इदं च देहादितरत्र दुर्लभं निरीक्ष्य वृद्धिक्षतभग्नरोहणम् ।
ध्रुवं गृहस्येव गतिः प्रकल्पते निजाश्रमक्षेमपरायणो नरः ॥
युक्तं च नैवं मनसा ह्यनधिष्ठितानां स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम् ।
स्यात्कश्चिदिष्टविषयानुगुणप्रयत्नो यत्प्रेरितं सदधितिष्ठति तानि चेतः ॥
ज्ञानप्रयत्नादिमतोऽथ कस्य दृष्टान्तता स्यात्करणादिलिङ्गे ।
कार्ये च नः पर्यनुयोग एष सामान्यमात्रस्य तवापि सिद्धेः ॥
(१) 'शक्तानिचक्षुरादीनि' ख० पु० पा० ।
आत्मन्याक्षेपः । १६
प्रत्यक्षादिप्रमाणैयों व्यवहारः स चात्मना ।
विना नित्येन नेत्येवं ततस्तस्य प्रकल्पकम् ॥
यत्प्रत्यक्षं प्रत्यभिज्ञास्वभावं ज्ञात्रन्यत्वेत्तस्य न ह्यात्मलाभः ।
ग्राह्यस्यैक्यं यद्वदर्थस्य तस्मात्सिद्धद्यत्येवं ग्राहकस्यापि पुंसः ॥
अविनाभावग्रहणं लिङ्गज्ञानं तदन्वयस्मरणम् ।
लिङ्गिप्रमितिरितीदं न बोद्धृभेदेऽनुमानं स्यात् ॥
ज्ञाते बनेचरमुखादतिदेशवाक्ये दृष्टे मृगे विपिनवर्त्तिनि गोसदृशे ।
तत्संज्ञतामितिफलं लभते प्रमातृभेदे न चेद् मुपमानमितिप्रतिष्ठम् ॥
वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रह-
स्तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् ।
आकाङ्क्षादिनिबन्धनान्वयकृतं वाक्यार्थसम्पिण्डनं-
ज्ञातैकेन विनाऽतिदुर्घटमतो नित्यात्मसिद्धिर्भुवम् ॥
मयेदं पूर्वेद्युर्विहितमिदमन्येद्युरपरं विधातव्यं चेति श्रुतिकृषिवणिज्यादिषु जनाः ।
यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ॥
इत्यादि लक्षणमवादि तदेतदिच्छाद्वेषप्रयत्नसुखदुःखमाश्रयत्वम् ।
तत्सङ्गिनं तदिह हेयतया व्यवस्येत्तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः ॥
विज्ञानात्मवादिनः पूर्वपक्षः-
अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा ।
ज्ञानमात्रेण पूर्वोक्तो व्यवहारोऽवकल्पते ॥
ज्ञानं किमात्मवन्नित्यं सौगतैरुपगम्यते ।
प्राग्दर्शितानुसन्धानस्मरणदिक्रियाक्षमम् ॥
ज्ञानं बौद्धगृहे तावत्कुतो नित्यं भविष्यति ।
अन्येऽपि सर्वे संस्काराः क्षणिका इति गृह्यताम् ॥
क्षणिकं चेष्यते कार्यं न क चित्किञ्चिदाश्रितम् ।
स्वतन्त्रं ज्ञानमेवातो नान्यस्तेनाऽनुमीयते ॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः ।
न वस्त्वन्तरमित्येवं न ततोऽप्यन्यकल्पनम् ॥
गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना ।
न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥
निराश्रयेषु विज्ञानस्कन्धेषु क्षणभङ्गितु ।
कथं स्मृत्यादि कार्यं वा परलोकोऽपि वा कथम् ॥
सत्यपि वा परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते, येन हि